भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०३

विकिस्रोतः तः

क्षुद्रारामप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।
क्षुद्रारामप्रतिष्ठां च वक्ष्ये वै द्विजसत्तमाः ।।
अमंडले शुभे स्थाने द्विहस्तेऽप्यथ स्थंडिले ।। १ ।।
स्थापयेत्कलशं तत्र विष्णुं सोमं समर्चयेत् ।।
आचार्यमात्रं वरयेन्निशासूत्रैः प्रवेष्टयेत्।। २ ।।
वृक्षान्माल्यैरलंकृत्य भूषयेद्भूषणादिना ।।
दोहदं च ततो दद्यात्स्थापयेच्छतधारया ।। ३ ।।
भोजयेत्पञ्चविप्रान्हि पुरतस्तं विशेषयेत् ।।
कर्णवेधं ततः कृत्वा उत्सृजेद्वाक्यपूर्वकम् ।। ४ ।।
दद्याद्यूपं मध्यदेशे रोपयेत्कदलीं ततः ।।
रंभाश्च रोपयेद्दिक्षु स्थालीपाकविधानतः ।। ५ ।।
अष्टावष्टौ च जुहुयादन्येषां च घृतेन तु ।।
एकैकामाहुतिं दद्यात्स्विष्टकृत्तदनंतरम् ।। ६ ।।
दक्षिणां च ततो दद्यात्पूर्णां दत्त्वाहुतिं व्रजेत् ।।७।।
एकादिवृक्षं वृक्षाणां विधिं वक्ष्ये द्विजोत्तमाः ।।
समुत्सृज्य ततो यूपं कर्मणा सह धर्मवित् ।। ८ ।।
वृक्षमूले यजेद्धर्मं पृथिवी च विशं तथा ।।
दिगीशांश्च तथा यक्षानाचार्यं तोषयेत्ततः ।। ९ ।।
धेनुं च दक्षिणां दद्याद्दोहदं वृक्षपूजनम् ।।
कृत्वा सम्यग्विधानेन सवित्रेऽर्घ्यं निवेदयेत् ।। 2.3.3.१० ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे तृतीयोऽ ध्यायः ।।३।।