सामग्री पर जाएँ

भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १२

विकिस्रोतः तः

अर्घ्यदानविधिवर्णनम्

।। सूत उवाच ।। ।।
ततो भेर्यादिघोषेण यजमान उदङ्मुखः ।।
कनकतोयेन गन्धेन मुद्गलाग्रेण लेपयेत् ।। १ ।।
ऐशान्यां मध्यभागे वा यजेद्वा सुसमाहितः ।।
वर्तुलाकारयेद्यस्मान्मन इच्छति संजपन् ।। २ ।।
ऋषिः कंठोथ गायत्री छन्द इत्यभिधीयते ।।
देवता पृथिवी चैव स्तुतौ च विनियोजयेत् ।।३।।
विवरे पूजयेत्कर्म ब्रह्माणं च धराधरम् ।।
पृथिवीं गन्धपुष्पाद्यैर्नैवेद्यैर्विविधैरपि ।। ४ ।।
अग्रतोऽष्टदलं लेख्यं स्थापयेत्कलशं ततः।।
मुखे विधाय कनकं राजतेन विनिर्मितम् ।। ५ ।।
शुक्तिशंखसमं वापि विश्वामित्रसमुद्भवम् ।।
पूजयेत्तीर्थतोयेन गन्धपुष्पाक्षतादिना ।।६।।
विष्णुक्रांता वचाकुष्ठचन्दनेन विलोडितम् ।।
क्षीरं च मातुलिंगं च सावित्रं च सदूर्वया ।। ७ ।।
दध्यक्षतं मधुयुतमेवमर्घ्यं च साधयेत् ।।
सितचन्दनवस्त्राद्यैः शाल्यैश्च विविधैरपि ।। ८ ।।
अव्रणं कलशं कृत्वा पञ्चवर्णसमन्वितम् ।।
आवाहयेत्तोयनिधिं मंत्रेणानेन भक्तितः ।। ९ ।।
आयाहि भगवन्देव तोयमूर्ते जलेश्वर ।।
हृद्वर्णार्घ्यं मया दत्तं परितोषाय ते नमः ।। 2.2.12.१० ।।
गृहेभ्यश्चैव सोमाय त्वष्ट्रे चैव च शूलिने ।।
इमं मे वरुणेत्यादि प्रत्येकं स्याद्गतित्रयम् ।। ११ ।।
ततोर्घ्यदानं विधिवत्क्षीरेण हविषा मधु ।।
यजमानः सपत्नीकः कुंभं कुक्षौ निधाय च।।१२।।
हिरण्यगर्भेति मंत्रस्य भरद्वाजऋषिः स्मृतः ।।
छन्दश्च जगती ख्यातं देवता च जलाधिपः।।१३।।
वरुणस्योत्तंभनेति मंत्रस्य जलकुंभं निवेदयेत् ।।
अस्य मंत्रस्य च ऋषिर्नारदः परिकीर्तितः ।।
विराट्छन्दश्च ईशानो देवता समुदाहृता ।।१४।।
मोचयेन्मीनयुग्मं च मेषयुग्मं तथैव च ।।
संभवे पक्षियुग्मं च आडीं वा चक्रवाककम् ।।१५।।
मोचयेन्नागयुग्मं च आयुवृद्धेश्च हेतवे ।।
दिक्षु जीवंतिकां दद्याद्राक्षसेभ्यो बलिं हरेत् ।। १६ ।।
निर्मितं माषभक्तेन रक्तपुष्पैरलंकृतम् ।।
क्षात्रको लक्ष्मणश्चैव मणिभद्रो गणेश्वरः ।।
सबिंदुकेन हंतेन दिक्षु मध्ये यथा क्रमात् ।। १७ ।।
ये भवा भाविनो भूता ये च तेषु मयासिनः ।।
आहरं तु बलिं तुष्ट्या प्रयच्छंतु शुभं मम ।। १८ ।।
इत्युक्त्वा च बलिं दद्यान्नमस्कुर्यादनंतरम् ।।
दद्यात्पयस्विनीं गां च आचार्याय विशेषतः ।। १९ ।।
अन्येषां हि हिरण्यं च गां च दद्याद्द्विजन्मने ।।
व्याहृतिद्वितयं चैव ततो वारुणपंचकम् ।। 2.2.12.२० ।।
प्राजापत्यं स्विष्टकृच्च जुहुयात्तदनंतरम् ।।
घृतैः स्विष्टकृतं नास्ति तथा रसविसारकैः ।। २१ ।।
पद्मोत्पलैर्मातुलिंगैः पनसैर्मातुलुंगकैः ।।
मधूकैर्विश्वपुष्पैश्च तथाम्रातककाशकैः ।। २२ ।।
अभिषेकं ततः कुर्यात्सुवास्त्विति च वै जपन् ।।
दद्यात्पूर्णां च विधिवत्सूर्यायार्घ्यं निवेदयेत् ।। २३ ।।
पञ्चदोषं पुरस्कृत्य ब्राह्मणानुमतेन च ।।
गृहं प्रविश्य च ततो ब्राह्मणानथ भोजयेत् ।। २४ ।।
दीनांधकृपणे चैव दद्याद्वित्तानुसारतः ।।
ज्ञातिभिः सह भुञ्जीत दधिक्षीरामिषं विना ।। २५ ।।
न क्षीरं च कषायं च भर्जितं शाकमेव च ।।
न काण्डं च न पुष्पं च करीरं च कदाचन ।। २६ ।।
शाल्यन्नं मूलकं चैव पनसाम्रफलानि च ।।
मस्तं मधुघृतगुडं मातुलिंगं ससैंधवम् ।। २७ ।।
बदरं धातकिफलं कुन्द पुष्पं तथा तिलम् ।।
एतत्प्रशस्तं जानीयान्मरीचानि विशेषतः ।। २८ ।।
त्रिरात्रमथ सप्ताहं परित्यज्य खले ततः ।।
पञ्चांगकं ततः कुर्यात्स्थाप येन्नेति युग्मकम् ।। २९ ।।
प्रथमा चार्कहस्तेन द्वितीया दशहस्तिका ।।
वितस्ते तु भवेच्छतं द्विगुणं तदनंतरम् ।। 2.2.12.३० ।।
शतार्धं ततः पश्चात्षष्टिहस्तमनंतरम् ।। ३१ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागेऽर्घ्यदानविधौ द्वादशोऽध्यायः ।।१२।।