भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ११

विकिस्रोतः तः

पूजाक्रमवर्णनम्

।। सूत उवाच ।। ।।
अथ पूजाक्रमं वक्ष्ये पुराणस्मृतिचोदितम् ।।
उत्तरे पश्चिमे वाथ पूर्वे चापि समाचरेत् ।। १ ।।
नदीतीरे नेमिप्रांते दशद्वादशसंख्यया ।।
मंडलं रचयेद्विप्राश्चरुकद्वयसंयुतम् ।। २ ।।
त्रिभागं विभजेत्क्षेत्रं मध्यभागद्वयेन तु ।।
त्रिहस्तवेदिकां कुर्यात्तालोत्सेधामुदक्प्लवाम् ।। ३ ।।
उत्तराशे दक्षिणे चारत्निहस्तांतरेऽपि च ।।
त्रिमेखलां हस्तमात्रां गुणवेदीसमन्विताम्।। ४ ।।
मूले सार्धं च शुक्लां च मेखलां तु तथैव च ।।
चतुरंगुलिकां वेदिं मध्योन्नतां प्रकल्पयेत् ।। ५ ।।
षट्सप्तांगुलिकां योनिं पश्चिमे मेखलोपरि ।।
विन्यसेन्नाभिसंयुक्तमेवं कुण्डं प्रकल्पयेत् ।। ६ ।।
श्राद्धं वृद्ध्यात्मकं कुर्यात्संकल्पं मानसं चरेत् ।।
श्राद्धार्थं नैव संकल्पेत्तथा वै देवदर्शने ।। ७ ।।
गयाश्राद्धार्थकं चाष्टतीर्थश्राद्धार्थमेव च ।।
ऐशान्यां कलशे देवं पूजयेद्गणनायकम् ।। ८ ।।
मध्ये कुण्डे महांश्चैव विष्णुदेवं दिगीश्वरान्।।
ब्रह्माणं चाग्निकुण्डे तु स्वैः स्वैर्मन्त्रैः प्रपूजयेत् ।। ९ ।।
प्राणायामं विधायाथ भूतशुद्धिं समाचरेत् ।।
ध्यायेद्वाटवीशपुरुषं सर्वलक्षणसंयुतम् ।। 2.2.11.१० ।।
श्वेतं चतुर्भुजं शांतं कुण्डलाद्यैरलंकृतम् ।।
पुस्तकं चाक्षमालां च वराभयकरं परम् ।। ११ ।।
पितृवैश्वानरोपेतं कुटिलभ्रूपशोभितम् ।।
करालवदनं चैव आजानुकरलंबितम् ।। १२ ।।

वास्तुपुरुष
वास्तुपुरुषः.

मूर्धन्यग्निं समाविश्य मुखे वायुः समाहितः ।।
पृथ्वीधरोर्यमा चैव तथाष्टवनेष्टितौ ।। १३ ।।
वक्षस्थले ऽपरां संध्यां यजेच्चैव यथाविधि ।।
नेत्रयोर्दितिपर्जन्यौ श्रोत्रे दितीज्यपुत्रकौ ।। १४ ।।
सर्पेन्द्रावासनस्थौ च वामे दक्षं विभावयेत् ।।
सत्यसोमाग्नयस्तत्र राहोः पंच च पंच च ।। १५ ।।
रुद्रश्च राजयक्ष्मा च वामहस्ते व्यवस्थितौ ।।
पार्श्वे तु दक्षिणे तद्वद्विरथश्च महर्क्षकः।। १६ ।।
उभौ ज्ञेयौ तथा जान्वोरुभौ गन्धर्वपुष्पकौ ।।
जंघयोर्भृंगसुग्रीवौ स्फिचोर्दौवारिको गणः ।। १७ ।।
जयशक्रौ तथा मेढ्रे पदयोः पितरस्तथा ।।
एवं ध्यात्वा न्यसेत्पुष्पं सोमे नैवं विचिंतयेत् ।। १८ ।।
मन्दरं दीर्घयुक्तेन षडङ्गानि समाचरेत्।।
तावद्वीर्यं ततः कृत्वा प्रणवं ब्रह्मणेति च ।। १९ ।।
वास्त्वीशाय विद्महेति तन्नो विष्णुः प्रचोदयात् ।।
अनेन स्नपनं कुर्यात्पूजाद्रव्याणि प्रोक्षयेत् ।। 2.2.11.२० ।।
आसनं पूजयेत्पूर्वं धर्मेणापि स्वशक्तितः ।।
आदौ तु भास्करं सूर्यं शचीनाथं गणाधिपम् ।। २१ ।।
आधारशक्तिं पृथिवीं पूजयेत्तत्र पङ्कजम् ।।
बंदीशासनमित्युक्तं पूजयेदासनं ततः ।। २२ ।।
सितचन्दनयुक्तेन श्वेतपुष्पं प्रगृह्य च ।।
हरेर्ध्यानं ततः कुर्यात्स्थापयेन्मध्यमण्डले ।।२३।।
आवाह्य चासनं दद्यात्ततः पाद्यादिकत्रयम् ।।
मधुपर्कं ततो दद्याद्वास्तोष्पतिमथेश्वरम् ।। २४ ।।
अस्य मन्त्रस्य च ऋषिश्छन्दो गायत्रमीरितम् ।।
देवता च भवेद्ब्रह्मा योजयेदश्वमेधकम् ।। २५ ।।
मंदरं विजयं सोमं महादेवं च माधवम् ।।
रुद्रं हरं जयं भं च पूर्वादिदलमूलके ।। २६ ।।
जया च विजया चैव सत्या माया शिवांबिका ।।
हासिनी कामिनी चैता दलमूलेषु भावयेत् ।। २७ ।
पुष्पाञ्जलित्रयं दद्याद्वास्तोष्पतय इत्यपि ।।
अर्घ्यमंत्रेण गंधाद्यैः पूजयेद्भूतिमिच्छता ।।२८।।
वास्तोष्पते भव मते इति ध्यात्वा ऋतं चेति मंत्रेण पूजयेत् ।।
ऋषिर्नारायणश्छन्दो गायत्री परिकीर्तितम् ।। २९ ।।
सूर्यश्च देवता ख्यातः प्रीणितः कुलिशायुधः ।।
सूर्यं रक्तासनारूढं द्विभुजं रक्तवाससम् ।। 2.2.11.३० ।।
रक्तपद्मद्वयधरं कुंडलाद्यैः सुशोभितम्।।
एवं ध्यात्वा तु मतिमान्हंसं समंत्रमीश्वरम्।।३१।।
हंसस्य इति मंत्रस्य ऋषिरौतथ्य ईरितः ।।
पंक्तिश्छन्दः स्वयं देवो विनियोगस्तु प्रीतये ।।३२।।
नीलोत्पलद्वयधरं सत्यं मृत्यूपरिस्थितम्।।
स्वच्छश्वेतांबरधरं वरदं भक्तवत्सलम् ।।३३।।
स्वं मदात्वमिति मन्त्रेण श्वेतचन्दनपुष्पकैः ।।
पूजयेत्परया भक्त्या वस्त्रालंकारभूषणैः ।।३४।।
उद्धर्षण इति मंत्रेण कृष्णपुष्पैरथार्चयेत् ।।
सत्यव्रत ऋषिश्चास्य त्रिष्टुप्छन्दोऽस्य देवता ।।
सविता चैव विज्ञेयः प्रीतये च वृषस्य च ।।३५।।
शुल्कवर्णं तथाकाशमृष्टिसंघैश्च संस्तुतम् ।।
घटस्थं द्विभुजं ध्यायेद्गदापद्मविधारिणम् ।।३६।।
शन्नो देवीति पठनाद्गन्धपुष्पादिभिर्यजेत् ।।
ऋषिः स्यात्कर्दमो विप्राश्छन्दो जागतिका तथा ।।
देवता च भवेच्चाग्निराकाशप्रीतये न्यसेत् ।।३७।।
ध्वजहस्तमहाबाहुं मरुद्भिश्चोपसेवितम्।।
द्विभुजं धूम्रवर्णं च वायुं ध्यात्वा प्रपूजयेत्।।३८।।
राजान इति मन्त्रेण पूजयेत्सिततंडुलैः।।
ऋषिर्नारायणच्छन्दो गायत्री देवता द्विजाः।।३९।।
देवता च भवेद्वायुः प्रीतये तस्य योजयेत् ।।
पूषारक्तश्च द्विभुजो रक्तपद्मासनस्थितः ।।2.2.11.४०।।
राजान इति च ऋचा पूजयेद्गन्धचन्दनैः।।
गोभिलोस्य ऋषिः पङ्क्तिश्छन्दोऽथ जगती स्मृतम् ।।
देवता च भवेद्वायुः प्रीतये विनियोजयेत् ।।४१।।
वितथं श्यामवर्णं च चतुर्भिर्बाहुभिर्वृतम्।।
मृगाक्षपाशखट्वाङ्ग शूलं च दधतं करैः ।।
मेषारूढं विशालाक्षं राजानो मह्यमीरयन् ।। ४२ ।।
गृहक्षतं तथा शुक्लं चतुर्भिर्गर्दभैर्वृतम् ।।
शूलं दंडं च खड्वांगं दधतं वृषवाहनम् ।। ४३ ।।
पीतवस्त्रधरं देवं जटामुकुटसंयुतम् ।।
आशुः शिशान इति मन्त्रेण पूजयेद्गन्धचन्दनैः ।। ४४ ।।
पुष्पदंत ऋषिस्त्रिष्टुप्छन्दश्च परिकीर्तितम् ।।
ईश्वरस्य देवताया प्रीतये विनियोजयेत् ।। ४५ ।।
यमं ध्यायेत्कृष्णवर्णं महिषस्थं द्विबाहुकम् ।।
दण्डपाशधरं चैव केयूराद्यैर्विभूषितम्।। ४६ ।।
ईशानेति च मन्त्रेण पूजयेत्कुसुमादिना ।।
वामदेव ऋषिः पंक्तिश्छन्दः कालोस्य देवता ।। ४७ ।।
षडाननं च गन्धर्वं पीतं ध्यायेच्चतुर्भुजम् ।।
पीतांबरधरं चैव नानाभरणभूषितम् ।। ४८ ।।
यद्देव इति मन्त्रेण पूजयेत्कुसुमादिना ।।
हारीतोस्य ऋषिः प्रोक्तो जगतीछन्द ईरितम् ।।
हिरण्यगर्भो देवतास्य प्रीतये विनियोजयेत् ।। ४९ ।।
भृङ्गराजं जटारूढं स्वच्छं पीतांबरं शुभम् ।।
चक्षुः पीतेति मन्त्रेण पूजयेद्गन्धचंदनैः ।। 2.2.11.५० ।।
ऋषिश्चागस्तिराख्यातस्त्रिष्टुप्छन्दः प्रकीर्तितम् ।।
विश्वेदेवा देवता च भृङ्गराजस्य प्रीतये ।। ५१ ।।
पीतं मृगं मृगारूढं जटामुकुटमंडितम् ।।
परो देवा इति मंत्रेण पूजयेद्बलिपायसैः ।। ५२ ।।
कपिलश्च ऋषिः प्रोक्तो गायत्री छन्द ईरितम् ।।
वरुणो देवता चास्य प्रीतये विनियोजयेत् ।। ५३ ।।
ध्यायेत्पितृगणं शुक्रं चतुर्भिर्बाहुभिर्वृतम् ।।
पितृभ्य इति मन्त्रेण पूजयेत्कुसुमादिना ।। ५४ ।।
शुनःशेप ऋषिश्चास्य त्रिष्टुप्छन्दश्च देवता ।।
विश्वेदेवाः समाख्याताः पितृमेधेन पूजयेत् ।। ५५ ।।
दौवारिकं चाष्टभुजं कृष्णवर्णं विचिन्तयेत् ।।
रक्तवस्त्रपिंगलाक्षं कृष्णव्याघ्रोपरि स्थितम् ।। ५६ ।।
यो नः पितेति मन्त्रेण पूजयेद्भक्तितत्परः ।। ५७ ।।
वैश्वानर ऋषिश्चास्य गायत्री छन्द ईरितम् ।।
देवता च भवेच्छक्तिर्विनियोगश्च पूजने ।। ५८ ।।
शंखाभं चैव सुग्रीवं द्विभुजं चक्रधारिणम् ।।
हंसारूढं महाकायं बलिविज्ञानकारणम् ।। ५९ ।।
शंखपद्मधरं चैव महिषस्थं विचिन्तयेत्।।
स इषु हस्तेति मंत्रेण पूजयेद्रक्तभूषणैः ।। 2.2.11.६० ।।
ऋषिः शंखस्तथाच्छन्दः पङ्क्तिः सोमोऽथ देवता ।।
श्वेतं जलाधिपं ध्यायेद्गन्धर्वाद्यैश्च वेष्टितम् ।। ६१ ।।
ऋष्यासनगतं ध्यायेच्छ्वेतगन्धेन चर्चयेत् ।।
बृहस्पते परिदीया इति मंत्रेण भक्तितः ।। ६२ ।।
त्र्यंबकोऽस्य ऋषिस्त्रिष्टुप्छन्दो देवो जलाधिपः ।।
ध्यायेच्च असुरं रक्तं करालं नरवाहनम् ।। ६३ ।।
दशभिर्बाहुभिर्युक्तं कृष्णवस्त्रानुलेपनम् ।।
शन्नो देवीति मंत्रेण कृष्णपुष्पैः प्रपूजयेत्।। ६४ ।।
ऋषिर्वैश्वानरश्छन्दो विराडित्यभिधीयते।।
वैश्वानरोत्तरो देवः प्रीतये तस्य योजयेत् ॥ ६५॥
शेषं षडाननं ध्यायेत्कृष्णं च मधुपिंगलम् ॥
मेषस्थं कुण्डलोपेतं नागयज्ञोपवीतिनम् ॥
उद्वर्ष इति मन्त्रेण पूजयेद्भूतिमिच्छता ॥ ६६॥
पापं रक्तं त्रिनेत्रं च रक्तं प्रान्ते विचिन्तयेत् ॥
रक्तश्मश्रुधरं चैव वरहस्तं विचिन्तयेत् ॥ ६७।।
सिद्धो वीरेति मन्त्रेण कृष्णपुष्पैरथार्चयेत्।।
यमं च कृकराक्षं च आकुञ्चन्मूर्धजे द्विजाः।।६८।।
कपिलोऽस्य ऋषिश्छन्दोऽनुष्टुप् चैव प्रकीर्तितम् ।।
देवता च यशः ख्यातं प्रीतये विनियोजयेत् ।। ६९ ।।
यमं च कृकराक्षं च क्षमाकुञ्चितमूर्धजम् ।। ।।
खरस्थं द्विभुजं ध्यायेदिमं मन्त्रमुदीरयेत् ।। 2.2.11.७० ।।
वासुकिः स्यादृषिश्चास्य पंक्तिश्छन्दश्च देवता ।।
हिरण्यगर्भ इत्युक्तः प्रीतयेऽस्य नियोजयेत् ।। ७१ ।।
अर्धपीतं च द्विभुजं रक्ताक्षं धूम्रमेव वा ।।
देवताभिश्च संपन्नं वातो वारेतिरेव च ।। ७२ ।।
ऋषिर्वायुश्च गायत्री छन्दो वायुश्च देवता ।। ७३ ।।
मुग्धरक्तं शंखचक्रगदापद्मधरं तथा ।।
पीतवस्त्रं पन्नगस्थं हारकेयूरमंडितम् ।। ७४ ।।
अवसृष्टा परापत इति मन्त्रेण पूजयेत् ।।
अग्निश्चास्य ऋषिः प्रोक्तच्छन्दः सोमश्च देवता ।। ७५ ।।
पीतं भल्लाटकं ध्यायेत्पद्मस्थं रक्तभूषणम् ।।
द्विभुजं पद्महस्तं च देवमेवं विचिन्तयेत् ।।
यन्मातुरिति मन्त्रेण पूजयेत्सिततंडुलैः ।। ७६ ।।
जम्भकोऽस्य ऋषिश्छन्दो गायत्री समुदाहृता ।।
देवता च भवेत्कुम्भः प्रीतये विनियोगतः ।। ।। ७७ ।।
सोमं ध्यायेच्छ्यामरूपं पद्मासनगतं परम् ।।
नानाभरणसम्पन्नं किरीटवरधारिणम् ।।
मर्माणितेति मन्त्रेण गन्धाद्यैरपि पूजयेत् ।। ७८ ।।
ऋषिः स्वार्थो वेदश्छन्दो जगतीत्यभिधीयते ।।
देवता च भवेत्सोमः प्रीयते विनियोजयेत् ।। ७९ ।।
दर्पं ध्यायेत्कृष्णवर्णं कृष्णांबरधरं तथा ।।
नागयज्ञोपवीतिं च शिखिस्तंभं द्विजोत्तमाः ।। 2.2.11.८० ।।
पश्चदीशेति मन्त्रेण गन्धाद्यैः परिपूजयेत् ।। ८१ ।।
मन्त्रश्चास्य ऋषिश्चास्य पञ्चायत नमीरितम् ।।
पंक्तिश्छन्दस्तथा प्रोक्तं देवः पञ्चाननः स्मृतः ।। ८२ ।।
श्यामवर्णां दितिं ध्यायेद्द्विभुजां पीतविग्रहाम् ।।
सर्वलक्षणसंपन्नां सर्वालंकारशोभिताम् ।। ८३ ।।
सुपर्णोऽसीति मन्त्रेण पूजयेत्पीतचन्दनैः ।। ८४ ।।
ऋषिर्नारायणश्छन्दो जगती परिकीर्त्यते ।।
भवेद्देवो भार्गवश्च इष्टार्थे परिपूजयेत् ।। ८५ ।।
रक्ताभामदितिं ध्यायेत्सर्वालंकारभूषिताम् ।।
शुक्रांभारितिमन्त्रेण गन्धाद्यैरभिपूजयेत् ।। ८६ ।।
वामदेव ऋषिश्चास्य गन्धाद्यैरभिपूजयेत् ।
देवः शुक्रः समाख्यातः स्तुतौ च विनियोजयेत् । । ८७
ईशानादिकोणगतान्पूजयेत्सुसमाहितः ।
आपं ध्यायेच्छुक्लवर्णं कुण्डलाद्यैर्विभूषितम् । । ८८
इदं विष्णुरिति मन्त्रेण त्रिगन्धेन समर्चयेत् । । ८९
ऋषिः स्यात्कर्दमश्छन्दो विराडित्यभिधीयते । । 2.2.11.९०
देवः सोमः समाख्यातः प्रीतये विनियोजयेत्।।
सरितं द्विभुजं रक्तं रक्तश्वेतांबरान्वितम्।।९१।।
पयसा शुक्ल इति मन्त्रेण पूजयेत्कमलादिना ।। ९२ ।।
नारायण ऋषिश्चास्य पंक्तिश्छन्दः प्रकीर्त्यते ।।
नारायणः स्वयं देवः प्रीतये विनियोजयेत् ।। ९३ ।।
जयं ध्यायेत्पीतवर्णं द्विभुजं वरहस्तकम् ।।
देवं किरीटसम्पन्नं सर्वालंकारभूषितम् ।। ९४ ।।
दृष्ट्वा परिश्रुत इति मन्त्रेणानेन पूजयेत् ।।
ऋषिर्नारायणश्छन्दः पंक्तिः सोमोऽथ देवता ।।९५।।
रुद्रं ध्यायेद्रक्तवर्णं शीतांशुकृतशेखरम्।।
द्विभुजं शूलहस्तं च डमरुं च पराभवेत् ।।९६।।
दिवो मूर्धन्निति मन्त्रेण ऋषयः समुदाहृताः।।
ऋषिः स्यात्काश्यपश्छन्दो विराडित्यभिधीयते ।।९७।।
स्वयं देवो विनियोगः स्तुतौ च विनियोजयेत् ।।
द्विभुजं रक्तपद्मस्य पंकजद्वयधारिणम् ।। ९८ ।।
अस्य किरीट इति मन्त्रेण रक्तस्रक्चन्दनादिभिः ।।
पूजयेत्परया भक्त्या ऋषिर्नील उदाहृतः ।।
त्रिष्टु्प्छन्दो देवता स्याद्ध्रदोपि परिकीर्तितः ।। ९९ ।।
सवितारं तथा ध्यायेत्पद्मस्थं द्विभुजप्रभुम्।।
नानाभरणशोभाढ्यं सप्ताश्वरथमंडितम् ।। 2.2.11.१०० ।।
यद्देवा इति मन्त्रेण गन्धाद्यैः परिपूजयेत् ।।
ऋषिरौतथ्य आख्यातः प्रीतये विनियोजयेत् ।। १०१ ।।
ध्यायेद्रक्तं विवस्वन्तं द्विभुजं पद्मविग्रहम्।।
अविद्या इति मन्त्रेण पूजयेद्गन्धचन्दनैः ।। १०२ ।।
ऋषिर्गन्धः समाख्यातस्त्रिष्टुप्छन्दश्च ईरितम् ।।
देवता च भवेत्सोमः स्तुतौ च विनियोजयेत् ।। १०३ ।।
विबुधाधिपं ततो ध्यायेत्पीतं वृषभवाहनम् ।।
चतुर्भुजं यष्टिहस्तमक्षमालैकहस्तकम् ।।
त्रिनेत्रं रक्तवस्त्रं च मुकुटाद्यैरलंकृतम् ।। १०४ ।।
ऋषिर्हारीत इत्युक्तो जगतीच्छन्द ईरितम् ।।
देवता च भवेच्छक्तिः प्रीतये विनियोजयेत् ।। १०५ ।।
मित्रं ध्यायेच्छुक्लवर्णं वराभयकरं परम् ।।
मेषस्थं च त्रिनेत्रं च किरीटवरमंडितम् ।। १०६ ।।
धनाकरस्त्विति मन्त्रेण पूजयेद्दधिपायसैः।।१ ०७।।
ऋषिरौतथ्य इत्युक्तो जगती छन्द ईरितम् ।।
देवता च भवेद्यक्ष्मा प्रीतये विनियोजयेत् ।।१०८।।
पीतास्यं राजयक्ष्याणं करालं च विचिंतयेत्।।
यशो रूपमिति मन्त्रेण गन्धाद्यैः परिपूजयेत् ।। १०९ ।।
दध्यङ्ङाथर्वण ऋषिर्गायत्री छन्द ईरितम् ।।
यक्ष्मा च देवता चैव स्तुतौ च विनियोज येत् ।।2.2.11.१ १ ०।।
शुक्लांबरधरं ध्यायेद्द्विभुजं शिखिवाहनम् ।।
यमं विनेति मंत्रेण पूजयेद्भक्तितत्परः ।।१११।।
ऋषिः स्यान्नारदः प्रोक्तश्छन्दोनुष्टुप्प्रकीर्तितम् ।।
विवस्वान्देवता चैव क्रतौ च विनियोजयेत् ।।११२।।
एवं ध्यात्वा विवस्वंतं महाकायं महोदरम् ।।
अभिन्नरूपमंत्रेण गन्धाद्यैः परिपूज येत् ।। ११३ ।।
 काश्यपोस्य ऋषिश्छन्दस्त्रिष्टुब्देवः शचीपतिः ।। ११४ ।।
बहिरीशानकोणेषु देवादीन्परिपूजयेत् ।।
कूष्माण्डैर्वरणापुष्पैः शौरकैर्वा समर्चयेत् ।। ११५ ।।
पीतां करालिकां ध्यायेच्चरकीं वरवर्णिनीम् ।।
स्वब्जस्थां द्विभुजां चैव गुञ्जाहारोपशोभिताम् ।। ११६ ।।
पीतिन्यरूपमन्त्रेण पूजयेद्भूतिमिच्छुकः ।।
बलदेव ऋषिश्चास्य छन्दो गौरी च देवता ।। ११७ ।।
ध्यायेद्विदारिकां रक्तां नवयौवनसंयुताम् ।।
पवित्रेण पुनीहीति मंत्रेणानेन पूजयेत् ।। ११८ ।।
ऋषिर्गर्गः समाख्यातस्त्रिष्टुप्छन्दोस्य देवता ।।
रुद्रोऽपि च समाख्यातः स्तुतौ च विनियोजयेत् ।। ११९ ।।
पापादिराक्षसीं ध्यायेत्सौरभेयोपरिस्थिताम् ।।
कया न इति मंत्रेण पूजयेद्गन्धचन्दनैः ।। 2.2.11.१२० ।।
ऋषिः सुवर्ण आख्यातः पङ्क्तिश्छन्दः प्रकीर्तितम् ।।
देवता च महादेव इष्टार्थे विनियोजयेत् ।। १२१ ।।
कुण्डवेद्या अंतरे च स्थापवेद्विधिवद्बुधः ।।
पर्वताग्रमृदं चैव गजदंतमृदं तथा ।। १२२ ।।
वल्मीके संगमे चैव राजद्वारचतुष्पथात् ।।
कुशमूलमृदं चैव यज्ञियस्य वनस्पतेः ।। १२३ ।।
इन्द्रवल्ली तथाक्रांत अमृती त्रपुषस्य च ।।
मालती चंपकं चैव तथा उर्वारुकस्य च ।। १२४ ।।
पारिभद्रस्य पत्रैश्च परितः परिवेष्टनम् ।।
पञ्चतुंगस्य परितो मुखे कुर्यात्फणान्वितम् ।। १२५ ।।
श्रीफलं बीजपूरं च नालिकेरं च दाडिमम् ।।
धात्रीं जंबुफलं चैव अन्यया दोषमादिशेत् ।।१२६।।
पञ्चरक्तं सुवर्णं च निक्षिपेद्वरुणं यजेत् ।।
पञ्चोपचारैर्विधिवद्गन्धपुष्पादिभिर्यजेत्।।१२७।।
उद्वर्तन इति मन्त्रेण वरुणं च पुनर्यजेत् ।।१२८।।
अस्य मंत्रस्य च ऋषिर्विष्णुश्छन्द उदाहृतम् ।।
गायत्री देवता पाशी प्रीतये विनियोजयेत् ।। १२९ ।।
पञ्चगंधान्विनिक्षिप्य हस्तं दत्त्वा पठेत्ततः ।। 2.2.11.१३० ।।
सर्वे समुद्राः सरितः सरांसि च महाह्रदाः।।।
आयांतु सर्वपापघ्नाः सर्वलोकसुखावहाः ।। १३१ ।।
गंगाद्याः सरितः सर्वास्तीर्थानि जलदाः नदाः ।।
आयांतु यजमानस्य दुरितक्षयकारकाः ।। १३२ ।।
अघोराज्यष्टककृता वास्तोष्पतय इत्यपि ।।
शतं वा चाष्टसंयुक्तं सहस्रं वा विशेषतः ।। १३३ ।।
शतार्धं वा हुनेद्विप्रस्तिलैर्वा तंडुलैः सह ।।
पालाशैर्वा पिप्पलैर्वौदुम्बरैर्वा समाचरेत्।।१३४।।
पयोदध्यादिभिर्वापि मध्वाज्यैर्वा विशिष्यते।।
अन्येषां च व्रतेनैव एकैकामथ वाहुतिम्।।१३५।।
अष्टाविंशतिभिश्चान्यैरष्टाष्टौ पंचपंच वा ।। १३६ ।।
चरक्यादींश्चासनैश्च पिष्टकैर्वटकेन वा ।।
रक्तपुष्पेण पत्रेण त्रिमध्वक्तेन यत्नतः ।। १३७ ।।
वास्तोष्पते दृढं जप्त्वा यजेद्वास्तुपतिं यदा ।।
पंचोपचारैर्विधिवत्सांगोपांगैरनंतरम् ।।१३८।।
बलिमासादयेत्पश्चाद्दद्यादेकैकशः क्रमात्।।
ब्राह्मणैश्चैव दद्याच्च सदा आज्यं समाक्षिकम् ।। १३९ ।।
शाल्यन्नं शिखिने दद्यात्तथा नीलोत्पलानि च ।।
ओदनं सोत्पलं दद्यात्पर्जन्याय विचक्षणः ।। 2.2.11.१४० ।।
जयाय पिष्टकं कार्यमिन्द्राय घृतमोदकः ।।
सूर्याय पिष्टकान्नं च सत्याय यवपूलिकाम् ।।१४१।।
भ्रमाय मत्स्यमांसान्नं शष्कुलीमथ पिष्टकम् ।।
वायव्ये च तथा सक्तून्पूष्णे चापूपमेव हि ।। १४२ ।।
वितथाय कलायान्नं गृहर्क्षाय समाक्षिकम् ।।
पूष्णेथ कृशरान्नं च शाल्यन्नं च निवेदयेत् ।। १४३ ।।
गन्धर्वाय कस्तूरिकान्नं कृशरं भृंगराजके ।।
मृगाय यावकान्नं च पितृभ्यो मुद्गपायसम् ।।१४४।।
दौवारिकाय कृशराननडुंहे च पूपकम् ।।
पायसं पुष्पदंताय वरुणाय च पिष्टकम् ।। १४५ ।।
असुराय मोदकांश्चैव दद्यादापिक्षये सुराम्।।
घृतोदनं च सोमाय कणान्नं यक्ष्मणे ददेत् ।। १४६ ।।
रोगाय घृतलड्डूकं सपायसगुडौदनम् ।।
अक्षाय विविधान्नं च भल्लाटाय तथैव च ।। १४७ ।।
सोमाय मधुशाल्यन्नं नागाय गुडपिष्टकम् ।।
अदित्यै चापि गोधूमं घृतपक्वं निवेदयेत् ।। १४८ ।।
दित्यै दद्यात्तथा क्षीरं सितशर्करया सह ।।
क्षीरान्नं चैव पूष्णे च आपवत्साय वै दधि ।। ।। १४९ ।।
सावित्र्यै लड्डुकान्नं च सवित्रे च गुडौदनम् ।।
जयाय घृतमन्नं च मिष्टान्नं च विवस्वते ।। 2.2.11.१५० ।।
विरूपाय च तद्दद्याद्धरिद्रान्नं तथैव च ।।
घृतौदनं च चित्राय रुद्राय घृतपायसम् ।। १५१ ।।
मांसौदनं यक्ष्मणे च कृशरं वरुणाय च ।।
अर्यम्णे शर्करापूपं बहिर्दद्याच्चतुष्टयम् ।। ।। १५२ ।।
चित्रौदनं समांसं च मत्स्यान्नं गुडपिष्टकम् ।।
प्रतिदेवोपरि क्षीरं घृतक्षीरसमन्वितम् ।।
तीर्थतोयसमायुक्तं सुगन्धेन समन्वितम्।।१५३।।
पताका देववर्णेन दद्याद्ब्रह्मादिषु क्रमात् ।।
मंत्रं जपेत्स्वसामर्थ्यात्स्वसामर्थ्यात्स्तुतिं पठेत् ।। १५४ ।।
पुरुषस्तवस्य सूर्य ऋषिर्जगती छन्दः ।।
सविता देवता सोमपाके स्तुतौ विनियोगः ।। १५५ ।।
।। शंकर उवाच ।। ।।
विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञियो यज्ञपालकः ।।
नारायणो नरो हंसो विष्वक्सेनो हुताशनः ।। १५६ ।।
यज्ञेशः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ।।
आदिदेवो जगत्कर्ता मण्डलेशो महीधरः ।। १५७ ।।
पद्मनाभो हृषीकेशो दाता दामोदरो हरिः ।।
त्रिविक्रमस्त्रिलोकेशो ब्रह्मणः प्रीतिवर्द्धनः ।। १५८ ।।
भक्तप्रियोऽच्युतः सत्यः सत्यवाक्यो ध्रुवः शुचिः ।।
संन्यासी शास्त्रतत्त्वज्ञस्त्रिपंचाशद्गुणात्मकः ।। १५९ ।।
विदारी विनयः शांतस्तपस्वी वैद्युतप्रभः ।।
यज्ञस्त्वं हि वषट्कारस्त्वमोंकारस्त्वमग्नयः ।। 2.2.11.१६० ।।
त्वं स्वधा त्वं हि स्वाहा त्वं सुधा च पुरुषोत्तमः ।।
नमो देवादिदेवाय विष्णवे शास्वताय च ।।
अनंतायाप्रमेयाय नमस्ते गरुडध्वज ।। १६१ ।।
ब्रह्मस्तवमिमं प्रोक्तं महादेवेन भाषितम् ।।
प्रयत्नाद्यः पठेन्नित्यममृतत्वं स गच्छति ।। १६२ ।।
ध्यायंति ये नित्यमनंतमच्युतं हृत्पद्ममध्ये स्वयमाव्यवस्थितम् ।।
उपासकानां प्रभुमेकमीश्वरं ते यांति सिद्धिं परमां तु वैष्णवीम् ।। १६३ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे एकादशोध्यायः ।। ११ ।।