भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १७
देवध्यानवर्णनम्
।। सूत उवाच ।। ।।
अष्टौ होतारो द्वारपालाथाष्टौ अष्टौ कार्या ब्राह्मणा याजकाश्च ।।
सर्वे शुद्धा लक्षिता लक्षणाद्यैरेकः कार्यो जापकोस्मिन्महात्मा ।। १ ।।
दिव्यैर्गंधैर्गंधमाल्यैः सुवर्णैस्तैलं कार्यं ब्राह्मणाः पञ्चविंशाः ।।
आवाप्यैस्तु द्विगुणैर्वै बलीयो दिव्यैर्वस्त्रैरर्हणादक्षिणाभिः ।। २ ।।
नार्हयित्वा यथोक्तेन कश्चित्पत्रं निवेशयेत् ।।
अनर्हितेषु विप्रेषु न सम्यक्फलमाप्नुयात् ।। ३ ।।
प्रतिष्ठादिषु सर्वेषु सम्यग्विप्रानथार्हयेत् ।।
कुशद्विजं तु सर्वत्र अर्घ्यं विष्टरमात्रकम् ।। ४ ।।
प्रदद्यादर्हणं सम्यक्पश्चात्पात्रं निवेदयेत् ।।
विनार्हणं कृते तस्मिन्नरके परिपच्यते ।। ५ ।।
प्रत्येकं ब्राह्मणा यज्ञे वेदमन्त्रेषु पारगाः ।।
आचार्यो यदि कार्येषु वरयेद्दश गोव्रजान् ।। ६ ।।
विशिष्टानामभावेऽपि कुर्यात्कुशमयान्द्विजान् ।।
कुशप्रतिकृतौ चापि स्वगोत्रं स्वं द्विजं विना ।। ७ ।।
न कुर्याच्चरणोद्देशं तथा प्रहरसंहतिम् ।।
गोत्रादिकीर्तनांतेषु स्वनामोद्देशमीरयन् ।। ८ ।।
तुलापुरुषदाने च तथा च हाटकाचले ।।
कन्यादाने तथोत्सर्गे कीर्तयेत्प्रवरादिकम् ।। ९ ।।
न पात्रं प्रतिकृत्यर्थं न चालं सोदकं तथा ।।
मृतभार्य्यो ह्यभार्यश्च अपुत्रो मृतपुत्रकः ।। 2.2.17.१० ।।
शूद्रसंस्कारकश्चैव कृपणो गणयाजकः ।।
प्रायश्चित्तगृहीतश्च राजयाजकपैशुनौ ।। ११ ।।
शूद्रगेहनिवासी च शूद्रप्रेरक एव च ।।
स्वल्पकण्ठो वामनश्च वृषलीपतिरेव च ।। १२ ।।
बन्धुद्वेषी गुरुद्वेषी भार्याद्वेषी तथैव च ।।
हीनांगश्चैव वृद्धांगो भग्नदंतश्च दांभिकः ।। १३ ।।
प्रतिग्राही च कुनखः पारदारिक एव च ।।
श्वित्री कुष्ठी कुलोद्भूतो निद्रालुर्व्यसनार्थकः ।।१४।।
अदीक्षितः कदर्यश्च चंडरोगी गलद्व्रणः ।।
महाव्रणी च उदरी यज्ञपात्रं न कारयेत् ।। १५ ।।
वरणांते तु पात्राणां पूजामन्त्राञ्छृणु द्विज ।।
प्रतिमन्त्रेण गन्धाद्यैरर्चयेन्मन्त्रवित्तमः ।। १६ ।।
ब्रह्ममूर्तिस्त्वमाचार्यः संसारात्पाहि मां विभो ।।
त्वत्प्रसादाद्गुरो यज्ञं प्राप्तोस्मि यन्मयेप्सितम् ।।। ।। १७ ।।
चिरं मे शाश्वती कीर्तिर्यावल्लोकाश्चराचराः ।।
प्रसीद त्वं महेशान प्रतिष्ठाकर्मसिद्धये ।। १८ ।।
त्वमादिः सर्वभूतानां संसारार्णव तारकः ।।
ज्ञानामृतप्रदाचार्यो यजुर्वेद नमोऽस्तु ते ।। १९ ।।
ब्रह्मणैव समुद्भूत प्रकाशितदिगन्तर ।।
शुद्धजांबूनदप्रख्य यजुर्वेद नमोऽस्तु ते ।। 2.2.17.२० ।।
प्रतप्तकनकाभास भासितद्युतिभूतल ।।
मन्त्रप्रख्यानसंस्थान यजुर्वेद नमोऽस्तु ते ।। २१ ।।
प्रफुल्लकनकाभास भास्वरासुरभूषित ।।
प्रकीर्णमन्त्रसंभारविधिज्ञ प्रणतोऽस्मि ते ।। २२ ।।
षडंगवेदवेदज्ञ ऋत्विङ्गमोक्षप्रदो भव ।।
प्रविश्य मण्डलं विप्रा स्वस्थाने स्थापयेत्क्रमात् ।। २३ ।।
वेद्याः पश्चिमभागे तु आचार्यं स्थापयेद्बुधः ।।
कुण्डस्याग्रे तु ब्रह्माणं मण्डलस्यैव पश्चिमे ।। २४ ।।
होतारं स्थापयेत्तत्र विधिज्ञमथ चोत्तरे ।।
द्वौद्वौ कृत्वा ज्ञापकौ च खड्गधारकमेव च ।।२५।।
द्वारिद्वारि प्रयत्नेन द्वारपालाननुक्रमात् ।।
वक्ष्यमाणेन मंत्रेण प्रत्येकमथ स्थापयेत् ।।२६।।
पूजयेद्गन्धपुष्पाद्यैर्वाससो युगलेन तु ।।
यज्ञे सवितते योऽसौ पूज्यते पुरुषः सदा।।२७।।
नारायणस्वरूपेण यज्ञं मे सफलं कुरु ।।
यज्ञेषु साक्षी सर्वेषु यजुर्वेदार्थतत्त्ववित् ।। २८ ।।
ऋग्वेदार्थस्य तत्त्वज्ञ इन्द्ररूप नमोऽस्तु ते ।।
मखश्रेष्ठेषु सर्वेषु येन मंत्राः सुविस्तृताः ।। ।। ३९ ।।
यजुर्वेदार्थतत्त्वज्ञ ब्रह्मरूप नमोऽस्तु ते ।।
मखश्रेष्ठेषु सर्वेषु एष एव विधिः स्मृतः ।। 2.2.17.३० ।।
मांगल्यं कर्मणां नित्यं सर्वज्ञं ज्ञानरूपि णम् ।।
सिद्धये मम यज्ञस्य नमामि शिवरूपिणम् ।। ३१ ।।
पालय त्वं दिशः सर्वा विदिशश्च तथा इमम् ।।
दिक्पालरूपिणं विप्रं यज्ञसिद्धौ नमा म्यहम् ।।
न संकल्पं चरेद्यागं व्रतं देवार्चनं तथा ।। ३२ ।।
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः ।।
संकल्पेन विना विप्रा यत्किञ्चित्कुरुते नरः ।। ३३ ।।
फलं चाल्पाल्पकं तस्य धर्मस्यार्द्धक्षयो भवेत् ।।
तस्मात्सर्वप्रयत्नेन यागं संकल्पयेत्सुधीः ।। ३४ ।।
कामात्परो नैव भवेन्निष्कामोऽपि न शोभनः ।।
तस्मात्काममयं धर्मं विना मोक्षं न चाचरेत् ।। ३५ ।।
संकल्पेन विना यस्तु धर्मं चरति मानवः ।।
न तस्य फलमाप्नोति नित्यनैमित्तिकस्य च ।। ३६ ।।
न कुर्यात्स्थापने चैव कुर्याद्वै मंडलांतरे ।।
गृहीत्वौदुंबरं पात्रं वारिपूर्णं गुणान्वितम् ।। ३७ ।।
जलाशयारामकूप संकल्पे पूर्वदिङ्मुखः ।।
साधारणे चोत्तरास्यो ग्रहयज्ञे तु संमुखः ।।३८।।
महाव्रते प्रतिष्ठायां पात्रं ताम्रं हिरण्मयम् ।।
राजताश्ममयं सांगं यद्यज्ञेषु प्रशस्यते ।। ३९ ।।
यज्ञीयपात्रपुटकं हस्तस्थाने प्रकीर्तितम् ।।
ऐश्यान्यां निक्षिपेत्तोयं प्रतिष्ठायां च पूर्वतः ।।2.2.17.४०।।
आकाशे निक्षिपेद्यागे व्रते ईशेपि नित्यके ।।
पितृमेधे च गोयागे नरमेधे च दक्षिणे ।।४१।।
शुक्तिकांस्यादिहस्तैश्च ताम्ररौप्यादिभिस्तथा।।
संकल्पो नैव कर्तव्यो मृन्मये च कदाचन ।। ४२ ।।
प्रणवं पूर्वमुच्चार्य यजेद्यज्ञेश्वरं स्मरेत् ।।
गङ्गा चादित्यचंद्रौ च द्यौर्भूमी रात्रिवासरौ ।।४३।।
सूर्यः सोमो यमः कालो महाभूतानि पंच च ।।
एते शुभाशुभास्येह कर्मणो नव साक्षिणः ।। ४४ ।।
इत्युच्चार्य न्यसेद्धर्मं ध्यात्वा पुष्पाञ्जलिं सृजेत् ।।
अमृतं कृत्यपात्रे च ॐ तत्सदिति निर्दिशेत् ।। ४५ ।।
धर्मः शुभ्रवपुः सितांबरधरः कार्योर्ध्वदेशे वृषो हस्ताभ्यामभयं वरं च सततं रूपं परं यो दधत् ।।
सर्वप्राणिसुखावहः कृतधियां मोक्षैकहेतुः सदा सोयं पातु जगंति चैव सततं भूयात्सतां भूतये ।। ४६ ।।
यज्ञसंबंधिविप्रांश्च एकाहेनैव योजयेत् ।।
हविर्द्रव्याणि यानि स्युरष्टयागांतरेपि च ।। ४७ ।।
पुनःपुनर्नियोज्यानि ब्राह्मणा हविरग्नयः ।। ४८ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागेसप्तदशोऽध्यायः ।। १७ ।।