सामग्री पर जाएँ

भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०६

विकिस्रोतः तः

मासवर्णनम्

।। सूत उवाच ।। ।।
अथ मासाश्रयं कर्म कर्तुं मासनिरूपणम् ।।
क्रियते तद्विधं संख्ये भवेन्मास श्चतुर्विधः ।। १ ।।
चान्द्रः सौरः सावनश्च नाक्षत्रश्च तथापरः ।।
शुक्लप्रतिपदं प्राप्य यावद्दर्श च ऐन्दवः ।। २ ।।
एकराशौ रविर्यावत्स मासः सौर उच्यते ।।
त्रिंशता दिवसैर्मासः सावनः परिकीर्तितः ।। ३ ।।
नाक्षत्रमासोऽश्विन्यादिरेवत्यन्तो हि विश्रुतः।।
उदयादुदयं यस्तु सावनो दिवसो रवेः ।। ४ ।।
तंत्रेणैकतिथेर्भागकालो दिवस ऐन्दवः ।।
राशेस्त्रिंशद्भागकालः कालस्त्वेकस्य भास्वतः ।।५।।
अहोरात्रं तु तन्नैवं सौरेऽपि भागमानतः।।
अहोरात्रं साधनस्य मुख्यवृत्त्वैव लभ्यते ।। ६ ।।
सौरे चान्द्रे तूपगणौ त्रिंशद्भागे त्वदर्शनात् ।।
सावना दिवसा ग्राह्या ऋषीणां समये गृहे ।। ७ ।।
अतिभागव्यवस्थायां प्रायश्चित्तक्रियासु च।।
मन्त्रोपासनकार्ये च अन्नस्य प्राशने शिशोः।।८।।
करस्य ग्रहणे राज्ञो व्यवहारेषु माःसु च।।
यज्ञेषु दिनसं ख्यायां ग्राह्यो मासस्तु सावनः ।।९।।
सौरमासो विवाहादौ यदाद्यैः सुप्रगृह्यते ।।
यज्ञेष्वपि व्रते वापि विहिते स्नानकर्मणि ।।2.2.6.१०।।
चान्द्रस्तु पार्वणे ग्राह्यो वार्षिकेष्वष्टकासु च ।।
श्राद्धेषु तिथिकार्येषु तिथ्युक्तेषु व्रतेषु च ।।११।।
नाक्षत्रः सोमपादीनामार्यभागविचारणे ।।
करग्रहविधौ राज्ञां नायं सर्वजनाकृतिः ।। १२।।
तद्वच्चैत्रादिमासोक्तं तिथ्युक्तं कर्म दृश्यते ।।
तत्तु चान्द्रेण कर्तव्यं सा हि चैत्रादिनोच्यते ।।१३।।
राजोक्तौ सावनः प्रोक्ते तिथिसंभागकर्मणि।।
तत्र सौरो भवेद्वाच्यः सौरशब्दप्रवर्तनात् ।।१४।।
चित्रानक्षत्रयोगेन चैत्री सा पूर्णिमा स्मृता।।
तयोपलक्षितो मासश्चैत्र इत्यभिधीयते ।। १५ ।।
स च तिथ्यात्मको मासश्चान्द्रः श्रवणभास्करः ।।
चान्द्रश्चैत्र्यंतिको मासो मुख्यश्चैत्रादिसंज्ञकः ।। १६।।
गौणोऽप्यसौ युगाद्यादेरनुरोधेन वर्धनात् ।।
मुख्यः शुक्लादिदर्शांतो मासो लाक्षणिको मतः ।। १७ ।।
चैत्राद्याश्चान्द्रमासा ये द्वादशापि तु योगतः ।।
पौर्णमासीयुताभिस्तु न चर्क्षत्वं न रेभिरे ।। १८ ।।
विशाखयाद्येषु या वा तथा भाद्रपदेन वा ।।
यत्र न पूर्णिमायोगो मासः स स्याद्विनाशकः ।। १९ ।।
योऽसौ यद्यपि चैत्रादौ नैष्ठिकोऽपि प्रलभ्यते ।।
यथा सौरेऽपि यातोऽसौ योगोऽयमतिदुर्घटः ।। 2.2.6.२० ।।
तथा च माससामान्ये योगेनायं भवेत्क्वचित् ।।
यदि वर्षसहस्रान्ते तदक्षेणैव पूर्णिमा ।। २१ ।।
संयुक्ता लभ्यते यत्र भवेद्राज्यविनाशनम् ।।
सूर्याचन्द्रमसौ नित्यं कुर्वाते तिथिभोजनम् ।। २२ ।।
दण्डद्वये भुक्तशेषे न भुञ्जीत कदाचन ।।
अतिक्रम्यापरां भोक्तुं तिथिं यत्र उभावपि ।।२३।।
यत्र विंशत्तिथिस्तस्मात्सञ्चितैका भवेदिति ।।
त्रिंशता चान्द्रमासौ तु चन्द्रेणैको हि वर्द्धते ।। २४।।
स चाधिको यतो मासस्ततः स्यादधिमासकः ।।
समरात्रिं दिवं कृत्वा वैवस्वतपुरीगतिम् ।। २५ ।।
गशे राश्यंतरे सूर्यो यावद्गच्छति भानुमान् ।।
गच्छन्वर्धयति पूर्वं तिथयस्तास्तु संचिताः ।। २६ ।।
वर्धते तिथयो यावत्तुलां याति दिवा करः ।।
तुलादिराशिषट्के तु न वर्द्धते कदाचन ।। २७ ।।
स्वभावात्समगत्या तु यतः संक्रमते रविः ।।
संचयमानात्वेकैका प्रतिमासं विवर्द्धते ।।
निशास्वपि तु सौरे ता एकस्मिंस्तिस्र इत्यपि ।। २८ ।।
संपूर्णत्रिंशत्तिथिभिर्मास्येकस्मिन्यदा भवेत् ।।
स चान्द्रो मलिनो मासः कोणपाद्यैः समीहितः ।। २९ ।।
भुक्तोच्छिष्टा तु तन्मासादसंस्पृष्टदिवाकरः ।।
यदा संक्रमते लंघ्य तदा ज्ञेयो मलिम्लुचः ।। 2.2.6.३० ।।
सार्धवर्षद्वये पूर्णे पतत्येवं निशाकरः ।।
परित्यक्ताश्च यावंत्यो व्युत्क्रमिण्यश्च याः पुनः ।।
तिथयस्ते नियोक्तव्या नरो न स्यात्स पूरणः ।। ३१ ।।
नैर्ऋत्यांतं हितार्थाय जलकेतुर्निगच्छति ।।
निर्ममं मलिनं मासं प्रेतानां च हिताय च ।।३२।।
अतः प्रेतक्रियाः सर्वाः कार्या मलिम्लुचेऽपि च।।
यत्कर्तव्यं न कर्तव्यं मलमासे द्विजोत्तमाः ।।३३।।
तदिदानीं प्रवक्ष्यामि कथितं च प्रसंगतः ।।
यच्छ्राद्धं प्रेतसंबंधि सर्पिडीकरणावधि ।।
मलमासेऽपि तत्कार्यं विशि नष्टि सपिंडनम् ।। ३४ ।।
यदा तु द्वादशो मासो दैवान्मलिम्लुचो भवेत्।
तत्रैव यत्नात्कर्तव्या क्रिया प्रेतस्य वार्षिकी ।। ३५ ।।
मासांतरे तु पतिते तस्मिन्नेव मलिम्लुचे ।।
तदा त्रयोदशे मासि कर्तव्यं तत्सपिंडनम्।। ३६ ।।
वर्ज्यं मासिकया श्राद्धमेकं तस्मिंस्त्रयोदशे ।।
त्रिंशता घटिकैः श्राद्धं वर्धतेऽद्यापि संमितम् ।। ३७ ।।
कुर्यात्पत्याब्दिकं कर्म प्रयत्नेन मलिम्लुचे ।।
नैमित्तिकं च कुर्वीत नाधिकारस्तयोर्भवेत् ।। ३८ ।।
तीर्थस्नानमलभ्यं तत्तदाद्यं देवदर्शनम् ।।
उपवासादिकं कर्म सीमन्तोन्नयनं तथा ।। ३९ ।।
आर्तवर्जं पुंसवनं पुत्रादिमुखदर्शनम् ।।
मलमासेपि कुर्वीत शुक्रे चास्तमुपागते ।।2.2.6.४०।।
मलमासेपि कुर्वीत नृपाणामभिषेचनम्।।
व्रतारंभं प्रतिष्ठां च चूडाकर्म च मेखलाम्।।४१।।
मंत्रोपासां रहस्यं च महादानं सुमङ्गलम् ।।
विवाहं च गृहारंभं प्रवेशं नववेश्मनः ।। ४२ ।।
उपग्रहं गवादीनामाश्रमांतरसंक्रमम् ।।
दीर्घमात्रासु नेज्यं वै तीर्थयात्रावसेचनम्।। ४३ ।।
वर्षवृद्धिवृषोत्सर्गकन्या द्विर्नयनादि च ।।
यज्ञं च कामिकं विद्वान्मलमासे विवर्जयेत् ।।४४।।
एवमस्तं गते शुक्रे वृद्धबाल्ये च संत्यजेत्।।
पादास्तं च महास्तं च द्विविधं चास्तमस्य तु ।। ४५ ।।
द्विसप्ततिर्दिनान्यस्य महास्तं पूर्वतो भवेत् ।।
पृथिव्यामेव पादास्तं भवेद्द्वादश वत्सरान् ।। ४६ ।।
ऊनपञ्चाशदधिकं दिवसानां शतद्वयम् ।।
प्रतीच्यामुदितः काव्यो दृश्यो भवति सर्वदा ।। ४७ ।।
एकर्क्षे गुरुणा युक्तो यावत्तिष्ठति भार्गवः ।।
मलमासवत्कर्माणि प्राहुस्त्याज्यानि सर्वशः ।।४८।।
ऋक्षभेदे त्वेकराशौ संपर्के यदि वानयोः ।।
गुरो राहोरपि तथा त्यजेद्विद्वान्न संशयः ।। ४९ ।।
सिंहे राशौ स्थिते सूर्ये जीवे चास्तमुपागते ।।
हेयानि यानि कर्माणि निषिद्धानि मलिम्लुचे ।। 2.2.6.५० ।।
मिथुनस्थे यदा भानौ मलमासः पतत्यसौ ।।
द्विराषाढ इति ख्यातो गौणे शब्दविवर्तनात् ।। ५१ ।।
फलं चात्र मृतस्यौर्ध्वदेहिकं कर्म कुर्वता ।।
आषाढकीर्तनं कार्यमेवं वर्षांतरेऽपि च ।। ५२ ।।
आषाढद्वयसंयुक्तपूर्णमासीद्वयं तथा ।।
युग्मकर्कटयो राश्यो द्विराषाढस्तदा भवेत् ।। ५३ ।।
भवेद्गौणो द्विराषाढो राशिस्तत्रैव संयुते ।।
पूर्वत्रिके तु पतिते तदेव भगवान्हरिः ।। ५४ ।।
कर्कटे शयनं कुर्यादागमिष्यं परत्रके ।।
कर्किण्यर्के सुप्तहरौ शक्रपूजाश्विने भवेत् ।। ५५ ।।
दुर्गोत्थानं तुलायां तु विष्णुर्निद्रां जहात्यसौ ।। ५६ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे षष्ठोऽध्यायः ।। ६ ।।