भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १९

विकिस्रोतः तः

देवग्रहपूजाविधानवर्णनम्

।। सूत उवाच ।। ।।
गतो यागगृहादन्यन्मण्डलांतरमाश्रितः ।।
यजमानस्तथा नित्यं कर्म कृत्वा यथाविधि ।। १ ।।
पंच देवान्नमस्कृत्य तथा यज्ञेश्वरं हरिम् ।।
संकल्पं च ततः कृत्वा ब्राह्मणानामनुज्ञया ।। २ ।।
एतस्मिन्पुण्यदेशे तु फलं गोत्रश्च वै यमः ।।
वेदव्यासादिप्रणीतं यथाशास्त्रनिदर्शनम् ।। ३ ।।
यथायथा स्वतन्त्रोक्तं पुण्या रण्याभिधायकम् ।।
जलाशयप्रतिष्ठायां करिष्ये विधिवद्द्विजाः ।। ४ ।।
यथायथा च कल्पोक्तं यथाकुण्डं विधानतः ।।
साधिवासं यथैवैकः पुण्यारण्यविधायकः ।। ५ ।।
जलाशयप्रतिष्ठां च करिष्ये विधिवद्द्विजाः ।।
संकल्पमेवं कृत्वा तु वृद्धिश्राद्धं समाचरेत् ।। ६ ।।
मातृयागं पुरस्कृत्य वृद्धिश्राद्धं समापयेत्।।७।।
भेर्यादिघोषेण सुमंगलेन पद्यं लिखेदत्र सषोडशाक्षरम् ।।
इन्द्रादिदिक्पालवरायुधानि समुल्लिखेदेव दिशि स्थितानि ।। ।। ८ ।।
ब्रह्मेशान्वरयेत्सर्वानाचार्यं तु विशेषतः ।।
स्वर्णकुंडलयुग्मेन तथा ताम्रादिभाजनैः ।। ९ ।।
नानारत्नैश्च वस्त्रैश्च आचार्यं वरयेद्बुधः ।।
हेमालंकारयुग्मैश्च वासोभिर्विविधरैपि ।। 2.2.19.१० ।।
यथामानं यथाशक्ति यथाभिवृणुयाद्बुधः ।।
रचिता यजमानेन ध्रुवं स्वस्त्यस्तु ते इति ।।११।।
ततः सर्वौषधीभिश्च यजमानः सपत्निकः ।।
आपोहिष्ठेतिमन्त्रेण स्नापयामासुरप्रजाः ।। १२ ।।
यवगोधूमनीवारतिलश्यामाकशालयः ।।
प्रियंगुव्रीहयश्चाष्टौ सर्वौषधिगणः स्मृतः ।। १३ ।।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।।
सर्वौषध्युदकस्नातः स्नापितो वेदपुङ्गवैः ।। १४ ।।
ब्राह्मणैरभ्यनुज्ञातः पुरोहितपुरःसरः ।।
नानामंगलघोषेण भेरीपटहनिस्वनैः ।। १५ ।।
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ।।
पश्चिमं द्वारमासाद्य प्रविशेद् यागमण्डपम् ।। १६ ।।
चरके पूजयेद्विघ्नं गंगां च यमुनां तथा ।।
पार्श्वयोश्चार्धतो लक्ष्मीं प्रतिहारमनुक्रमात् ।। १७ ।।
वेदिं प्रदक्षिणीकृत्य नमस्कुर्याद्यथाविधि ।।
उपविश्य ततस्तस्मिन्ब्राह्मणानुमते स्थितः ।। १८ ।।
स्वस्ति वाच्यं ततः कृत्वा पंच देवान्प्रपूजयेत् ।।
भूतोत्सादं ततः कृत्वा विकिरान्विकिरेद्भुवि ।। १९ ।।
अपक्रामंतु ये भूता ये चास्मिन्विप्रकारकाः ।।
यस्मान्नो नाम्नि वर्तंते यज्ञमात्रं प्रवर्तताम् ।। 2.2.19.२० ।।
पूजयेदासनं पश्चात्स्वकीयं पुष्पचंदनैः ।।
नमोनंतासनायेति तथा पद्मासनाय च ।। २१ ।।
विमलासनाय च नमो नमः सारासनाय च ।।
योगासनाय च नमः पृथिव्यै नम इत्यपि ।। २२ ।।
ततो भूमितले वामहस्तं दत्त्वा पठेन्नरः ।।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।। २३ ।।
त्वं च धारय मां नित्यं पवित्रमासनं कुरु ।।
सूर्यायार्घ्यं ततो दत्त्वा गुरुं नत्वा कृताञ्जलिः ।। २४ ।।
देवं हृत्पद्मके नीत्वा प्राणायामत्रयं चरेत् ।।
ततोऽर्चयेद्विघ्नराजमैशान्यां च घटोपरि ।। २५ ।।
गन्धपुष्पैस्तथा वस्त्रैर्नैवेद्यैर्विविधैरपि ।।
गणानां त्वेति मंत्रेण ब्रह्माणं तदनंतरम् ।। २६ ।।
आब्रह्मन्निति ऋचा तद्विष्णोरिति संस्मरन् ।।
वासुदेवं ततः पश्चाद्बलिभिर्गन्धचंदनैः ।। २७ ।।
ततो देवशरीरं तु नवमासाद्य त्रिंशतम् ।।
वेद्याश्च परितः सर्वान्स्वेस्वे स्थाने यथाक्रमम् ।। २८ ।।
ततो राजाधिराजेन भूतशुद्धिं समाचरेत् ।।
ततो बुद्बुदमध्ये तु श्वेतपद्मासनस्थितम् ।। २९ ।।
शुद्धस्फटिकसंकाशं शंखकुन्देन्दुसप्रभम्।।
किरीटकुण्डलयुतं सितं पंकजधारिणम् ।। 2.2.19.३० ।।
शुक्लमाल्यांबरं शुक्लं शुक्लगंधानुलेपनम् ।।
अहितुण्डासनस्थं च पाशहस्तं महाबलम् ।। ३१ ।।
स्तूयमानं सुरगणैः सिद्धगंधर्वसेवितम् ।।
सुचारुवदनं देवं पद्ममालोपशोभितम् ।। ३२ ।।
राजीवलोचनं नित्यं नागलोकोपशोभितम् ।।
मकरग्राहकूर्माद्यैर्नानाजलचरैर्वृतम् ।। ३३ ।।
जलाशयगतं देवं चिंतयेज्जलशायिनम्।।
ततो न्यासं प्रकुर्वीत पचांगत्वावशोभितम् ।। ३४ ।।
अर्घ्यपात्रं ततः कृत्वा त्रिभागजलपूरितम् ।।
अष्टधा मूलमंत्रं च जप्त्वा तेनोदकेन च ।। ३५ ।।
आसनं यागवस्तूनि प्रोक्षयेत्तेन वारिणा ।।
अरुणाय विद्महे तमोघ्नाय च धीमहि ।। ३६ ।।
तन्नो अरुणः प्रचोदयादिति स्नानं समाचरेत् ।।
ततो गणेशमैशान्यामाग्नेय्यां गुरुपादुकाम्।। ३७ ।।
धर्माधर्मादिकान्सर्वान्त्सत्त्वादीनथ चार्चयेत् ।।
सूर्यसोमजलादीनां मण्डलानि यथाक्रमम् ।।३८।।
मध्ये शक्तिं च क्षीरोदमनंतं पृथिवीं तथा ।।
कूर्मं चाधारशक्तिं च सुमेरुं मन्दरं तथा ।। ३९ ।।
पञ्चतत्त्वं समभ्यर्च्य सांगोपागमनंतरम् ।।
ततः श्वेतं च कुसुमं साक्षतं योगमायया ।। 2.2.19.४० ।।
गृहीत्वा पूर्ववद्देशे स्थापयेत्कलशोपरि ।।
आवाहनं ततः कृत्वा मन्त्रेणानेन मंत्रवित् ।। ४१ ।।
एह्येहि भगवन्वरुण एष यज्ञः प्रवर्तते ।।
यज्ञभागं गृहाणेदं त्वामेवावाहयाम्यहम् ।। ४२ ।।
एवमावाह्य लोकेशमष्टौ मुद्राः प्रदर्शयेत् ।।
गायत्र्या स्नापयित्वा तु दद्यात्पाद्यादिकत्रयम् ।। ४३ ।।
पुष्पाञ्जलिं ततो दत्त्वा मूलमंत्रेण देशिकः ।।
पूर्वादिपत्रमूलेषु धर्मादीन्पूजयेद्बुधः ।। ४४ ।।
सत्त्वाद्याः पूजयेत्तत्र तेषामेव वरांगनाः ।।
ज्ञानं धर्मं च सोमं च रजः सत्त्वं तमस्तथा ।। ४५ ।।
पूर्वादिपत्रमध्ये तु ग्रहानष्टौ प्रपूजयेत् ।।
पत्राग्रे लोकपालानामग्न्या(ग्र्या?)दीनायुधांस्तथा ।। ४६ ।।
कर्णिकादक्षिणे पूर्वं वामे चापि शचीपतिम् ।।
पूर्वपत्रे तु ब्रह्माणं पूजयेत्सितपङ्कजैः ।। ४७ ।।
नैर्ऋत्ये वरुण स्याथ मध्येऽनंतं प्रपूजयेत् ।।
पीठमन्त्रेषु पूर्वादिब्रह्माणं च शिवं तथा ।। ४८ ।।
विष्णुं चापि गणेशं च पृथिवीं गंधचन्दनैः ।।
जपेन्मन्त्रं साष्टशतं सहस्रं विजपेद्बुधः ।।४९ ।।
जानुभ्यामवनीं गत्वा विजयाख्यस्तवं पठेत् ।।
ईशानादिपीठकोणेषु कमलामंबिकां तथा ।। 2.2.19.५० ।।
नैर्ऋत्यां विश्वकर्माणं वायव्ये तु सरस्वतीम् ।।
पूर्वादिद्वारदेशे तु मरुतं चावहादिकम् ।। ५१ ।।
आवहं प्रवहं चैव तथैवोद्वहसंवहौ ।।
विन्यसेत्पश्चिमे द्वारि निवहं च परीवहम् ।। ५२ ।।
विन्यसेदुत्तरद्वारि मरुतं च पराभवम् ।।
आग्नेयादिषु कोणेषु बहिष्पीठं ततो जयेत् ।। ५३ ।।
पिशाचान्राक्षसान्भूतान्वेतालांश्च तथा क्रमात् ।।
क्षोभकः कामरूपश्च सौभद्रो मरुतस्तथा ।। ५४ ।।
गोमुखो नन्दभद्रश्च द्विजिह्वो मलिनस्तथा ।।
हस्तिकर्णो विशालाख्यः सप्तरक्षोगणः स्मृतः ।। ५५ ।।
भूमिदो वरदश्चैव जयंतः क्षोभकस्तथा ।।
विवस्वंतः सुदंतश्च एते भूतगणाः स्मृताः ।। ५६ ।।
अंगदो नीलकर्णोऽसौ वसंतो यावकस्तथा ।।
घोररूपा महाकायः वेतालाश्च प्रकीर्तिताः ।।५७।।
गंधपुष्पाक्षतैर्भक्तं सर्वे देवा ग्रहादयः ।।
ध्यानवर्णानुरूपेण पूजनीयाः प्रयत्नतः ।। ५८ ।।
ध्यायेदादित्यमारक्तं रक्तपद्मासनस्थितम् ।।
रक्तांबरधरं रक्तं रक्तमाल्यानुलेपनम् ।। ५९ ।।
यवविद्रुमसंकाशं सिंदूरारुणसप्रभम्।।
आकृष्णेनेति मंत्रेण स्थापयेत्कलशोपरि ।। 2.2.19.६० ।।
इहागच्छेति चावाह्य पाद्यार्घ्यैश्च पृथग्विधैः ।।
गंधपुष्पादिभिर्भक्त्या पूजयेत्तं यथाविधि ।। ।। ६१ ।।
बलिं च लोहितं दद्यात्पायसं दधिखंडकम् ।।
घृतलिप्तं च शाल्यन्नं पताकां रक्तवर्णिकाम् ।। ६२ ।।
श्वेतांबरधरं श्वेतं शुक्लगंधानु लेपनम् ।।
द्विभुजं वरदं देवं गदाहस्तं महाबलम् ।। ६३ ।।
नानाभरणसंपन्नं सिद्धगंधर्वसेवितम् ।।
शुक्लपद्मासनस्थं चाश्वं दद्याच्छ्वेतभूषितम्।। ।। ६४ ।।
इमं देवा इति मंत्रेण स्थापयेत्पूर्वदिग्दले ।।
सितवस्त्रैश्च पुष्पैश्च शुक्लमाल्यानुलेपनैः ।। ६५ ।।
पायसैः श्वेतबलिभिर्दधिभक्तं निवेदयेत्।।
धूपैः श्वेतपताकाभिर्नैवेद्यैर्विविधैरपि ।। ६६ ।।
रक्तमाल्यांबरं देवं रक्ताभरणभूषितम् ।।
सुचारुनयनं रक्तं रक्तपद्मासनस्थितम् ।। ६७ ।।
किरीटकुंडलधरं मेषकंठं चतुर्भुजम् ।।
वरदं यज्ञनाशं च शूलशक्तिगदाधरम् ।। ६८ ।।
सर्वकामप्रदं देवं सिद्धगंधर्वसेवितम् ।।
चिंतयेत्परया भक्त्या मंगलं धरणीसुतम् ।। ६९ ।।
अग्निमीळेतिमंत्रेण स्थापयेदग्निदिग्दले ।।
पूजयेद्रक्तपुष्पैश्च रक्तमाल्यानुलेपनैः ।। 2.2.19.७० ।।
धूपै रक्तपताकाभिर्गुडभक्तनिवे दनैः ।।
अतसीपुष्पसंकाशं कर्णिकारसमप्रभम् ।। ७१ ।।
रौहिणेयं महाकायं नीलनीरजलोचनम् ।।
प्रशांतवदनं देवं पीतवस्त्रं चतुर्भुजम् ।।७२।।
खङ्गचर्मधरं तद्वद्गदापरशुधारिणम् ।।
पद्मासनगतं देवं पीतपद्मासनस्थितम् ।। ७३।।
नानाभरणसंपूर्णं मृगेन्द्रवरवाहनम् ।।
उद्बुध्यस्वेति मंत्रेण या म्यां तु स्थापयेद्बुधम् ।। ७४ ।।
पूजयेद्गन्धपुष्पाद्यैः पीतगंधानुलेपनैः ।।
वस्त्रैः पीतपताकाभिर्बलिभिः कृशरान्वितैः ।। ७५ ।।
पीतवर्णं गुरुं ध्यायेत्पीतपद्मासनस्थितम् ।।
पीताभरणसंपन्नं पीतवस्त्रं चतुर्भुजम् ।।७६।।
वरदं दंडहस्तं च साक्षसूत्रकमंडलुम् ।।
पूज्यमानं सुगंधर्वैः सेन्द्रैर्देवगणैरपि ।।७७।।
बृहस्पतय इति मंत्रेण नैर्ऋत्यां दिशि संस्थितम् ।।
पीतचन्दनगंधैश्च पीतवस्त्रादिभूषणैः ।।७८।।
धूपैः पीतपताकाभिः पीतोदकनिवेदनैः।।
पूजयेत्परया भक्त्या पुरंदरपुरोहितम् ।। ७९ ।।
ध्यायेच्छुक्रं भृगुसुतं श्वेतपद्मासनस्थितम् ।।
चतुर्भुजं महाकायं वरदं दंडधारिणम् ।। 2.2.19.८० ।।
महाबाहुं विशालाक्षं साक्षसूत्रकमंडलुम् ।।
स्तूयमानं मुनिश्रेष्ठैः सेवितं दैत्यपुङ्गवैः ।। ८१ ।।
सिंहासनगतं देवं नीलेन्दीवरलोचनम् ।।
विलसत्पुण्डरीकस्य मालाभिरुपशोभितम् ।। ८२ ।।
नानादैत्येन्द्रपुत्रांश्च पाठयन्तं मुहुर्मुहुः ।।
नानाशस्त्रास्त्रचतुरं नानाशास्त्रविशारदम् ।। ८३ ।।
एवं ध्यात्वा भृगुश्रेष्ठं जपन्नन्नात्परिस्रुतम् ।।
मनसा भक्तियुक्तेन स्थापयेत्पश्चिमे दले ।। ८४ ।।
सितचंदनवस्त्रैश्च धूपमाल्यानुलेपनैः ।।
धूपैः श्वेतपताकाभिः सक्तुभिः क्षीरसंयुतैः ।। ८५ ।।
पूजयेत्परया भक्त्या पुंडरीकाक्षतैरपि ।।
ध्यायेत्सौरिं चतुर्बाहुं शूलहस्तं वरप्रदम् ।। ८६।।
इन्द्रनीलनिभं श्यामं दिव्य बाणधनुर्धरम्।।
इन्दीवरासनस्थं च सरोजवरसप्रभम् ।। ८७ ।।
नीलांबरधरं नीलपद्ममालोपशोभितम् ।।
घोररूपं महाकायं छायाहृदयनन्दनम्।। ८८ ।।
शन्नोदेवीति मंत्रेण वायव्यां दिशि विन्यसेत् ।।
कृष्णचंदनवस्त्रैश्च कृष्णमाल्यानुलेपनैः ।। ८९ ।।
धूपैर्नीलपताकाभिर्बलिभिर्माषमिश्रितैः ।।
धूम्रवर्णं सदा केतुं गदाहस्तं वरप्रदम् ।। 2.2.19.९० ।।
द्विभुजं भीमकायं च धूम्राक्षं धूम्रवाससम् ।।
केतुं कृण्वन्निति मन्त्रेण ऐशा न्यां स्थापयेद्दिशि ।। ९१ ।।
धूम्रवर्णैश्च माल्यैश्च धूम्रगंधानुलेपनैः ।।
धूम्रधूम्रपताकाभिर्बलिभिर्माषमिश्रितैः ।। ९२ ।।
पूजयेत्परया भक्त्या केतुं सर्वार्थसिद्धिदम् ।।
लोकपालानहं वक्ष्ये सर्वसिद्धिप्रदायकान् ।। ९३ ।।
येषु पूजितमात्रेषु नालभ्यं विद्यते क्वचित् ।।
देवराजं ततो ध्यायेत्पुष्पबाणचयप्रभम् ।।
द्विभुजं पीतसंकाशं नीलेन्दीवरलोचनम् ।। ९४ ।।
रक्तोत्पलधरं तद्वत्पीतवाससमन्वितम् ।।
चामरासक्तहस्तैश्च कन्यारत्नैश्च शोभितम् ।। ९५ ।।
इन्द्राणीं चिंतयेद्वामे उत्पलद्वयधारिणीम् ।।
एवं संपूजयेद्भक्त्या सुरराजं जगत्प्रभुम् ।।
त्रातारमिति मन्त्रेण स्थापयेत्कर्णिकोत्तरे ।। ९६ ।।
पूजयेत्परया भक्त्या धृपगंधानुलेपनैः ।।
नानाविधोपहारैश्च पताकाभिर्ध्वजैरपि ।। ९७ ।।
बलिं क्षीरान्वितं दद्यान्मोदकं सितशर्कराम् ।।
उत्तप्तस्वर्णसंकाशं वीतिहोत्रं चतुर्भुजम् ।। ९८ ।।
अर्धचन्द्रसमस्थं च अजवाहनमुत्तमम् ।।
ज्वालावितानसंरक्तं मूर्ध्नि सप्तशिखान्वितम् ।। ९९ ।।
वरदं विभयं मालां दक्षे सूत्रं कमण्डलुम् ।।
त्रिनेत्रं रक्तनयनं जटामुकुटमंडितम् ।। 2.2.19.१०० ।।
नानाभरणसंपन्नं सिद्धगन्धर्वसेवितम् ।।
अग्निजिह्वेति मंत्रेण स्नापयेदग्निदिग्दले ।। १०१ ।।
पूजयेद्रक्तपुष्पैश्च रक्तमाल्यानुलेपनैः ।।
धूपै रक्तपताकाभिर्बलिभिः पायसैरपि ।। १०२ ।।
नीलाञ्जनचयप्रख्यं नीलसिंहासनस्थितम् ।।
महामहिषमारूढं दंडपाशधर विभुम् ।। १०३ ।।
करालवदनं भीमं ज्वाला घूर्णितलोचनम् ।।
घोरदंष्ट्राकरालैश्च किंकराणां गणैर्वृतम् ।।
महिषं चिंतयेद्वामे चित्रगुप्तं च दक्षिणे ।। १०४ ।।
अच्छीयस इति मंत्रेण स्थापयेद्यमदिग्दले ।।
पूजयेत्परया भक्त्या धर्मराजं जगद्गुरुम् ।।
राक्षसेन्द्रं महाकायं कृष्णवर्णं द्विबाहुकम् ।। १०५ ।।
नानाभरणसंपन्नं खङ्गहस्तं महाब लम् ।।
वरमुक्ताविमानस्थं घोररूपं जलेश्वरम् ।। १०६ ।।
एष त इति मंत्रेण नैर्ऋत्यां स्थापयेद्दिशि ।।
कृष्णचन्दनवस्त्रैश्च कृष्णमाल्यानुलेपनैः ।। १०७ ।।
धूपैः कृष्णपताकाभिर्बलिभिर्माषमिश्रितैः ।।
शुद्धस्फटिकसंकाशं शंखकुन्देन्दुसप्रभम् ।। १०८ ।।
द्विभुजं पाशहस्तं च सुन्दराङ्गं वरप्रदम् ।।
वरुणस्येति मंत्रेण स्थापयेत्पश्चिमे दले ।। १०९ ।।
सितचन्दनधूपैश्च पताकाभिर्ध्वजैरपि ।। 2.2.19.११० ।।
समीरणं कुञ्जरवर्णसन्निभं मृगाधिरूढं द्विभुजं द्विनेत्रम् ।।
ध्वजांबरं चापि दधानमेकं नीलांबरं मेघगणैर्वृतं च ।। १११ ।।
नीलचन्दनवस्त्रैश्च नीलमाल्यानुलेपनैः ।।
पूजयेत्परया भक्त्या पताकाभिर्ध्वजैरपि ।। ११२ ।।
धूपैर्नीलपताकाभिर्बलिभिः पायसैरपि ।। ११३ ।।
ध्यायेद्द्विनेत्रं द्विभुजं धनेशं पीतांबरं वै नरवाहनं च ।।
गदाधरं भक्तवरप्रदं च आवाहयेदुत्तरपद्मपत्रे ।। ११४ ।।
गन्धचंदनवस्त्रैश्च पीतमाल्यानुलेपनैः ।। ११५ ।।
धूपैः पीतपताकाभिर्बलिभिः पायसैरपि ।। ११६ ।।
स्निग्धकर्पूरसंकाशं तुषारकिरणप्रभम् ।।
त्रिशूलतुम्बुरुधरं तथाभयवरप्रदम् ।। ११७ ।।
उत्तंगवृषभारूढं त्रिनेत्रं भस्मभूषितम् ।।
कपालमालिनं तद्वत्खण्डेंदुकृतशेखरम् ।। ११८ ।।
एवं ध्यात्वा महेशानं स्थापयेदीशदिग्दले ।। ११९ ।।
पूजयेत्परया भक्त्या भक्ष्यभोज्यैरनेकशः ।। ।। 2.2.19.१२० ।।
सितध्वजपताकाभिर्बलिभिः पायसादिभिः ।।
त्वमीशान इति मंत्रेण ऋषिं छन्दः समीरयन् ।। १२१ ।।
ब्रह्माणं रक्तगौरागं शोण पद्मसमप्रभम् ।।
राजीवलोचनं तद्वत्पद्मगर्भसमप्रभम् ।। १२२ ।।
पद्मासनस्थितं तद्वच्छ्वेतवस्त्रं चतुर्भुजम् ।।
चतुर्मुखं सुरश्रेष्ठं मेघगम्भीरनिस्वनम् ।। १२३ ।।
राजहंससमायुक्तं विमानवरसंस्थितम् ।।
स्रुक्स्रुवौ दक्षिणे हस्ते वामे दंडं कमण्डलुम् ।।१२४।।
कुर्वाणमिव लोकांस्त्रीन्सिद्धगन्धर्वसेवितम् ।।
आज्यस्थालीं तथैवाग्रे कुशांश्च समिधं तथा ।। १२५ ।।
वामपार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम् ।।
आब्रह्मन्निति मंत्रेण स्थापयेत्पूर्व दिग्दले ।। १२६ ।।
नानाभक्ष्योपचारैश्च पूजयेद्गंधचन्दनैः ।।
धूपैः श्वेतपताकाभिर्बलिभिश्चाज्यपायसैः ।। १२७ ।।
अनन्तशुक्लवर्णाभं पीतवस्त्रं चतुर्भुजम् ।।
शंखचक्रगदापद्मधारिणं जगदीश्वरम् ।। १२८ ।।
आधारभूतं जगतां स्वर्णयज्ञोपवीतिनम् ।
नानाभरणसम्पन्नं फणाशतसमन्वितम्।। ।। १२९ ।।
ॐ नमोस्त्विति मंत्रेण स्थापयेद्वरुणांतरे ।।
पूजयेद्भक्ष्यभोज्यैश्च दीपगन्धानुलेपनैः ।। 2.2.19.१३० ।।
धूपैः श्वेतपताकाभिर्बलिभिश्चैव निर्मितैः ।।
ततो मण्डलपूर्वे तु ब्रह्माणं पीतवाससम् ।।।३४।।।
चतुर्भुजं चतुर्वक्त्रं स्रुवहस्तं वरप्रदम् ।।
बिभ्रतं च श्रुतं तद्वत्तथा दंडकमण्डलू ।।१३२।।
आब्रह्मन्निति मन्त्रेण पूजयेद्गन्धचन्दनैः ।।
दक्षिणे त्र्यंबकं ध्यायेच्छूलखट्वांधारिणम् ।। १३३ ।।
वरदं डमरुधरं नागयज्ञोपवीतिनम् ।।
निबद्ध जृटचन्द्रार्धं शुद्धस्फटिकसन्निभम् .।। १३४ ।।
कपालमालिनं देवं भुजंगाभरणान्वितम्।।
त्रिनेत्रं कुन्दसंकाशं भूतप्रेतगणैर्वृतम्।। १३५ ।।
त्र्यंबकं चेति मन्त्रेण पूजयेन्मधुपायसैः ।।
अतसीपुष्पसंकाशं हारकेयूरभूषितम् ।। १३६ ।।
नानाभरणसंपन्नं पीतवस्त्रं चतुर्भुजम् ।।
दक्षिणे च गदां चक्रं वामे शंखं सपद्मकम् ।। १३७ ।।
श्रिया दक्षिणतो वामे सरस्वत्या समन्वितम् ।।
तद्विष्णोरिति मंत्रेण स्थापयेत्पश्चिमे ततः ।। १३८ ।।
पूजयेद्गन्धपुष्पाद्यैः पायसेन घृतेन च ।।
गणेशं तु चतुर्बाहुं व्यालयज्ञोपवीतिनम् ।। १३९ ।।
गजेन्द्रवदनं देवं श्वेतवस्त्रं चतुर्भुजम् ।।
परशुं लगुडं वामे दक्षिणे दंडमुत्पलम् ।। 2.2.19.१४० ।।
मूषकस्थं महाकायं शङ्खकुन्देंदुसप्रभम् ।।
युक्तं बुद्धिकुबुद्धिभ्यामेकदंतं भयापहम् ।। १४१ ।।
नानाभरणसंपन्नं सर्वापत्तिविनाशनम् ।।
गणानां त्विति मन्त्रेण विन्यसेदुत्तरे ध्रुवम् ।। १४२ ।।
उत्तप्तजांबूनदहेमसन्निभां लक्ष्मीं सरोजासनसंस्थितां शुभाम्।।
वामे सरोजं दधतीं तथैव हस्ते च दक्षे धृतचामरां च ।। १४३ ।।
श्रीश्च तेति च मन्त्रेण ऐशान्यां मंडलाद्बहिः ।।
स्थापयेत्पूजयेद्भक्त्या सितचन्दन पङ्कजैः ।। १४४ ।।
मोदकं परमान्नं च यवक्षीरं निवेदयेत् ।। १४५ ।।
ततो देवीमंबिकां दिव्यरूपां ब्रह्मेंद्राद्यैः स्तूयमानां त्रिनेत्राम् ।।
सिंहेशस्थां तप्तजांबूनदाभां चन्द्रार्द्धेनाबद्धमौलिं जटाभिः ।। १४६ ।।
दिव्यैर्वस्त्रैर्बाहुभिः साग्रलम्बैर्दिव्यैर्माल्यैर्भूषणैः स्वैरुपेताम् ।।
ब्रह्मेंद्राद्यैर्दुर्जयां माहिषास्यं तीक्ष्णैरस्त्रैर्दानवं मर्दयंतीम् ।। १४७ ।।
शूलं तीक्ष्णं बाणशक्ती च तीक्ष्णे खड्गं तीक्ष्णं बिभ्रतीं दक्षिणेन ।।
चापं पाशं खेटकं चांकुशं च घण्टां वामे बिभ्रतीं वै कुठारम् ।। १४८ ।।
शिरश्छेदादर्धजातं कबन्धं खड्गं तीक्ष्णं बिभ्रतीं दैत्यराजम् ।।
नागैः पाशैर्वेष्टयित्वा समं ताच्छूलेनैनं निघ्नतीं देहमध्ये ।। १४९ ।।
सेन्द्रैर्देवैः स्तूयमानां सुवेणीं गंधर्वाद्यैः सिद्धसंघैश्च सेव्याम् ।।
नानावस्त्रैर्भूषणैर्दीप्यमानां ध्यायेद्देवीमंबिकामुज्वलंतीम् ।। 2.2.19.१५० ।।
वस्त्रैर्माल्यैर्यक्षधूपैर्वितानैर्भक्ष्यैर्भोज्यैर्मोदकैः पायसैश्च ।।
मांसैः पिष्टैश्छागलाढ्यैरशेषैः पूज्या देवी चंडिकाऽभीष्टदा च ।। १५१ ।।
श्यामां च पृथिवीं ध्यायेत्पंकजद्वयधारिणीम् ।। १५२ ।।
मण्डूकस्थां द्विभुजां स्योना पृथिवीति चार्चयेत् ।।
नैर्ऋत्यां विश्वकर्माणं द्विभुजं टंकधारिणम् ।। १९३ ।।
उत्पलं दक्षिणे हस्ते पद्मस्थं पीतवाससम् ।।
एवं ध्यात्वा ततो ब्रह्मन्निति मंत्रेण पूजयेत् ।। १५४ ।।
स्वस्थां सरस्वतीं ध्यायेद्वरदाभयदायिनीम् ।।
पीतवस्त्रां सुमुकुटां देवगन्धर्वसेविताम् ।। १५५ ।।
यामधा इति मन्त्रेण पूजयेत्सितचंदनैः ।।
बलिं श्वेत चरुं दद्यात्कृशरं यावकं तथा ।। १५६ ।।
स्थापयेद्वामदिग्भागे कुंदपुष्पैः प्रपूजयेत् ।।
पूर्वादिद्वारदेशे तु पूजयेच्च मरुद्गणैः ।। १५७ ।।
अग्न्यादिषु च कोणेषु बहिर्भूतान्समाचरेत् ।।
पिशाचा राक्षसा भूता वेतालकपिजातयः ।। १५८ ।।
निर्णासाश्चैव ते सर्वे रौद्रा विकृतरूपिणः ।।
ततो मण्डल मध्ये तु वारुणं पूर्ववर्त्मना ।। १५९ ।।
पूरयेत्कलशे तत्र सुवर्णादिविनिर्मितम् ।।
कूर्मं कूर्माकृतिं कुर्याच्छुद्धस्वर्णेन सत्तमाः ।। 2.2.19.१६० ।।
बृहत्पर्व प्रमाणेन राजतस्य च दुर्लभम् ।।
पादं पादेन मानेन अंगुलं परिमण्डलम् ।। १६१ ।।
प्रौष्ठीमत्स्यं तथा कुर्यात्कुलीरं ताम्रनिर्मितम् ।।
तेनैकस्य विनिर्माणं द्व्यंगुलायामविस्तृतम् ।। १६२ ।।
तथा मानेन मण्डूकं तां भूमिं मुनिसत्तमाः ।।
शिशुमारं च वै सम्यक्तोलकद्वयनिर्मितम् ।। १६३ ।।
अंगुलत्रयदीर्घं च यथा तस्याकृतिर्भवेत् ।।
सितचन्दनवस्त्रैश्च पूजनीयाः समंततः ।। १६४ ।।
यावकैश्च विशेषेण बहुमंत्रविशारदान् ।।
बह्वृचौ पूर्वमत्स्यार्थे दक्षिणे तु यजुर्विदौ ।। १६५ ।।
सासनौ पश्चिमे चाथ उत्तरेऽथर्वणौ स्मृतौ ।।
जयध्वमिति तान्ब्रूयाद्धोतृकान्पुनरेव हि ।। १६६ ।।
स्थापयित्वा पृथक्सूत्रे सर्पं च मातरुद्दीपमेव च ।।
पञ्चांगं शिवसूक्तं च यथा विष्णोर्हरस्य च ।। १६७ ।।
जयाग्रतः पुरुषसूक्तमद्भ्यः संभूतमेव च ।।
आशुः शिशानमारभ्य वयं मोषांगरुद्रके ।। १६८ ।।
यज्जाग्रतश्चाग्नेश्च विष्णोरराटमेव च ।।
समस्ताध्यायरुद्रेण शतरुद्राख्यमीरितम् ।। ।। १६९ ।।

शुकरहस्योपनिषदेअङ्गुलिविन्यासः
शुकरहस्योपनिषदे अङ्गुलिविन्यासः

पञ्चांगरुद्रस्य पुष्पदंत ऋषिर्गायत्री छन्दो वेदाहमेतद्बीजं श्रीश्चत्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । - ते इति शक्तिर्नमस्ते रुद्र इति नायकः परमरुद्रो देवता परम स्तुतौ विनियोगः ।।
सप्तांगरुद्रस्य पुष्पदंतऋषिः पंक्तिश्छंदः ।।
त्र्यंबकमिति अंगुष्ठाभ्यां नमः ।।
[१]त्रिपादूर्ध्वमिति तर्जनीभ्यां स्वाहा ।।
[२]वेदाहमिति मध्यमाभ्यां वषट् ।।
[३]अमीषां चित्रमिति अनामिकाभ्यां हुम् ।।
यवागूं सोम इति कनिष्ठिकाभ्यां वौषट् ।।
परितो धेनुमिति करतलकरपृष्ठाभ्याम् अस्त्राय फट् इति ।।
यज्जाग्रत इति हृदयाय नमः ।।
सहस्रशीर्षेति शिरसे स्वाहा ।।
अद्भ्यः संभूत इति शिखायै वषट् ।।
आशुः शिशान इति कवचाभ्यां हुं ।।
नमस्ते रुद्र इति नेत्रत्रयाय वौषट् ।।
रूढं ब्रह्मन्निति अस्त्राय फट् ।।
चतुर्दिक्षु छोटिकांदानम् ।। इति सर्वांगेषु ।।)
होमे प्रवर्तमाने तु सूक्तानन्यांश्च वै जपेत् ।।
प्रजपेद्वारुणं सूक्तं तथा च पालसूक्तकम् ।। 2.2.19.१७० ।।
रात्रिसूक्तं च रौद्रं च पावमानं समुज्ज्वलम् ।।
जपेच्च पौरुषं सूक्तं सर्वतोवरतं पृथक् ।। १७१ ।।
शाक्तं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम् ।।
सौरसूक्तं च यजतो दक्षिणेन यजुर्विदः ।। १७२ ।।
वैराजं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम् ।।
शैशवं पञ्चनिरयं गायत्र्यं ज्येष्ठसाम च ।। १७३ ।।
वामदेव्यं बृहत्साम तथा चैव रथंतरम् ।।
गोव्रतं च विकर्णं च रक्षोघ्नं पावनं स्मृतम् ।। १७४ ।।
गायंतं ब्राह्मणा ये च पूर्वादिद्वारदेशतः ।।
अन्नात्परिस्रुत इति पञ्चपूर्वं सौरसूक्तकम् ।। १७५ ।।
रुद्राध्यायं च पञ्चांगं रौद्र इत्यभिधीयते ।।
आप्यायस्वेति च चतुः सौम्यं सूक्तं प्रचक्षते ।। १७६ ।।
ईशावेत्यादि स्वांगं च कौष्मांडं दशमं स्मृतम् ।।
अग्रे बृहन्निति नवसूक्तं वै जातवेदसम् ।। १७७ ।।
षोडशं तु विभ्राड् वृहत्सौरं सूक्तं प्रकीर्तितम् ।।
सौरसूक्तं ध्रुवोसीति इषवो मंगलं स्मृतम् ।। १७८ ।।
रात्रिसूक्तं हि यज्वाग्ने रक्षोघ्नं शैवसूक्तकम् ।।
गणानान्त्वेति पञ्च आपोहिष्ठेति च त्रयम् ।। १७९ ।।
पवमानं तु तद्विद्धि पावमानं तु षोडश ।।
समस्तं देवयागेषु तद्रात्रौ तु तदूर्ध्वकम् ।।
तदर्द्धार्द्धं च आरामे कूपे त्वेकऋचं जपेत् ।। 2.2.19.१८० ।।
स्वगृह्योक्तविधानेन प्रतिकुण्डेषु होमयेत् ।।
संस्कुर्यादीक्षणाद्यैश्च संपूज्य च परस्परम् ।।१८१।।
प्रज्वाल्याग्निं च विधिवद्धोमं कुर्यादनन्तरम् ।।
वागीश्वरं समभ्यर्च्य वागीश्वर्या समन्वितम् ।। १८२ ।।
यस्य देवस्य यो यागः प्रतिष्ठा यस्य कस्यचित् ।।
प्रागेव तस्य जुहुयात्सहस्रं च शतं तथा ।। १८३ ।।
तिलाज्यैः पायसैर्वाथ पत्रपुष्पाक्षतेन च ।।
ग्रहेभ्यो विधिवत्सर्वं तथेन्द्रायेश्वराय च ।। १८४ ।।
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ।।
ऊर्जेन समिधा कुर्यादष्टाष्टौ स्वगृहेष्वपि ।।१८५।।
इन्द्रेश्वरमारुतानां तिलाज्येन घृतेन वा ।।
एकैकामाहुतिं दद्यात्स्वैर्मंत्रैर्यथाक्रमात् ।। १८६ ।।
दिगीशानां च प्रत्येकमष्टाष्टौ च विशेषतः ।।
विश्वकर्मन्निति मन्त्रेण कृत्वा आज्याहुतित्रयम् ।। १८७ ।।
समित्त्रयं पलाशस्य अथवाश्वत्थसंभवम् ।।
एकैकामाहुतिं दद्यादाज्येन च विशेषतः ।। १८८ ।।
शिवं प्रजा पतिं विष्णुं दुर्गां च कमलामपि ।।
सरस्वतीं च विधिवत्पृथिव्या इति पावकैः ।। १८९ ।।
भूतेभ्योऽप्याहुतिं दद्यादेवं मासद्वयं क्रमात् ।।
अन्येषां मधुराक्तेन तिललाजैर्ययाक्रमम् ।। 2.2.19.१९० ।।
विष्णुं चैव तु वायव्ये दुर्गायाश्च तथोत्तरे ।।
कमलायाश्च ईशाने ईशानस्य सभूतकम्।। १९१ ।।
एककुण्डे तु एकस्मिन्होमं कुर्याद्यथाविधि ।।
पक्षे वै पञ्चकुण्डे तु पूर्वादीनां क्रमेण तु ।। १९२ ।।
एककुंडे ग्रहान्कृत्वा कृत्वा बलभिदा सह ।।
दक्षिणे क्रमतश्चैव लोकेशं च तथैव च ।। १९३ ।।
पश्चिमे यस्य यागस्य दुर्गायाश्चोत्तरे दिशि ।।
ईशाने भूतयक्ष्मा च जुहुयाद्देशिकोत्तमः ।।! ।। १९४ ।।
विष्ण्वादिदेवतानां च अग्रकुंडे विधीयते ।।
प्रथमे दिवसे कुर्याद्देवतानां च स्थापनम् ।।
द्वितीये पूजनं कुर्याद्धोमं कुर्याद्यथाविधि ।। ।। १९५ ।।
बलिदानं तृतीये तु चतुर्थीकं चतुर्थके ।।
नीराजनं पञ्चमे तु पञ्चाहसाध्यको विधिः ।।
त्र्यहसाध्ये तृतीये तु नवाहे त्वथ पंचमे ।।। । १९६ ।।
उदङ्मुखः प्राङ्मुखो वाप्यैशान्यादि क्रमेण तु ।।
प्रादक्षिण्येन यज्ञं तु मन्त्रैः परिसमूहनम् ।।
मन्त्रपूर्वं साग्निकानां निरग्नेस्तुष्टिकेन तु ।। १९७ ।।
त्रिकुशेन महायागे विवाहादौ द्विपत्रकम् ।।
वैश्वदेवे त्वेकपत्रमिति साधारणो विधिः ।। १९८ ।।
दिग्विदिक्षु परिस्तीर्य महायागेषु सर्वदा ।।
दिक्षुमात्रं नित्यके च विश्वदेवे तथैव च ।। १९९ ।।
अकृत्वा कर्म नित्यं च वृथा नैमित्तिकं भवेत् ।।
तस्मात्फलाद्यैरपि तत्कृत्वा नैमित्तिकं चरेत् ।। 2.2.19.२०० ।।
प्रायश्चित्ते वैश्वदेवे सायंप्रातः प्रतीषु च ।। २०१ ।।
मारणोच्चाटहोमेषु तथा संकल्पिताकृती १
प्रत्यवायकुले क्वापि तत्र नित्याकृतिं विना ।। २०२ ।।
शतार्द्धं जुहुयाद्यत्र तत्र नित्यं विवर्जयेत् ।।
तूर्यहोमं ततः कृत्वा तूष्णीमेव जितेन्द्रियः ।। २०३ ।।
प्रजपेदिन्द्रमग्निं च सोमाय च यथाक्रमम् ।।
ततस्तु समिधाहोमं व्याहृतिस्तदनन्तरम् ।। २०४ ।।
भूर्भुवः स्वाहेति तथा तत्र इत्यादिपंचकम् ।।
अन्ते स्विष्टकृतं दद्याद्विधानं तस्य भोः शृणु ।। २०५ ।।
घृताहुतिं स्विष्टकृच्च द्विजसंस्कारकर्मसु ।।
घृतैः स्विष्टकृतं दद्याद्यागादौ परिवर्जयेत् ।। २०६ ।।
सर्वौषध्युदकस्नानं करिदंतोत्थमुष्णया ।।
रथ्यावल्मीकगोष्ठस्य तथाश्वस्य सुरस्य च ।। २०७ ।।
त्रिगन्धं च त्रिशीतं च कुशमूलस्य मृत्तिकाः ।।
निक्षिपेत्स्नानकुम्भेषु आचार्यादींस्तु स्थापयेत् ।। २०८ ।।
यजमानः पुरः कृत्वा दंतकाष्ठपुरःसरम् ।।
रात्रौ च भक्ष्यभोज्याद्यैः परितोष्य यवाक्षतम् ।। २०९ ।'
कृत्वा यथोक्तकालेन पूजयेत्तैलधारया ।।
ततः प्रभाते विमले स्नानं कुर्याद्यथा विधि ।। 2.2.19.२१० ।।
स्नानमब्दैवतैर्मन्त्रैः सूक्तेन पुरुषेण तु ।।
वारुणेन च सूक्तेन सुरास्त्वादि यथाक्रमम् ।। २११ ।।
सुरास्त्वामभिषिंचंतु ब्रह्मन्न विष्णुमहेश्वराः ।।
वासुदेवो जगन्नाथस्तथा संकर्षणः प्रभुः ।। २१२ ।।
आखंडलोग्निर्भगवान्यमो वै निर्ऋतिस्तथा ।।
वरुणः पवनश्चैव धनायक्षस्तथा शिवः ।। २१३ ।।
ब्रह्मणा सहितः शेषो दिक्पालाः पातु ते सदा ।।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।। २१४ ।।
बुद्धिर्लज्जा वपुः शांतिस्तुष्टिः कांतिश्च मातरः ।।
एतास्त्वामभिषिंचंतु देवपन्त्यः समाहिताः ।। २१५ ।।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः।।
ग्रहास्त्वामभिषिंचंतु राहुः केतुश्च तर्पिताः ।। २१६ ।।
देवदानवगंधर्वा यक्षराक्षसपन्नगाः ।।
ऋषयो मनवो देवा देवमातर एव च ।। २१७ ।।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ।।
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।। २१८ ।।
औषधानि च रत्नानि कालस्यावयवाश्च ये ।।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।। २१९ ।।
एते त्वामभिषिंचंतु सर्वकामार्थसिद्धये ।।
स्नानं समाप्य विधिवत्स्वगणेनानु लेपयेत् ।। 2.2.19.२२० ।।
गवामष्टोत्तरशतं तदर्धं चाथ विंशतिम् ।।
आचार्यायाभिरूपाय प्रददियादभिपूजयन्।। २२१ ।।
ततः प्रभाते विमले जले समृवतारयेत् ।।
शुद्धां च कपिलां दोग्ध्रीं घटाचामरवर्जिताम् ।। २२२ ।।
सामगाय ततो दद्यात्सुवर्णदक्षिणान्विताम् ।।
यूपमादाय संस्थाप्य स्नापयेद्वारुणं जपन् ।। २२३ ।।
अच्छेवतेन मन्त्रेण गायत्र्या तदनन्तरम् ।।
रोचनाभिस्त्रिरत्नेन तथा कुंभोदकेन च ।। २२४ ।।
पर्वताग्रमृदा तोयनागवल्मीकजातया ।।
गजदंतमृदा चैव कूलमूलतमृदा तथात ।।२२५।।
पुष्पोदकेन शंखेन तथा रत्नोदकेन च ।।
दध्यक्षतेन दुग्धेन घटेन शतधारया ।। २२६ ।।
सुगंधेन त्रिशीतेन विलिप्य च समाहितः ।।
दापयेत्कांस्यमूलं च दद्याल्लोहमयं च वा ।। २२७ ।।
माल्यवस्त्रैरलंकृत्य पूजयेद्गन्धचन्दनैः ।।
ईशावा इति मंत्रेण दद्यात्पुष्पाञ्जलित्रयम् ।। २२८ ।।
पुनस्त्वादिति मंत्रेण पुनः पुष्पं समुत्सृजेत् ।।
प्रादेशमात्रविस्तारं मध्ये वृत्तं षडंगुलम् ।। २२९ ।।
कांस्यचक्रस्य मानं तु ऊर्ध्वं यद्द्वादशांगुलम् ।।
तदूर्ध्वे विलिखेच्छूलं चतुरंगुलमानतः ।। 2.2.19.२३० ।।
अंगुष्ठहीने लोहस्य तत्र शूलं न कारयेत् ।।
ततो मंगलपूर्वे तु द्विजातीनां मतेन च ।। २३१ ।।
समुत्सृजेच्च प्रासादं तडागं च विशेषतः ।।
चतुर्दर्भं गृहीत्वा तु ईशानाभिमुखेन तु ।।
समुत्सृजेत्ततः पश्चाद्वाक्यमेतदुरीयेत् ।। २३२ ।।
ओमित्यादिश्रीकृष्णद्वैपायनाभिधान वेदव्यासप्रणीत भविष्यपुराणोक्त फलप्रप्तिकामश्चतुष्कोणाद्यवच्छिन्नमत्कारितपुष्करिणीजलमेतदूर्जितं गंधपुष्पाद्यर्चितं वरुणदैवतं सर्वसत्त्वेभ्यः स्नानावगाहनार्थमहमुत्सृजे ।। २३३ ।। ततो वरुणसूक्तेन वरुणं नागसंयुतम् ।।
मकरं कच्छपं चैव तोयेषु परिनिक्षिपेत् ।।२३४।।
पूजयेद्वरुणं देवमर्घ्यं दद्याद्विशेषतः ।।
तेनोदकेन संस्नाप्य गजदंतोत्थमृत्स्नया ।। २३५ ।।
श्वेताश्वसुरसंभूतं श्रीश्च तेति च संजपन् ।।
आप्यायस्वेति मंत्रेण मृदं चतुष्पथोद्भवाम् ।। ।। २३६ ।।
तद्विष्णोरिति मंत्रेण कुशमूलेन स्थापयेत् ।।
तीर्थतोयेन गंधेन तथा पञ्चामृतेन च ।। २३७ ।।
गायत्र्या स्नापयेद्देवं रत्नतोयेन साधकः ।।
आप्यायस्वेति मंत्रेण क्षीरेण तदनंतरम् ।। २३८ ।।
दधिक्राव्णेति दध्ना च मधुवातेति वै मधु ।।
सरस्वत्यांतेति जातीपुष्पतोयेन स्नापयेत् ।। २३९ ।।
( वरुणोत्तमिति मंत्रस्य नारायण ऋषिः गायत्री छंदो वरुणो देवता वरुणप्रीतये विनियोगः ।।
श्रीश्च ते इति मंत्रस्य कर्दम ऋषिः पंक्तिश्छंदः सरिद्देवता अश्वखुरमृदा स्नाने विनियोगः ।।
आप्यायस्वेति मंत्रस्य पर्वत ऋषिः उष्णिक्छन्दः सरस्वती देवता वरुणप्रीतये चतुष्पथमृदा स्नाने विनियोगः ।।
तद्विष्णोरिति मंत्रस्य मैनाक ऋषिस्त्रिष्टुप्छन्दः सरस्वती देवता वरुणप्रीतये कुशमृदा स्नाने विनियोगः ।।
कया न इति मंत्रस्य वसिष्ठ ऋषिरनुष्टुप्छन्दः सोमो देवता वरुणप्रीतये नागगंधस्नाने विनियोगः ।।
तेजोसीति मंत्रस्य गर्ग ऋषिस्त्रिष्टुप्छन्द वासवो देवता वरुणप्रीतये विनियोगः ।।
सरस्वत्यै भैषज्येनेति मंत्रस्य वामदेव ऋषिः पंक्तिश्छंदो विष्णुर्देवता वरुणप्रीतये विनियोगः ।।
पुष्पोदकस्नाने ।।
अग्न आयाहीति मंत्रस्य जनार्दन ऋषिः जगतीछन्द ऐन्द्री देवता वरुणप्रीतये विनियोगः ।।)
प्रक्षिपेत्पञ्च व्रीहींश्च इयञ्चेति च संपठन् ।।
पश्चान्नीराजनं कुर्यात्पञ्चघोषपुरःसरम् ।। 2.2.19.२४० ।।
शिरीषपुष्पसंभूतं दर्पणं कास्यसंभवम् ।।
गोपीचन्दनसंभूतं गंगामृत्तिकयाथ वा ।।
कृष्णां गां गोमयं वापि स्वस्तिकं शंखमेव च ।। २४१ ।।
कारयेत्पदकं वापि यवगोधूमकस्य वा ।।
उत्पन्नस्वर्गसंभूतं कलशं माषसंभवम् ।।
श्रीरसं पुष्पसंभूतं दर्पणं कांस्यसंभवम् ।। २४२ ।।
नन्द्यावर्ते मलयजे ततो निर्मलयेत्सुधीः ।।
एकैकं प्रतिमंत्रेण प्रत्येकं तु जलोपरि ।। २४३।।
ध्रुवप्रतिकृतैर्मंत्रैरष्टभिश्च यथाक्रमम् ।।
पूर्वाक्षतं माषभक्तबलिं दद्याद्विधानतः ।। २४४ ।।
ततो नारायणसूक्तेन देवं नारायणं व्रजेत् ।।
अन्येषां चैव देवानां प्रदद्यात्त्रिंशतं बलिम् ।। २४५ ।।
तत आचमनीयं च वस्त्रयुग्मं निवेदयेत् ।।
वक्ष्यमाणेन मंत्रेण क्रमेणापि विधानतः ।। २४६ ।।
पृथक्पृथक्ततो दद्यात्तावंत्येनापि भो द्विजाः ।।
वेदसूक्तसमायुक्ते यज्ञसूत्रसमन्विते ।।
सर्ववर्णप्रदे देव वाससी ते विनिर्मिते ।।२४७।।
शरीरं ते न जानामि चेष्टां नैव च नैव च ।।
मया निवेदितान्गन्धान्प्रगृह्य च विलिप्यताम् ।।२४८।।
अष्टोत्तरशतान्दीपान्परितः स्थापयेत्क्रमात् ।।
तदर्धं वा पञ्चविंशं मंत्रेण प्रयजेत्सुधीः ।। २४९ ।।
त्वं सूर्य्यचन्द्रज्योतींषि विषादस्त्वं तथैव च।।
त्वमेव सर्वज्योतींषि दीपोऽयं प्रतिगृह्यताम् ।। 2.2.19.२५० ।।
प्रदक्षिणं ततः कुर्यात्पञ्चधा सप्तधाथ वा ।।
वक्ष्यमाणेन मंत्रेण दद्याद्धूपं दशांगकम् ।। २५१ ।।
वनस्पतिरसो दिव्यो गंधाढ्यः सुरभिः शुचिः ।।।
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।। २५२ ।।
अलंकारैश्च गंधैश्च पीतवस्त्रैस्तथैव च ।।
दूर्वाक्षतेन माल्येन युक्तं पुष्पेण पूजयेत् ।।
दद्यात्पञ्चाञ्जलिं पश्चाद्विष्णुसूक्तं पुनर्जपेत् ।। २५३ ।।
ततः सुशोभने स्थाने वेदीं निर्माय देशिकः ।।
वरुणं विन्यसेत्तत्र तथा पुष्करिणीमपि ।। २५४ ।।
विवाहोक्तेन विधिना कुर्यान्निर्मंछनादिकम् ।।
गंधपुष्पं ततो दद्याद्गां च दद्यात्सदक्षिणाम् ।।२५५।।
चामरं व्यजनं छत्रं कांस्यं लोहं तथैव च ।।
कुर्यात्पुष्करिणीं रम्यां राजतीं च त्रिपादिकाम् ।। २५६ ।।
चतुष्कोणां च सुषमां द्व्यंगुष्ठपरिमंडलाम् ।।
सुवर्णप्रतिमां कुर्याद्भालेनैकेन भो द्रिजाः ।। २५७ ।।
अथ वा स्वर्णपत्रे च कुंकुमेन तले लिखेत् ।।
बाणशक्तिप्रमाणेन स्वर्णपत्रं तु द्व्यंगुलम् ।।२५८।।
कारयेच्चतुरस्रं च पीठोपरि न्यसेद्बुधः ।।
नीराजनांते विप्रेंद्राः संस्मरेदमृतं तरेत् ।। २५९ ।।
अशक्तेन तथैवैककाष्ठे वा पिप्पलच्छदे ।।
ताम्रपट्टे लिखेद्वापि अलक्तेन यथाविधि ।।2.2.19.२६०।।
प्राणप्रतिष्ठां कुर्यात्तु वरुणाय निवेदयेत् ।।
महं तु वत्सरं कुर्याद्वेदघोषपुरःसरम् ।। २६१ ।।
अशोकः खदिरः शालो ह्यश्वत्थो बिल्वकस्तथा ।।
धात्री कुरुबकश्चैव बकुलो नागकेशरः ।। २६२ ।।
एषामेव काष्ठयूपं यजमानप्रमाणकम् ।।
समादाय च संस्थाप्य वस्त्राद्यैः प्रतिगृह्य च ।। २६३ ।।
यूप रक्षेति मंत्रेण खनित्वा च प्रदापयेत् ।।
स्थिरो भवेति मन्त्रेण हस्तं दत्त्वा पठेत्ततः ।। २६४ ।।
तडागस्य तथैशान्यां तथा प्रासादकस्य च ।।
प्रापयेद्दक्षिणे भागे आवासस्य च मध्यके ।। २६५ ।।
नौका गत्वा ततः पश्चाद्यूपमादाय वाग्यतः ।।
मध्यदेशे तडागस्य समुलंघ्य तथोत्तरम् ।। २६६ ।।
गंतव्यं प्रकल्प्य तत्रैव आप्यायस्वेति वै ऋचा ।।
शिलायां होमयेत्तत्र हुनेन्नौकाहुतित्रयम् ।। २६७ ।।
अंगदाय स्वाहेति भौमाय नम इत्यतः ।।
लाजाशक्तौ दधिमधौ वासने प्रतिहोमयेत् ।। २६८ ।।
कूर्माय नम इत्युक्त्वा पृथिव्यै नम इत्युत ।।
स्वाहेत्यनंतमंत्रेण दद्यादर्घ्यमनंतरम्।।२६९।।
पञ्चरत्नेन गन्धेन शंखेनार्घ्यं प्रदापयेत् ।।
चतुरस्रं समाकीर्णं चतुर्दिक्ष्वधृतैर्जनैः ।। 2.2.19.२७० ।।
कल्पयेद्रोपयेत्तत्र हस्तं दत्त्वा पठेदिदम् ।।
स्थिरो भवेति मंत्रेण गंधपुष्पैः प्रपूजयेत् ।। २७१ ।।
चक्रं सदर्पणं दद्यान्नागदंडशिरो गतः ।।
विद्युदत्र च कर्तारं ग्र(ग्न?)हदुःखहरिप्रियम् ।। २७२ ।।
एवं चक्रं पूजयित्वा शूलं नागांश्च पूजयेत् ।।
उच्चैर्ध्वजं ततः कृत्वा न नागेति च संपठेत् ।। २७३ ।।
गायत्रस्वेति मंत्रेण पठेद्द्वारद्वयं ततः ।।
दिक्पालेभ्यो बलिं दद्यान्माषभक्तं गुडौदनम् ।। २७४ ।।
रक्तपुष्पान्वितं कृत्वा प्रणिपत्य प्रसादयेत् ।।
सहस्रं वा धनं दद्याद्ब्राह्मणाय कुटुंबिने।।२७५।।
ततो भोज्यं ससर्पिश्च सहिरण्यं यथाविधि ।।
इक्षुस्वस्तीतिकां दद्याज्जले मातॄश्च पूजयेत् ।।२७६।।
मंथरां वसुतां कांतां राक्षसीं च पिशाचिकाम्।।
नागिनीर्नागपुत्रांश्च मध्ये संपूजयेत्ततः ।। २७७ ।।
पूर्णांते च पृथग्दद्याल्लाजाद्यैर्गुडमिश्रितैः ।।
इन्द्रो बलवती स्वाहा यशो बलवतामपि ।।२७८।।
बृहत्पक्षाविशषोऽयं मध्यमे च कनीयके ।।
बृहस्पते च इन्द्राय तव देवलतामिति ।। २७९ ।।
स्वाहेति जुहुयात्पश्चात्प्रणीतां चालयेत्ततः।।
कनिष्ठ पक्षे प्रासादे तथा चैव जलाशये ।। 2.2.19.२८० ।।
मन्दरे तोरणस्यैव विष्वक्सेनं प्रकल्पयेत् ।।
आरामे च तथा सेतौ विशेषः पञ्चमो द्विजाः ।।२८१।।
पूजांतरेण यः कस्य जपेन्मन्त्रसहस्रकम् ।।
स्तुतिं समाप्य विधिवदिमं मंत्रमुदाहरेत् ।। २८२ ।।
सर्वसत्त्वेभ्य उच्छिष्टमपि तज्जलमुद्धृतम् ।।
इति पठित्वा पुष्करिणीजलं हस्ते गृहीत्वा जले क्षिपेत् ।। २८३ ।।
ततो जलमातृभ्यो नम इति जलमातॄः प्रपूजयेत् ।।
त्रैलोक्ये यानि स्थानानि स्थावराणि चराणि च ।। २८४ ।।
तेषामाप्यायनायैतज्जलमुत्सृज्यते मया ।।
मात्रे तु कृतमेतत्ते जगदानंदकारकम् ।। २८५ ।।
शिवाय सर्वभूतानां सदा पाहि जलाशयम् ।।
पिबंतो ह्यवगाहंतः सुखिनः सर्वजंतवः ।। २८६ ।।
जलं विश्वोपकाराय कृतमेतन्मया सदा ।।
कीर्तिस्तिष्ठतु मे देवाश्चिराय धरणीतले ।। २८७ ।।
त्वत्प्रसादान्महाभाग नागराज नमोऽस्तु ते ।।
येऽत्र केचिद्विपद्यंते स्वकर्मफलभोजनाः ।। २८८ ।।
तेषां दोषैर्न लिप्येऽहं स्वंस्वं गममवाप्नुयात् ।।
नारायणो जगत्प्राणः सर्वकामप्रदायकः ।। २८९ ।।
आपेया मातरः संतु जगतां वृक्षयोनयः ।।
अपांपते रसायात्र यादसामीश्वर प्रभो ।। 2.2.19.२९० ।।
वरुणास्यासने कीर्तिं सनातन नमोस्तु ते ।।
तत्तोयं निधिवद्दद्याद्दक्षिणार्थं द्विजन्मने ।। २९१ ।।
सुवर्णंरजतं दद्यादनड्वाहं पयस्विनीम् ।।
दद्याद्धेनुद्वयं पश्चात्कुर्याद्ब्राह्मणतर्पणम् ।।२९२।।
वह्निपूजां पुरस्कृत्य मन्त्रेण प्राशयेत्ततः ।।
पितॄणां दापयेदर्घ्यं ततो देवं प्रसादयेत् ।। २९३ ।।
बिंबमुद्रां पद्ममुद्रां नागमुद्रां प्रदर्शयेत् ।।
वैश्वानरा इति ऋचा पूजां कृत्वा विवर्जयेत् ।।२९४।।
यस्ते प्राणाञ्जपन्पश्चात्प्रकुर्यादथ चन्दनम्।।
प्रदक्षिणं ततः पश्चात्तडागस्य शृणु द्विजाः ।।२९५।।
ब्राह्मणान्पुरतः कृत्वा वेदघोषं समुच्चरन् ।।
महामङ्गलपूर्वेण प्रविशेद्भवनं सुधीः ।। २९६ ।।
ततो गृहार्चनं कुर्याद्ब्राह्मणानां च भोजनम् ।।
दीनानां कृपणानां च सवित्रेऽर्घ्यं निवेदयेत् ।।२९७।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे ऊनविंशोऽध्यायः ।। १९ ।।

  1. ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि ॥ - वासं ३१.४
  2. वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् ।
    तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥ - वासं. ३१.१८
  3. अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि ।
    अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥-वासं.१७.४४, ऋ. १०.१०३.१२