भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०९

विकिस्रोतः तः

प्रवरविचारवर्णनम्

।। सूत उवाच ।। ।।
वक्ष्ये प्रवरसंतानं यथाक्रममिति द्विजाः ।।
यद्विना व्यत्ययो यस्मात्तस्माच्छास्त्रानुसारतः ।। १ ।।
प्रवरत्रयं काश्यपस्य काश्यपाशावनैर्ध्रुवम् ।।
पञ्चाश्वगौतमस्याद्य गौतमश्चोय एव च ।। २ ।।
च्यवनो जामदग्न्यश्च आप्लवायनमेव च ।।
मोकुन्यांगिरसभास्याज्जामदग्न्याप्लवायनम् ।। ३ ।।
शांडिल्यासितदैवलाः प्रवरत्रयमेव च ।।
पराशरस्य च तथा स्वयं शांबवशिष्ठकम् ।। ४ ।।
आत्रेयमाचार्यणस्याबालप्रवरमेव हि ।।
वात्स्यवास्यायनौ चैव उरुकंटक एव च ।। ५ ।।
अर्थक्षीरमित्रावरुणं पञ्चमं परिकीर्तितम्।।
औतथ्यस्य त्रयं विद्याद्वाल्मीकोऽवरमेव हि ।। ६ ।।
औतथ्यस्य च वाशिष्ठमैन्द्रे चक्रं च क्रौञ्चायनं तथा ।।
औतथ्येति समाख्यातं माहिष्यं च्यवनं तथा ।। ७ ।।
उरुकंटत्रयं विद्यात्कौशिकस्य त्रयं तथा ।।
यद्गालो देवराट् ख्यातः कुशिकाद्याश्च भो द्विजाः ।।८।।
विश्वामित्रो देवराट्च स्वयं चैव त्रयं मतम् ।।
घृतकौशिकस्य कुशिका विश्वामित्राघमर्षणम् ।। ९
चण्डकौशिकस्य च तथा देवराट् देवरातकम्।।
विश्वामित्रे तु विख्यातः सुमन्तोरेव एव हि ।। 2.2.9.१० ।।
तरुंकशाकटायनः स्वयमेव प्रवरत्रयम् ।।
भ्रमद्वयं जैमिनेश्च स्वयं वाशिष्ठमेव च ।। ११ ।।
शंखमांगिरसच्यवनं शंखभस्य त्रयं मतम्।।
वात्स्यस्य च्यवनो नाम आप्लवायनकस्तथा ।। १२ ।।
सावर्णस्य तु सावर्ण्यच्यवनजामदग्निभार्गवम् ।।
आप्लवायनेति पाठीने एक एव तु सत्तमाः ।। १३ ।।
कृष्णाजिनस्य कृष्णाजिनं विश्वामित्रस्य जैमिनम् ।।
कात्यायनस्य कात्यायनगार्ग्यायणत्रयं तथा ।। १४ ।।
वात्स्यायनेति विख्यातं कुशिकस्य च पंचमम् ।।
अमुं च विश्वामित्रं च जामदग्न्याप्लवायनम् ।। १५ ।।
गार्ग्यस्य गार्ग्यसामुंच तथांगिरस एव च ।।
बार्हस्पत्यभरद्वाज इति पंच प्रकीर्तितम् ।। १६ ।।
वशिष्ठस्य च वासिष्ठं च तथांगिरस एव च ।।
मित्रावरुणसंयुक्तं तावत्तस्य प्रकीर्तितम्।। १७ ।।
जाह्वकर्णभवकर्णौ प्रवरौ परिकीर्तितौ ।।
उपमन्युरुपमन्योस्तथेन्द्रः सह एव च ।। १८ ।।
तदुत्तमेति त्रितयं मित्रावरुणस्य च त्रयम् ।।
आत्रेयगौतमांगिरसप्रवरत्रयमेव हि ।। १९ ।।
कमंडलोत्पलमित्रामित्रावरुण एव च ।।
कमंडलुश्चेति त्रितयं प्रवरत्रयमेव च ।। 2.2.9.२० ।।
च्यवनस्य तथा ज्ञेयमूर्वच्यवनाप्लवायनम् ।।
अथ स कस्यांगिरसबार्हस्पत्य एव त्रयम् ।। २१ ।।
आगस्त्यस्य अगस्तिश्च माहश्च च्यवनेति च ।।
विश्वामित्रे देवरात औतथ्येति तथैव च ।। २२।।
ये नोक्ता ये ऽप्यविज्ञातास्ते प्रोक्ताः काश्यपाज्जगत् ।। २३ ।।
इति श्रीभविण्ये महापुराणे मध्यम पर्वणि द्वितीयभागे नवमोऽध्यायः ।। ९ ।।