भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

उत्तमतिथिनिर्णयवर्णनम्

।।सूत उवाच ।। ।।
तिथीनां प्रवरा यस्माद्ब्रह्मणा समुदाहृता ।।
प्रतिपादिता परे पूर्वे प्रतिपाद्य नवोद्यते ।। १ ।।
कार्तिकाश्वयुजोश्चैत्रे माघे चापि विशेषतः ।।
स्नानं दानं दशगुणं शिवविष्ण्वोश्च पूजनम् ।। २ ।।
अग्निमिष्ट्वा च कृत्वा च प्रतिपद्यामिति स्मृतम् ।।
हविषा सर्वधान्यानि प्राप्नुयादीप्सितं धनम् ।। ३ ।।
बृहस्पतौ द्वितीयायां शुक्लायां विधिपूजनम् ।।
कृत्वा नक्तं समश्नीयाल्लभते भूतिमीप्सिताम् ।।४।।
मिथुने कर्कटे चैव गोविप्रदमनांतरम् ।।
द्वितीया या तु विप्रेंदास्तामुपोष्य हरिं यजेत् ।।
यामुपोष्य न वैधव्यं प्रयाति स्त्री न संशयः ।। ५ ।।
अमूल्यशयनं मासं दंपती प्रतिपूजयेत् ।।
वासोभिर्गन्धपुष्पैश्च नानाभक्ष्यैः पृथग्विधैः ।। ६ ।।
वैशाखे शुक्लपक्षे तु तृतीयायां तथैव च ।।
गंगातोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ।।७।।
स्वातियुक्ततृतीयायां वैशाखे तु विशेषतः ।।
माघे तु रोहिणीयुक्ता वृषे चाश्वयुजे तथा ।। ८ ।।
तस्यां यद्दीयते किञ्चित्तदक्षयमुदाहृतम् ।।
विशेषतो हविष्यान्नं मोदकादिसमायुतम् ।।९।।
तोयदानं विशेषेण प्रशंसंति मनीषिणः ।।
गुडकर्पूरसंयुक्तं ब्रह्मलोके महीयते ।। 2.2.8.१० ।।
बुधश्रवणसंयुक्ता तृतीया यदि लभ्यते ।।
तस्यां स्नानोपवासाद्यमक्षयं परिकीर्तितम् ।।११।।
चतुर्थीभरणीयोगे भवेच्चरदिनं यदा ।।
तदाभ्यर्च्य यमं देवं मुच्यते सर्वकिलिबिषैः ।। १२ ।।
शिवा शांता सुखा चैव चतुर्थी त्रिविधा स्मृता ।।
सापि भाद्रपदे शुक्ला शिवलोके सुपूजिता ।। १३ ।।
कार्त्तिके तु भवेच्छाया तथा माघे तु कीर्त्यते ।।
तस्यां स्नानं तपो दानमुपवासो जपस्तथा ।।
भवेत्सहस्रगुणितं श्राद्धं भवति चाक्षयम् ।। १४ ।।
गणेशे कारयेत्पूजां मोदकादिभिरादरात् ।।
चतुर्थ्यां विघ्ननाशाय सर्वकामप्रसिद्धये ।। १५ ।।
श्रावणे मासि पञ्चम्यां शुक्लपक्षे विशेषतः ।।
स्नापयेन्नवनागांश्च गंधतोयैः सुगंधिभिः ।। १६ ।।
तेषां कुले प्रयच्छंति अभयं प्राणरक्षणम् ।। १७ ।।
द्वादश्योभयलेखे च गोमयेन विशेषतः ।।
पूजयेद्दधिदुग्धाद्यैः सिंदूरैरपि भक्तितः ।। १८ ।।
सुप्ते जनार्दने कृष्णपञ्चम्यां भवनांगणे ।।
पूजयेन्मनसादेवीं वामां स्नुहीति संश्रयाम् ।। १९ ।।
पिचुमंदस्य पत्राणि स्थापयेद्भवनोदरे ।।
पूजयित्वा नरो देवीं न सर्पभयमाप्नु यात् ।। 2.2.8.२० ।।
येयं भाद्रपदे षष्ठी षष्ठी च द्विजसत्तम ।।
स्नानदानादिकं तस्यां सर्वमक्षयमुच्यते ।। २१ ।।
षष्ठ्यां फलाशनो विप्रा विशेषान्माघकार्तिके ।।
इह चामुत्र मुख्यां च लभते ख्यातिमुत्तमाम् ।। २२ ।।
शुद्धे पक्षे च सप्तम्यां यदा संक्रमते रविः ।।।।
महाजया तदा स्याद्वै सप्तमी भास्करप्रिया ।। २३ ।।
अपराजिता तु भाद्रस्य महापातकनाशिनी ।।
ललिता केवला ज्ञेया पुत्रपौत्र विवर्द्धिनी ।। २४ ।।
शुक्ला वा यदि वा कृष्णा षष्ठी वा सप्तमी तु वा ।।
रविवारेण संयुक्ता तिथिः पुण्यतमा स्मृता ।। २५ ।।
आश्विनस्य सिताष्टम्यामष्टादशभुजां यजेत् ।।
कार्त्तिके शुक्लपक्षे वा महाविभवविस्तरैः ।। २६ ।।
आषाढे श्रावणे मासि शुक्लाष्टम्यां च चंडिकाम् ।।
प्रातः स्नात्वार्चयेद्भक्त्या रात्रौ संस्नापयेद्द्विजाः ।। २७ ।।
चैत्रमासि सिताष्टम्यामशोककुसुमैर्द्विजाः ।।
अर्चयेन्मृन्मयीं देवीमशोकार्थं च सर्वदा ।। २८ ।।
सत्यष्टममुहूर्ते वा रोहिणीसहिताष्टमी ।।
श्रावणे मासि सिंहार्के क्वचित्सापि च शस्यते ।। २९ ।।
एकादशीनां कोटीनां व्रतैश्च लभते फलम्।।
अतो दशगुणं प्रोक्तं कृत्वैतत्फलमाप्नुयात ।। 2.2.8.३० ।।
अशक्तोऽन्यक्रियां कर्तुमुपवासं तु केवलम् ।।
कृत्वा विमुच्यते पापात्सप्तकृत्यकृतां वरः ।।३१।।
न कालनियमस्तत्र न वारनियमः क्वचित् ।।
नापि नक्षत्रदोषोऽस्ति वारदोषो न गण्यते ।। ३२ ।।
त्रिकालं पूजयेद्देवं दिवा रात्रौ विशेषतः ।।
अर्धरात्रे विशेषेण पुष्पैर्नानाविधैरपि ।।३३।।
दिवा तिथेरलाभे तु न कुर्याद्विधिवद्व्रतम् ।।
रात्रिस्पर्शे यदि परं रजन्यामपि चाष्टमी ।।३४।।
सप्तमी सार्धयामं च रोहिणी वा न संस्पृशेत्।।
व्रती संकल्पयेत्तत्र न च रात्रौ कदाचन।।३५।।
प्रागारंभं प्रकुर्वीत अधिमात्राधिके व्रती ।।
विश्वनाथादिदेवानां दर्शनं प्राग्विवर्जयेत्।।३६।।
यत्र तत्रोपवासी स्याद्यामाष्टकव्रतं चरेत्।।
यामार्धं तत्परं यामे पारणं विचरेद्व्रती।।३७।।
तत्परे चाऽन्नजन्यं वा न कुर्यात्पारणं गृही ।। ३८ ।।
नक्षत्रयोगे ग्रहणे पूजयेत्परमेश्वरम् ।।
जपहोमादिकं कुर्याद्गृही नोपवसेत्क्वचित् ।। ३९ ।।
दिवाष्टम्यां मुहूर्ते वा प्राजापत्येन संयुतम् ।।
तथापि च दिवाकृत्यं समाप्य च व्रतं चरेत् ।। 2.2.8.४० ।।
मुहूर्तांते च मासांते अष्टम्यामपि रोहिणी ।।
उपवासे च यो दोषः पूजाहोमः प्रशस्यते ।। ४१ ।।
नवम्यां च सदा पूज्याः प्रतिमासेऽयुतं द्विजाः ।।
गृह्णीयान्नियमं चैव यथा कर्म फलप्रदम् ।। ।। ४२ ।।
कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका ।।
तस्यां युक्ताशना विप्रा ब्रह्मलोकमवाप्नुयुः ।। ४३ ।।
दशमी ज्येष्ठमासस्य सा चेद्दशहरा स्मृता ।।
आश्विनस्य महापुण्या कार्तिके विजया स्मृता ।। ४४ ।।
एकादशी व्रतपरा सर्वपापप्रणाशिनी ।।
सर्वपापविनिर्मुक्ता यथा कुर्वंति मानवाः ।। ४५ ।।
दशम्यामेकभक्तस्तु संयतः स्याज्जितेन्द्रियः ।।
एकादश्यामुपोष्याथ द्वादश्यां पारणं चरेत् ।।४६।।
द्वादश द्वादशीर्हन्ति तस्मात्तथाचरेद्बुधः ।।
पूर्वेद्युरेकादशी पूर्णा परेहनि च वर्धते ।। ४७ ।।
न वर्धते द्वादशी तु तदा त्वेवं व्यवस्थितिः ।।
वनवासी परां कुर्यात्पूर्वां कुर्याद्गृहाश्रमी ।।४८।।
पूर्वेवैकादशी त्याज्या वर्धते चेत्तिथिद्वयम् ।।
एकादशी द्वादशी तु तदोपोष्या परा तिथिः ।। ४९ ।।
यदा तु पारणा योग्या द्वादशी नोपतिष्ठते ।।
तदा पूर्वैव संग्राह्या त्याज्या वृद्धा परेऽहनि ।। 2.2.8.५० ।।
एकादशी कलायुक्ता सकला द्वादशी यदि ।।
तत्र क्रतुसमं पुण्यं त्रयोदश्यां तु पारणम् ।। ५१ ।।
एकादशी द्वादशी च परेऽहनि न लभ्यते ।।
नोपोष्या सा महादोषा पुत्रपौत्रधनक्षयात् ।। ५२ ।।
एकादशी दशाविद्धा द्वादश्यां लिप्तिका यदा ।।
द्वादशी पारणायोग्या वर्धते चापरेऽहनि ।।
तदा दिनद्वये त्याज्या पारणं च नियोगतः ।। ५३ ।।
षोडशीग्रहणं दृष्ट्वा द्वादशी लुप्तपारणा ।।
चण्डातिथौ व्रतं चैव हंति पुण्यं पुरा कृतम् ।। ५४ ।।
त्रयोदश्यां यद्विहितं पारणं न तु पुण्यदम् ।।
गृहाश्रमी न कुर्याद्वा दशमीद्वादशीक्षयात् ।। ५५ ।।
यदि रुद्रा दशमित्रा परेऽह्निरविसंक्रमः ।।
तथापि संपरित्यज्य द्वादश्यां समुपावसेत् ।। ५६ ।।
वज्रालोकनमात्रं तु दशमी संविशेद्यदि ।।
एकादशी न भोक्तव्या परा ह्येकादशी तदा ।। ५७ ।।
तदा चेद्दशमीविद्धा समुपोष्या न दूषणम्।। ५८ ।।
द्वादश्यामुपवासं तु यः करोति नरोत्तमः ।।
स याति परमं स्थानं यत्र विष्णुरनामयः ।। ५९ ।।
उपोष्य दशमीमित्रां मोहादेकादशीं नरः ।।
निरयं याति स प्रेत्य धर्मसंततिसंक्षयात् ।। 2.2.8.६० ।।
रविवारे शुक्रवारे संक्रान्त्यां तु दिनक्षये ।।
उपवासं प्रकुर्वीत पारणं तु विवर्जयेत् ।। ६१ ।।
शुक्लां वा यदि वा कृष्णां पूर्वसंकल्पितामपि ।।
एकादशीं सदा कुर्यान्न वै कृष्णेत्तरां क्वचित् ।।६२।।
नक्तेन वर्तयेत्कृष्णामिति शास्त्रविनिश्चयः ।।
मासे चैकादशी यत्र लभ्यते शुक्लपक्षके ।।
तत्र कुर्यात्कृष्णपक्षे परा तिथिर्न गृह्यते ।।६३।।
श्रावणी द्वादशी शुक्ला चांद्रभद्रे यदा हरौ ।।
तत्रोपोष्य हृषीकेशं पूजयेद्विधिवन्नरः ।। ६४ ।।
श्रावणे चाश्विने चैव लभ्यते द्वादशीदिने ।।
श्रवणेन समायुक्ता महती सा प्रकीर्तिता ।। ६५ ।।
पुष्येण द्रादशीयुक्ता फाल्गुने विजया स्मृता ।।
कार्तिके चेत्परित्याज्या माघे तु नारकी भवेत् ।।६६।।
या भाद्रे विजया प्रोक्ता श्रवणेन समायुता।।
विशेषः कथ्यते तत्र यथावद्व्रतमाचरेत् ।।६७।।
एकादश्यामुत्तरतो द्वादशी च दिवान्विता ।।
निशिपूर्णा द्वादशी च श्रवणेनापि संयुता ।।६८।।
सफला द्वादशी ज्ञेया उपोष्यैषा महाफला ।। ६९ ।।
द्वादश्यां विष्णुविद्धायां वासुदेवं प्रपूजयेत् ।।
कृष्णायां तु व्रतं कुर्याद्बहुदुःखं समाचरेत ।। 2.2.8.७० ।।
द्वादशी कामविद्धा चेन्मन्यते नाप्युपोषणम् ।।
हन्यात्पुराकृतं पुण्यं त्रयोदश्यामुपोषणम् ।।७१।।
प्रहरेप्रहरे स्नानं शर्वर्यां च विधीयते ।।
पूजनं चाग्निकार्यं च षट्सु कार्यं व्रती चरेत् ।।७२।।
एकादशीं द्वादशीं च प्राप्नोति श्रवणे यदि ।।
एकादश्यामुपोष्याथ द्वादश्यामप्युपावसेत्।।७३।।
पारणं तु त्रयोदश्यां द्वादशी चेन्न लभ्यते ।।
आमिषान्नं न भुञ्जीत हविष्यान्नेन पारणम् ।।७४।।
यदा तु पारणायोग्या लभ्यते द्वादशी तदा ।।
तस्यां नातिक्रमो युक्तस्तदभावे त्रयोदशी।।७५।।
एकादशी द्वादशी च श्रवणर्क्षेण संयुता ।।
विष्णुशृंखलको नाम बुधवारे विशिष्यते ।।७६।।
दशम्यां संयतो भूत्वा प्रातरेकादशीदिने ।।
कृत्वा तु सङ्गमे स्नानं प्रहरेप्रहरे द्विजाः ।।७७।।
अनेन विधिना कृत्वा विजयायां व्रतोत्तमम् ।।
सर्वपापं क्षयं नीत्वा विष्णुलोके वसेन्नरः ।। ७८ ।।
चतुर्युगानां दिव्यानां यावत्स्याद्विष्णुरूपधृक ।।
तावदेव हि सर्वत्र सार्वभौमो भवेन्नरः ।। ७९ ।।
त्रेतायां दशजन्मानि मध्यदेशेषु भो द्विजाः ।।
ततश्च भारते वर्षे वेदवेदांतसारवित् ।।
पुत्रपौत्रधनैर्युक्तो लक्षदो नृपसन्निभः ।। 2.2.8.८० ।।
जायते दश जन्मानि त्रेतायां ब्राह्मणोत्तमः ।।
सपत्नीकश्च दीर्घायुर्धर्मकर्मसु पूजितः ।। ८१ ।।
भाद्रे मासि सिते पक्षे द्वादश्यां पृथिवीपतिम् ।।
शत्रुमुत्थापयेत्प्राह्णे शुभलग्ने शुभक्षणे ।। ८२ ।।
शल्यशाल्मलिकस्यापि सप्तपर्णीयकस्य च ।।
एषामन्यतमं वृक्षं चंपकस्यार्जुनस्य वा ।। ८३ ।।
बृहत्कदंबवृक्षस्य द्विचत्वारिंशदंगुलैः ।।
द्वात्रिंशदंगुलैर्वापि मानद्वयमथापि वा ।।
त्रिव्यायामं च प्रथमं द्वाविंशहस्तमेव वा ।। ८४ ।।
हस्तः षोडशवारस्य गृहस्थस्य विशिष्यते ।।
हस्तत्रयेण विप्रस्य द्वादश क्षत्रियस्य तु ।। ८५ ।।
अष्टहस्तं तु वैश्यस्य शूद्रस्य पञ्चहस्तकम् ।।
अभ्रतः श्वेतच्छत्रं स्यात्पताका च पुरेपुरे ।। ८६ ।।
घनसारसमायुक्तां कर्पूरमंडनान्विताम् ।।
रक्तवस्त्रपरिच्छन्नां पुष्पमाल्यैरलंकृताम् ।। ८७ ।।
मञ्चस्थां कारयेत्पूजां भक्त्या च सुदृढो नरः ।।
सप्तरात्रं चरेत्पूजामैन्द्रमन्त्रेण मन्त्रवित् ।। ८८ ।।
काकादीन्न स्पृशेज्जातु वैरपक्षे विशेषतः ।।
पताकाया निपाते तु राष्ट्रहानिं समादिशेत् ।। ८९ ।।
पताके निस्सृते भग्ने महिषाणां विनाशनम् ।।
स्थूणापाते च भग्ने वा चाश्वहानिं समादिशेत् ।। 2.2.8.९० ।।
तस्करश्च कुले तस्य प्रायश्चित्तं समाचरेत् ।।
तद्विष्णोरिति मंत्रेण शतपद्मसमन्वितम् ।। ९१ ।।
विष्णुमुद्दिश्य जुहुयादयुतं पिप्पलस्य च ।।
ग्रहाणां च त्रिभागेन चायुतं जुहुयाद्बुधः ।। ९२ ।।
आदित्यस्याद्भुतमिदं द्विजपाते तु भो द्विजाः ।।
कपोतपाते शुक्रस्य काकादौ भौममादिशेत् ।। ९३ ।।
भूकंपे जायते विष्टं गुरोरद्भुतमादिशेत् ।।
कीटविद्धे कृते विप्राश्चन्द्रस्याद्भुतमादिशेत् ।। ९४ ।।
पताके निस्सृते भग्ने राहोरद्भुतमादिशेत्।। ९५ ।।
शिवा रुवंति चान्द्रस्य वानरो वा स्पृशेत्क्वचित् ।।
केतोरद्भुतमुद्दिष्टं भूमिकंपे तु ते द्विजाः ।। ९६ ।।
त्रयोदशीं सितां प्राप्य पुष्पैर्नानाविधैरपि ।।
कामदेवं समभ्यर्चेद्गन्धाद्यैः सुमनोहरैः ।। ९७ ।।
चैत्रे मासि सिताष्टम्यां शनौ शतभिषा यदि ।।
गंगाया यदि लभ्येत सूर्यग्रहशतैः समा ।। ९८ ।।
सेयं महावारुणीति ख्याता कृष्णत्रयोदशी ।।
अस्यां स्नानं च दानं च श्राद्धं वाक्षयमुच्यते ।। ९९ ।।
मधुमासे सिते पक्षे दम्भभञ्जी चतुर्दशी ।।
तस्यां मदनमूले च अक्षरं काममर्चयेत् ।। 2.2.8.१०० ।।
स याति परमं स्थानं मदनस्य प्रभावतः ।।
जुगुप्सितवचोभिस्तु सम्यक्तुष्टो मनोभवः ।। १०१ ।।
अनन्तस्य व्रतं वक्ष्ये सर्वपापप्रणाशनम् ।।
अनन्तं सुखमाप्नोति यः कुर्याद्भक्तिमान्नरः ।। १०२ ।।
द्वादश्यां पूजिते शक्रे ध्वजके वास्तुयष्टिषु ।।
ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिम् ।। १०३ ।।
कृत्वा दर्भमयानन्तं वारिधान्यान्वितं तथा ।।
पूजयेच्चन्दनैर्गन्धैर्नैवेद्यैर्विविधैरपि ।। १०४ ।।
चतुर्दश फलैर्मूलैर्जलजैः कुसुमैरपि ।।
यवगोधूमशालीनां चूर्णैर्नैकतमस्य च ।। १०५ ।।
कृत्वा पूपाह्वयं तस्मै दद्यादेकं श्रुतेक्षितम् ।।
स्वयमेकं तु भुञ्जीत दद्यात्सत्रस्य दोरकम् ।। १०६ ।।
चतुर्दशग्रन्थियुतं कुंकुमेन विलेपितम् ।।
चतुर्दशसूत्रमयं सूत्रं कार्पासमेव च ।। १०७ ।।
अतः प्रेत चतुर्दश्यां भोजयित्वा तपोधनान् ।।
दानं दत्त्वा द्विजेभ्यश्च यमलोकं न गच्छति ।। १०८ ।।
ततः प्रेतकथां श्रुत्वा शाकैर्नक्तं समाचरेत् ।।
चतुर्दशं द्वादशं वा सप्तमं वापि पञ्चमम् ।। १०९ ।।
मानमात्रादिकं कृत्वा सर्वपापैः प्रमुच्यते ।। 2.2.8.११० ।।
माघे मासि वटापायः कस्य पापं पुनीमहे ।।
स्नात्वा तत्र चतुर्दश्यां समये तारकामये ।। १११ ।।
संभवेत्फाल्गुने मासि या च कृष्णा चतुर्दशी ।।
शिवरात्रिरिति ख्याता सा जगत्सर्वकामदा ।। ११२ ।।
दिवा तस्या अलाभे तु रात्रियोगे व्रतं चरेत् ।।
चतुर्दशी अमाविद्धा तद्व्रतं परिवर्जयेत् ।। ११३ ।।
तिथियोगे च शर्वर्यां संपूर्णे व्रतमाचरेत् ।।
कामविद्धा सा च पूज्या रात्रियोगे चरेद्व्रती ।। ११४ ।।
प्रहरेप्रहरे स्नानं स्वयं स्नात्वा शिवस्य च ।।
कारयेद्विधिवद्भक्त्या होमं कुर्याद्यथाविधि ।। ११५ ।।
अथ वक्ष्यामि चैत्रादिमासे तु पूर्णिमा यथा ।।
चित्रानक्षत्रसंयुक्तो गुरुपूर्णो विधुर्यदि ।।
महाचैत्रीति सा ज्ञेया पूर्णिमाक्षयपुण्यदा ।। ११६ ।।
विशाखादिषु भेदेषु पूर्णचन्द्रो गुरुश्चरेत् ।।
महावैशाखिकाद्यास्तु पूर्णिमा द्वादश स्मृताः ।। ११७ ।।
महाज्यैष्ठी विशेषोऽयं प्राजापत्ये यथा रविः ।।
गुरुपूर्णचन्द्रो ज्येष्ठायां महाज्यैष्ठीति सा स्मृता ।। ११८ ।।
विनापि गुरुणा चन्द्रः कृत्तिका पूर्णिमा तथा ।।
तथा महाकार्त्तिकी सा तिथिः पुण्यतमा भवेत् ।। ११९ ।।
रोहिण्यां तु स्थितश्चन्द्रः पौर्णमास्यां तु कार्त्तिके ।।
महाकार्त्तिकी तथापि स्यात्स्वर्गलोकेऽपि दुर्लभा ।। 2.2.8.१२० ।।
चित्रा वा यदि वा पूर्णा यदा स्यात्पूर्णिमातिथिः ।।
महाचैत्री तथापि स्यादश्वमेधफलप्रदा ।। १२१ ।।
रविणा कृत्तिकायोगाद्रविवारे च पूर्णिमा ।।
महाचैत्री तथापि स्याद्दत्तस्याक्षयकारिका ।। १२२ ।।
एवं गुरौ गुरोर्योगे महाचैत्री प्रकीर्तिता ।।
तत्र स्नानं च दानं च जपो नियम एव च ।। १२३ ।।
सर्वमक्षयतां याति फलं चैवाश्वमेधिकम् ।।
पितरस्तर्पिता यांति वैष्णवं लोकमक्षयम् ।। १२४ ।।
भरण्यां कार्त्तिके मासि यदि स्यात्पूर्णिमा तिथिः ।।
गंगाद्वारे तु महती वैशाखी पुण्यदा स्मृता ।। १२५ ।।
शालग्रामे महाचैत्री कृतपुण्या महातिथिः ।।
गंगाद्वारे तु महती वैशाखी पुण्यदा स्मृता ।। १२६ ।।
पुरुषोत्तमे महाज्यैष्ठी महाषाढी तु शृंखले ।।
महाश्रावणी केदारे महापुण्यतमा मता ।। १२७ ।।
महाभाद्री बदर्यां च कुजोऽपि स्यान्नरस्तथा ।।
महाकार्त्तिकी पुष्करे च कान्यकुब्जे तथोत्तरं ।। १२८ ।।
महती मार्गशीर्षे स्यादयोध्यायां तथोत्तरे ।।
महापौषी पुण्यतमा महामाघी प्रयागतः ।। ।। १२९ ।।
महाफाल्गुनी नैमिषे च निर्दिष्टाः स्युर्महाफलाः ।। 2.2.8.१३० ।।
अत्र स्म विहितं कर्म शुभं वा यदि वाशुभम् ।।
सर्वमक्षयतां याति वर्द्धते चाधिकं फलम् ।। १३१ ।।
आश्विने पौर्णमासी तु कौमुदीति प्रकीर्तिता ।।
अस्यां चन्द्रोदये लक्ष्मीं पूजयेद्विधिवन्नरः ।। १३२ ।।
निर्वतयेन्न यः श्राद्धं प्रभाते पैतृकं द्विजः ।।
इन्दुक्षये मासिमासि प्रायश्चित्तीयते तु सः ।। १३३ ।।
चन्द्राश्विने तु कृष्णायां पञ्चदश्यां यथाविधि ।।
कृत्वा स्नानादिकं कर्म सोपवासो दिनं नयेत् ।।१३४।।
प्रदोषसमये लक्ष्मीं पूजयित्वा यथाविधि ।।
दीपवृक्षान्यथा वृक्षाँल्लक्ष्मीप्रीत्यै समुत्सृजेत् ।। ।। १३५ ।।
नदीतीरे गिरौ गोष्ठे श्मशाने वृक्षमूलतः ।।
चतुष्पथे निजागारे चत्वरे तान्निधापयेत् ।। १३६ ।।
द्विर्भोजनममावास्यां न कर्तव्यं कदाचन ।।
शर्वर्यां च विशेषेण माघफाल्गुनयोर्नरैः ।।१३७।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागेऽष्टमोऽध्यायः ।। ८ ।।