भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ११

विकिस्रोतः तः

सद्वृक्षप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
शतहस्तमितां मुष्टिं नानातरुविभूषिताम् ।।
पूगाम्रादिफलैर्युक्तं वास्तुं कृत्वा यजेत्तु यः ।। १ ।।
षष्टिवर्षसहस्राणि स्वर्गलोके वसेच्चिरम्।।
तद्विधानं प्रवक्ष्यामि यथाशास्त्रानुसारतः ।। २ ।।
नित्यं निर्वर्त्य विधिवत्पंच विप्रान्समर्चयेत् ।।
भोजयेत्पूजयेद्विष्णुं प्रजापतिसमन्वितम् ।। ३ ।।
अग्निकार्यं ततः कृत्वा दद्याद्विप्राय दक्षिणाम् ।। ४ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभाग एकादशोऽध्यायः।। ११ ।।