भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search

मध्यमविधानवर्णनम्

।।सूत उवाच ।। ।।
सप्ताग्निष्टोमको नाम द्युत्तमः कथितो विधिः ।।
मध्यमे मध्यमफलं कनिष्ठे तु कनिष्ठकम् ।। १ ।।
अधुना मध्यमं वक्ष्ये विधिं शास्त्रानुसारतः ।।
यथाविभवयागेन यत्कर्तव्यं नरेण वै ।। २ ।।
सद्योधिवासकल्पेन यूपादीनधिवास्य च ।।
पूर्वस्मिन्नेव दिवसे दैवज्ञकथिते शुभे ।। ३ ।।
मुहूर्ते कलशं स्थाप्य संगृह्य गणनायकम् ।।
स्थापयेत्प्रथमं यूपमा पोहिष्ठेतिमन्त्रकैः ।। ४ ।।
शन्नो देव्यास्ततः पश्चाद्गन्धद्वारेति गंधकम् ।।
श्रीसूक्तेन ततो दद्यात्पुष्पं दूर्वाक्षतं ततः ।। ५।।
काण्डादिति च मन्त्रेण ततो धूपं निवेदयेत् ।।
ये गृह्णामीति च ऋचा पूजायां स्थापयेत्ततः ।। ६ ।।
विवाहविधिना सर्वं कार्यं चैवाधिवासनम् ।। ७ ।।
सर्वमेव प्रयुंजीत तडागादिषु पण्डितः ।।
अधिवास्य तडागादीनाचार्यादींश्च सर्वशः ।। ८ ।।
संगृह्य गंधपुष्पाद्यैर्धूपैर्दीपैः सुशोभनैः ।।
ततः प्रभातसमये नित्यं निर्वर्त्य शास्त्रतः ।। ९ ।।
वृद्धिश्राद्धं ततः कुर्यान्मातृपूजापुरःसरम् ।।
अलंकृत्य यथाशक्ति आचार्यादींश्चरेद्बुधः ।। 2.2.20.१० ।।
शृणुयात्पश्चिमे भागे मंडपस्य समीपतः ।।
मध्यदेशे समुद्भूतं यज्ञपात्रं प्रशस्यते ।। ११ ।।
अथ वा तत्र देशीयं गुरुं वा श्रोत्रियोद्भवम् ।।
यज्ञे प्रधानद्वितीयमृत्विगाचार्यमेव हि ।। १२ ।।
वैतानकल्पे संपन्नं शक्तिकल्पपरायणम् ।।
निगमज्ञानसंपन्नं यज्ञे पात्रं प्रशस्यते ।। १३ ।।
पत्नीहीनमपुत्रं च श्यावदंतमदंतकम् ।।
गणानां याजकं षंढं स्वगोत्रं परिवर्जयेत् ।। १४ ।।
अप्रधानेषु यज्ञेषु दानयज्ञेषु सत्तमाः ।।
नियोजयेत्स्वगोत्रं च होमे नस्ति विचारणा ।। १५ ।।
कुशप्रतिकृतौ चापि ततः स्वर्गं स गच्छति ।।
धनमादौ च संशोध्य ततो यज्ञं समाचरेत् ।। १६ ।।
अयाज्ययाजनोद्भूतं पल्लवं व्यवहारके ।।
कूटसाक्ष्येण पल्लवे स्थाप्यहारकमेव च ।। १७ ।।
देवस्वं ब्राह्मणस्वं च लोहविक्रयणं धनम् ।।
हविर्विक्रयणं कृत्वा पुत्रभार्या दिविक्रयी ।। १८ ।।
निंदितानि पुराणेषु यत्कृतं तत्र तत्फलम् ।।
यज्ञसद्मनि विप्रांश्च न श्राद्धान्भोजयेत्क्वचित् ।।
न दद्यात्तस्य दानं च यावन्नैव समापयेत् ।। १९ ।।
ब्रह्मन्नाचार्यमुख्योसि संसारात्त्राहि मां विभो ।।
त्वत्प्रसादाद्गुरो यज्ञे प्राप्नुयां मानसेप्सितम् ।। 2.2.20.२० ।।
चिरं मे शाश्वती कीर्तिर्यावल्लोकाश्चराचराः ।।
प्रसीद त्वं महेशान प्रतिष्ठाकर्मसिद्धये ।। २१ ।।
त्वमादिः सर्वभूतानां संसारार्णवतारक ।।
ज्ञानामृतप्रदाचार्य विष्णु रूप नमोऽस्तु ते ।। २२ ।।
ब्रह्मासनसमुद्भूतं प्रकाशितदिगंतरम् ।।
त्वं च जांबूनदप्रख्य यजुर्वेद नमोस्तु ते ।।२३।।
प्रफुल्लकमलोद्भासि भास्वरांबरभूषित ।।
प्रकीर्णशास्त्रसंभार विधिज्ञ प्रणतोस्मि ते ।।२४।।
ज्वलद्वैश्वानरप्रख्य धूमश्यामालितानन ।।
षडंगवेदतत्त्वज्ञ ऋत्विङ् मोक्षं समाचर ।। २५ ।।
ततस्तूर्यादिघोषेण पुरस्कृत्य द्विजोत्तमान् ।।
यजमानः सपत्नीकः प्रविशेद्यागमण्डपम् ।। २६ ।।
स्वस्थाने स्थापयेद्विप्रान्मखे धर्मैर्यथाक्रमम् ।।
पूजयेद्गन्धमाल्याद्यैर्गंधाद्यैः सुमनोहरैः ।। २७ ।।
यज्ञे सुवितते योसौ पूज्यते पुरुषः सदा ।।
नारायणस्वरूपोसौ यज्ञं मे सफलं कुरु ।।२८।।
मखश्रेष्ठेषु सर्वेषु येन मंत्राः सुविस्तृताः ।।
यजुर्वेदार्थतत्त्वज्ञ ब्रह्मरूप नमोस्तु ते ।।२९।।
यज्ञेषु साक्षी सर्वेषु वेदवेदार्थतत्त्ववित् ।।
ऋग्वेदज्ञ महाप्राज्ञ विश्वरूप नमोस्तु ते ।। 2.2.20.३० ।।
मांगल्यं कर्मणां नित्यं शाश्वतं ब्रह्मरूपिणम् ।।
सिद्धये मम यज्ञस्य नमामि शिवरूपिणम् ।। ३१ ।।
पालयंति दिशः सर्वा विदिशश्च तथा इमाः ।।
दिक्पालरूपिणं विप्रं यज्ञसिद्ध्यै नमाम्यहम् ।।
पातयेद्दक्षिणं जानु विकिरान्विकिरेत्ततः ।। ३२ ।।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।।
ब्रह्मविष्णुशिवाः सर्वे रक्षां कुर्वंतु तानि वै।।३३।।
वेद्यावेदीति मंत्रेण पठेद्वेदिं प्रणम्य च।।
संपूज्य गन्धपुष्पाद्यैरिमं मंत्रमुदा हरेत्।। ३४ ।।
याजनं यजमानश्च श्रेयसा तत्र याजकः ।।
इदमर्घ्यमिदं पाद्यं धूपोयं प्रतिगृह्यताम् ।। ३५ ।।
ऐशान्यां कलशे देवं संपूज्य गण नायकम् ।।
ब्रह्माणं वासुदेवं च द्वितीयकलशे यजेत् ।।३६।।
मंडलं चैव विष्णुर्वै द्वारकारूपमास्थितः।।
तेन त्वां पूजयाम्यद्य स्वर्गप्राप्तिं कुरुष्व मे ।। ।। ३७ ।।
पूर्वादिदिक्षु कलशान्संस्थाप्य च त्रयंत्रयम् ।।
अर्धपादसवर्णेन निर्मितं तारणं बुधः ।। ३८ ।।
गंगामृत्तिकया युक्ते पल्लवे संनिवेदयेत् ।।
मंदरं कल्पयित्वा तु गोपीनां च कुलेन वा ।।३९।।
कलशोपरि संस्थाप्य मंदरं संप्रपूजयेत् ।।
स्योना पृथिवीति मंत्रेण गंधपुष्पैः पृथिग्विधैः ।।2.2.20.४०।।
( स्योना पृथिवीति मन्त्रस्य सुमंत ऋषिर्जगती छन्दो हरो देवता मंदरप्रीतये विनियोगः) ।।
एवं दक्षिणदिग्भागे नवतोलकनिर्मितम् ।।
प्रादेशमात्रलोहं तु रौप्येण गंधमादनम् ।।
मृदा संघटनैः पश्चात्कदाचन ऋचा यजेत् ।। ४१ ।।
कदाचनेति मंत्रस्य सूर्य ऋषिस्त्रिष्टुप्छन्दः सूर्यो देवता गंधमादनप्रीतये विनियोगः ।।)
उत्तरे तोरणतोद्रेरंगुष्ठद्वयमानके ।।
तोलकद्वयमानेन यवानां पिष्टकोपरि ।। ४२ ।।
( आप्यायस्वेति मंत्रस्य कर्दम ऋषिर्जगती छन्दः शची देवता सुपार्श्वप्रीतये विनियोगः ।।)
पूजयेत्पार्श्वकलशे धात्रादीन्पूर्वदिक्क्रमात् ।।
श्रीसूक्तेनैव मन्त्रेण यजेद्विजयसप्तकम् ।।
पूजयेत्परया भक्त्या गंधपुष्पाक्षतादिना ।। ४३ ।।
अंबाअंबिकेति मंत्रस्य नलिन ऋषिर्गायत्री छन्दः शंभुर्देवता जय प्रीतये विनियोगः ।।
गायत्र्या पूजयेद्दक्षे पश्चिमं कलशद्वयम् ।। ४४ ।।
( गायत्र्या विश्वामित्र ऋषिः सविता देवता विजयप्रीतये विनियोगः ।।)
भद्रं चैव सुभद्रं च प्रयतः संयजेद्बुधः।।४५।।
(उत्तरे युग्मकलशे मनोन्ना इति मंत्रस्य अंतक ऋषिर्बृहती छंदो निर्ऋतिर्देवता भूतप्रीतये विनियोगः।।)
भूतशुद्धिं ततः कृत्वा न्यासं कृत्वा विधानतः ।।
विधायार्घ्यादिकं चैव धर्मादिमंडले यजेत् ।।४६।।
मध्ये आधारशक्त्यादीन्वरुणं मध्यतो यजेत् ।।
पूर्वादिक्रमतश्चैव इन्द्रादीन्कुलदेवताः ।।४७।।
पार्श्वद्वये कर्णिकाया ब्रह्माणं चाप्यनन्तकम् ।।
स्वैःस्वैर्मंत्रैर्यथोक्तैश्च बलिभिर्गन्धपुष्पकैः ।। ४८ ।।
इन्द्राभिषेकमंत्रस्य वाद्यं गांधाररागकम् ।।
अग्नेस्तेजोसीति वाद्यं रागं चैव वराटकम् ।। ४९ ।।
घनकंटकमस्यापि वाच्यं रागं तु गुर्जरम् ।।
रक्षोधिपस्य संग्रामं वैतालं वाद्यमुच्यते ।। 2.2.20.५० ।।
नाटकाख्यं तथा रागं वरुणस्यापि मे शृणु ।।
वाद्यं राज्याभिषेकाख्यं रागो वसंतसंज्ञकः ।। ५१ ।।
ईशस्य नंदिघोषाख्यं वाद्यं रागोथ कामदः ।।
सुवर्णं दुंदुभिर्वाद्यं ब्रह्मणः कथितो बुधैः ।। ५२ ।।
रागो देवी वसंतश्च अनंतस्य निबोध मे ।।
वाद्यं गांधारताराख्यं रागश्चाङ्गारवातकः ।। ५३ ।।
सोमे घोषे भवेद्वाद्यं जलेशस्य महात्मनः ।।
मालवाख्यो भवेद्रागः पत्राग्रेषु महानपि ।। ५४ ।।
स्वैः स्वैर्धर्मैश्च संगृह्य दक्षिणे पृथिवीं यजेत् ।।
स्योना पृथिवीति मंत्रेण उपचारैः पृथग्विधैः ।। ५५ ।।
मण्डपस्योत्तरे भागे महादेवं प्रपूजयेत् ।।
नमो वृक्षेभ्य इत्यादि नैवेद्यैश्च पृथग्विधैः ।। ५६ ।।
( महादेवं द्विभुजं डमरुशूलधरमुमासहितं ध्यात्वा ।।
नमो वृक्षेभ्य इति मन्त्रस्य ब्रह्मा ऋषिर्गा यत्री छंदश्चन्द्रो देवता चन्द्रप्रीतये विनियोगः ।।)
गंधपुष्पादिभिर्भक्त्या भूतानि परितो यजेत् ।। ५७ ।।
वेतालाश्च पिशाचाश्च राक्षसाश्च सरी सृपाः ।।
अस्मात्प्रयांतु मे स्थानाद्ये चान्ये विघ्नकारकाः ।। ५८ ।।
मधुयुक्तं पायसान्नं वरुणाय निवेदयेत् ।।
पीतं चालोहितं कृष्णं शुद्धं कृष्णं च धूम्रकम्।। ५९ ।।
पीतं शुक्लं तथा चित्रं श्वेतमन्नं यथाक्रमम्।।
बलयस्तु दिगीशानां ग्रहाणामपि ताञ्छृणु ।। 2.2.20.६० ।।
क्षीरौदनं ग्रहेशाय शुक्लान्नं शशिने स्मृतम् ।।
लोहितान्नं च भौमाय बुधाय क्षीरषाष्टिकम् ।। ६१ ।।
पीतमन्नं देवगुरोः शुक्रस्य सिततंदुलम् ।।
मांसौदनं शनेर्ज्ञेयं राहोश्च कृष्ण भक्तकम् ।। ६२ ।।
धूम्रवर्णं तु ताम्रं तु भौमस्य क्षीरषाष्टिकम् ।।
पिष्टकान्नं शिवस्योक्तं भूतानां माषभक्तकम् ।। ६३ ।।
एवं बलिं विधायाथ अग्रे कुंभं निवेशयेत् ।।
प्रदेशद्व्यङ्गुलं नाम अष्टोत्तरसहस्रकम् ।।६४।।
बह्वंगुलकं विन्यस्य विन्यस्य कलशोपरि।।
निशावांछ्तिसूत्रैश्च संवेष्ट्य पिहितं तथा ।। ६५ ।।
शरावं च पुनर्दद्याद्वर्धनीं प्रतिपूजयेत् ।।
अस्त्राय फडिति मंत्रेण ध्यात्वा देवं जलेश्वरम् ।। ६६ ।।
सूक्तं यजेद्यथाशक्ति शतमष्टोत्तरं जपेत् ।।
कुंडेषु विन्यसेन्नागानष्टौ पूर्वादिषु क्रमात् ।। ६७ ।।
अनंतं पूजयेत्पूर्वं मानेनांगुलमात्रकम् ।।
निर्मितं कांचनेनैव सप्तवर्तिकया सुधीः ।। ६८ ।।
राजतं वासुकिं नागं यजेत्पत्रांतरे पुनः ।।
पादमात्रेपि चांगुष्ठमात्रं ताम्रस्य भक्ष्यकम् ।। ६९ ।।
पंचांगुलं तोलिकया लोहं कर्कोटकं पुनः ।।
वर्तिकाभिः षोडशभिर्बृहत्पर्वप्रमाणकम् ।। 2.2.20.७० ।।
शंखपालं कुशमयमर्धपादेन निर्मितम्।।
अंगुष्ठमात्रं रक्तेन नागं तालकमात्रकम् ।।७१।।
अंगुष्ठे तोलकं पश्चात्पद्मनागं पुनर्यजेत् ।।
तोलकार्धप्रमाणेन अंगुलं परिमाणतः ।। ७२ ।।
कुर्याच्छैलमयं सम्यग्यथावल्लक्षणान्वितम् ।।
महापद्मस्य वै तस्य पूर्वमानेन निर्मितम् ।। ७३ ।।
ध्यात्वानंतं चतुर्बाहुं शुक्लसप्तफणान्वितम् ।।
दक्षिणोर्ध्वकरे शंखमधिचक्रं प्रतिष्ठितम् ।। ७४ ।।
वामोर्ध्वे तु गदापद्मं मध्यस्थाने व्यवस्थितम् ।।
सर्वालंकारसंयुक्तमेवं ध्यात्वा यथाविधि ।।७५।।।
सहस्रशीर्षेति मंत्रेण पूजयित्वा बलिं हरेत् ।।
लाजैश्च तिलसंमिश्रैः क्षीरयुक्तैः पृथग्विधैः ।। ७६ ।।
चतुर्विधं तथा श्वेतं सर्वालंकारसंयुतम् ।।
स्वकीयं प्रजपेत्तत्र आप्यायस्वेति वै ऋचा ।। ७७ ।।
पिण्याकं नागजिह्वां च तथा सर्जरसं दधि ।।
बलयस्तस्य निर्दिष्टास्तक्षकं लोहितं यजेत् ।। ७८ ।।
पद्मं टंकं दधानं च भुजाभ्यां नागसत्तमम्।।
मनोन्ना इति मंत्रेण आज्यं सोमो बलिं हरेत् ।। ७९ ।।
कर्कोटकं च द्विभुजं पीतवस्त्रधरं यजेत् ।।
पञ्च नद्य इति ऋचा विष्णुक्रांता बलिर्भवेत् ।। 2.2.20.८० ।।
पीतवस्त्रं च कुलिशं याजयेत्तु चतुर्भुजम् ।।
भुजाभ्यामूर्ध्वभागे तु रक्तपद्मधरं हरिम् ।। ८१ ।।
शर्करा कुष्ठकं चैव बलिस्तस्य प्रकी र्तितः।।
द्विभुजं शंखपालं च शंखाभं शंखधारिणम् ।। ८२ ।।
पद्मासनस्थं पद्माभ्यां हस्ताभ्यां च वरं विभुम्।।
ध्रुवक्षितिध्रुवोसीति मंत्राभ्यां पूजयेत्पृथक् ।। ८३ ।।
घटौदनं भृंगराजं पद्मं च वलयस्तयोः ।।
स्वगृह्योक्तेन विधिना संस्थाप्याग्निं कुशंडिकाम् ।। ८४ ।।
कृत्वा आज्यस्य संस्कारं वारुणं श्रपयेच्चरुम् ।।
जुहुयादष्ट बिल्वानि दिगीशानां घृतेन वै ।। ८५ ।।
एकैकामाहुतिं दद्याद्ग्रहाणां च त्रयंत्रयम् ।।
सुसमिद्भिर्घृतमधु पयोभिर्मिश्रितैः पृथक् ।। ८६ ।।
पलाशसमिधं पश्चात्प्रतिष्ठामाहुतित्रयम् ।।
शिवस्य परमान्नेन जुहुयादष्टसंख्यया ।। ८७ ।।
मध्वाज्यगुडमिश्राभिर्लाजाभिर्जुहुयात्पृथक् ।।
लाजान्यथोक्तं वितरेदेकैकामाहुतिं क्रमात् ।। ८८ ।।
स्थालीपाकस्य जुहुयादेकैकामाहुतिं पुनः ।।
वरुणं च समुद्दिश्य रुद्रं सर्वं पृथक्पृथक् ।। ८९ ।।
वास्तोष्पतय इति मंत्रेण पञ्चगव्यो भवेत्ततः ।।
स्योनापृथिवीति मंत्रेण व्रीहिमृत्तिकया पुनः ।। 2.2.20.९० ।।
वृषान्न इति मंत्रेण कया न इति वै पुनः ।।
कुशमूलमृदा चैव चतुष्पथमृदा तथा ।। ९१ ।।
इमा रुद्रेति मंत्रेण श्रीश्चेति ऋचा पुनः ।।
पद्मखण्डस्य च मृदा स्नापयेत्सुसमाहितः ।। ९२ ।।
तद्विष्णोरिति मंत्रेण तथा पुष्पोदकेन च ।।
तीर्थोदकेन कृष्णेन त्रिरक्तेन त्रिशीतकैः ।। ९३ ।।
पञ्चरक्तेन रक्तानां मृदा कैश्च कुशोदकैः ।।
स्वर्णतोयैश्च कलशैरष्टोत्तरशतेन तु ।। ९४ ।।
तैजसैर्मार्त्तिकैश्चापि अष्टाविंशतिभिस्तथा ।।
यथाशक्ति तु संस्थाप्य कुंकुमैश्चन्दनैरपि ।। ९५ ।।
अन्नं लिप्य ततो मृद्भिर्दद्याच्चैव यथाक्रमम् ।।
सुरासुरेति च ऋचा वस्त्रयुग्मेन वेष्टयेत् ।। ९६ ।।
ध्वजं च धनुनागेति गंधद्वारेति गोमयम् ।।
धूरसीति ततो धूपं होत्रे चाहुतिदीपकम् ।। ९७ ।।
सिंधोसीति च सिंदूरं स्वभावे रक्तकं तथा ।।
मालतीकुसुमैः कृत्यैर्नागान्संस्थापयेत्ततः ।। ९८ ।।
धाराभिः शतपुष्पाभिर्गन्धतोयादिभिस्तथा ।।
अथवाश्वत्थपत्रेषु वटपत्रेषु वा सुधीः ।। ९९ ।।
रोचना कुंकुमैर्वापि संलिख्य तत्र पूजयेत् ।।
प्रक्षिपेत्तत्र मुक्ता हि कलशेषु विनिक्षिपेत् ।। 2.2.20.१०० ।।
मंडपस्योत्तरेदेशे शय्यां निर्माय शोभनाम् ।।
राजतं वारुणं तस्यां पादमात्रेण निर्मिताम् ।। १०१ ।।
अंगुष्ठमात्रं संस्थाप्य ततः पुष्करिणीमपि ।।
स्वर्णपादेन घटितां चतुरस्रां सुशोभनाम् ।। १०२ ।।'
अंगुष्ठमात्रं सम्पूज्य वरुणाय निवेदयेत् ।।
यथाशक्ति ततो गां च संभवे पञ्चविंशतिः ।। १०३ ।।
सुवर्णं राजतं चैव धान्यं वासो वराटकम् ।। ।। १०४ ।।
नागयष्टिं समादाय किंचिदुत्तरगां तथा ।। १०५ ।।
ततोक्षताय भौमाय कृत्वा चाज्याहुतित्रयम् ।।
लाजान्दधिसमायुक्तं घृतं मधु गुडं तथा ।। १०६ ।।
क्षीरं च पिष्टकं चैव शष्कुलीगन्धपुष्पकम् ।।
पंचामृतं पञ्चरत्नं गर्भे दद्यात्समाहितः ।। १०७ ।।
आचार्यो यजमानेन सुसन्नद्धैश्च भृत्यकैः ।।
गंगाजलेशयोर्मध्ये पंचघोषपुरःसरम् ।। १०८ ।।
अवाप्य च ततो यष्टिं स्थिरो भवति वैरिवा ।।
ध्रुवं ध्रुवेति मंत्रेण यष्टिमा मंत्रयेत्ततः ।। १९१०३ ।।
यज्ञप्रियासि देवि त्वं सर्वविघ्नविनाशिनी ।।
पाहि मां सर्वपापेभ्य आत्मना त्वं स्थिरीभव ।। 2.2.20.११० ।।
इत्यामंत्र्य यजेच्चैव गायत्रीं च पठेत्ततः ।।
वनस्पतेति विडवामिति मंत्रं जपेत्पुनः ।। १११ ।।
पुनरागत्य तां वेदिं निर्मथ्य वरुणं प्रभुम् ।।
तथा पुष्करिणीं चैव वर्धनीं कलशोदरैः ।। ११२ ।।
अनिष्टं मार्जयेन्नागानुद्धृत्य कलशं तथा ।।
पाषाणाभ्यंतरं कृत्वा गोमयैः परिलिप्य च ।। ११३ ।।
वरुणं पुष्करिण्यां च जलमध्ये विनिक्षिपेत् ।।
नमोस्त्विति च मन्त्रेण बलिं दद्याच्च पायसम् ।। ११४ ।।
निर्मन्थेत्तत्र यो नागः स्थापयेत्तु यथाविधि ।।
श्रावयेत्तमिमं मंत्रमत्र संनिहितो भव ।। ११५ ।।
अत्र स्वामी भवान्नाग रक्षणीयस्त्वया जनः ।।
गायत्रेण त्वा छंदसामीमन्त्रं संश्रावयेत्पुनः ।। ।। ११६ ।।
संपूज्य गंधपुष्पाद्यैः पुरतो निक्षिपेद्दिशि ।।
पिधाय नागराजानमृचाभ्यां परिसूत्रकैः ।। ११७ ।।
सन्निरुद्ध्याशु संस्थाप्य बलिं दद्या द्विधानतः ।।
लाजौदनं मनस्तस्य यज्जाग्रत ऋचा जपेत् ।। ११८ ।।
एवं भूरिति मंत्रै स्वैः स्वैरेव तु पृथग्विधैः ।।
स्वासु दिक्षु च संस्थाप्य पूज येच्च प्रयत्नतः ।। ११९ ।।
पूर्वभागे पुष्करिण्यां हरिताभं सवज्रकम् ।।
हलग्रहीत मंत्रेण न्यस्य लाजाहुतिं कुले ।। 2.2.20.१२० ।।
त्रातारमिति मंत्रेण अग्नौ विन्यस्य मौक्तिकम् ।।
मनःशिलां प्रवालं च अग्निमीडेति संपठेत् ।।१२१।।
वैश्वानरेण मन्त्रेण पठल्लाँजाहुतिं पुनः ।।
दद्याद्ये ते शतमन्त्रेण पश्चिमे काटिकं न्यसेत् ।।१२२।।
शालिबीजेन सहितं कया न इति मंत्रकम् ।।
वरुणस्यो इति मंत्रेण दद्यादष्टादशाहुतीः ।।१२३।।
उत्तरे रोचनां कन्यां तथैव गौरसर्षपम् ।।
कुंकुमेन समायुक्तं कुविदंडमृचा पठन् ।। १२४ ।।
विन्यस्य तेन मंत्रेण प्रदद्यादाहुतिं पुनः ।।
ऐशान्यां मंद्रकं रंगमी शावा इति संपठन् ।। १२५ ।।
संस्थाप्याज्याहुतिं दद्यात्तमीशान ऋचा पुनः।।
आसद्यैर्मंत्रसंयुक्तैर्देवं नारायणं यजेत् ।। १२६ ।।
वरुणात्मकं ततो ध्यात्वा ततो नीराजनं पठेत् ।।
जानुभ्यामवनिं गत्वा पठेज्ज्ञानामृतं स्तवम् ।। १२७ ।।
धर्मो वंशं ततः कुर्यादुत्सर्गांते विधीयते ।।
ततो देवीं पुनः कृत्वा दत्त्वा पुष्पाञ्जलित्रयम् ।। १२८ ।।
सर्वसत्त्वोपकाराय समुत्सृजेत्तु वै जनम् ।।
उत्सृष्टं सर्वसत्त्वेभ्यो दृश्यते जलमूर्जितम् ।। १२९ ।।।
रमंतीं सर्वभूतानि स्नानपानावगाहनैः ।।
वरुणं च ततो देवं पुष्करिण्यां च निक्षिपेत् ।। 2.2.20.१३० ।।
जले वरुणमन्त्रेण मत्स्यादीन्प्रक्षिपेत्ततः ।।
पक्षिणश्च शुभांस्तत्र भेकं कूर्मं च कर्दमम् ।।१३१।।
शैवालं प्रक्षिपेच्चैव दक्षिणां तदनंतरम् ।।
सुवर्णं धान्यरत्नं च आचार्याय पृथग्ददेत्।।१३२।।
ऋत्विग्भ्यश्च पृथग्दद्याद्यथावित्तानुसारतः ।।
ब्राह्मणेभ्यो गायनेभ्यो वसुभ्यश्च पृथक्पृथक् ।। १३३ ।।
नित्यं समाप्य विधिवद्दद्यात्पूर्णाहुतिं पुनः ।।
दद्यादर्घ्यं च सूर्याय हस्तास इति संजपन् ।। १३४ ।।
ततः प्रदक्षिणावर्तं संवेष्ट्य क्षीरधारया ।।
प्रासादपक्षे प्रासादमारामे अथ मंडपम् ।।१३५।।
शताधिधारया शक्त्या त्रिवारं ब्राह्मणैः सह ।।
विकीर्य लाजकुसुमं व्रीहीश्चैव कपर्दकान् ।। १३६ ।।
तूर्यघोषेण महता ततो विप्रपुरःसरम् ।।
यजमानः सपत्नीकः प्रविशेत्स्वगृहं पुनः ।। १३७ ।।
ततो गृहार्चनं कृत्वा ब्राह्मणानथ भोजयेत् ।।
कुमारीश्च कुमारांश्च दीनान्धकृपणानपि ।।१३८।।
नारायणं ततो दद्याद्विप्रमुद्दिश्य भक्तितः ।। १३९ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभाग विंशोऽध्यायः।। २० ।।

इति मध्यमपर्वणि द्वितीयभागः समाप्तः ।। २ ।।