भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०४
मूल्यदानवर्णनम्
।। सूत उवाच ।। ।।
पूर्णपात्रमथो वक्ष्ये यज्ञे साधारणेऽपि च ।।
कामहोमे भवेन्मुष्टिर्मुष्टयोष्टौ तु कुञ्चिका ।। १ ।।
एकैक कुञ्चिमानेन कुर्यात्पात्राणि वै सदा ।।
पात्राणि च पृथक्कृत्वा स्थापयेद्द्वारदेशतः ।। २ ।।
सिद्धानां खड्गधाराणां प्रत्येकस्य दिनक्रमात् ।।
तत्रैव दद्या न्नान्यत्र न कुर्याद्व्यत्ययं क्वचित् ।। ३ ।।
कुण्डानां कुड्मलानां च वेदनं यादृशं शृणु ।।
चतुरस्रपदस्यापि रौप्यार्धं च कलौ युगे ।। ४ ।।
द्वे रौप्ये सर्वतोभद्रे क्रौञ्चघ्राणे चतुर्थकम्।।
महासिंहासने पञ्च दशपात्रे तदर्धकम् ।। ५ ।।
सहस्रारे मेरुपृष्ठे तुर्यरौप्यवृषाधिकम् ।।
वृषे गले च वृषभं शेषे रौप्यसहस्रकम् ।। ६ ।।
चतुरस्रस्य निर्माणे स्वर्णपादः कलौ युगे ।।
महाकुण्डे तु द्विगुणं वृत्ते रौप्यं निवेदयेत् ।। ७ ।।
पद्मकुण्डे तु वृषभमर्ध चन्द्रे तु रौप्यकम् ।।
योनिकुण्डे ददेद्धेनुमष्टार्धस्वर्णमाषकम् ।। ८ ।।
षडस्रे तु तदर्धं स्याद्यागे माषद्वयं भवेत् ।।
शैवे चोद्यापने चैव प्रत्यह्ना स्वर्णमाषकम् ।। ९ ।।
दारणे हस्तमात्रं स्यात्स्वर्णकृष्णकलं भवेत् ।।
इष्टिकाकरणे चैव प्रत्यह्ना स्यात्पणद्वयम् ।। 2.2.4.१० ।।
खण्डे दशवराटं स्याद्बृ हन्माने तु काकिणी ।।
तडागे पुष्करिण्यां च खनने प्रथमांगके ।। ११ ।।
सप्तहस्तमिते कुण्डे निष्ठे आबद्धमात्रकम् ।।
पुराणस्य च एकांशं वेतनं परिकीर्तितम् ।। १२ ।।
वर्धयेत्पणमात्रेण निम्ने पत्रे च प्रक्रमात् ।।
बृहत्कूपस्य निर्माणे प्रत्यहं च पणद्वयम् ।। १३ ।।
शैले ज्ञेयं काञ्चनस्य रत्तिका गृहकर्मणि।।
कोष्ठे ज्ञेयं सार्द्धपणं रंगादिरचिते पणम्।।१४।।
वृक्षाणां रोपणे दद्यात्प्रत्यह्ना सार्धमाषकम् ।।
सेतुबंधे च पंकिले च पणद्वयं च काकिणी ।। १५ ।।
पणेपणे तु ताम्रस्य दद्यात्पणचतुष्टयम् ।।
घटने कांस्यसीसानां पणत्रयमुदाहृतम् ।। १६ ।।
अथ वा दिनसंख्यानं पणैकं च सकाकिणि ।।
सुवर्णस्य पणैके तु पुराणं रत्नकुट्टिमे ।। १७ ।।
रजते तु तदर्धं स्यात्स्फटिकस्य च दारणे ।।
दिनसंख्यापणद्वंद्वं रत्नानामथ कुड्मलम्।। १८ ।।
मणिवेधे मणौ ज्ञेयं काकिणी परिकीर्तिता ।।
चतुर्वराटमधिकं स्फाटिके मणिवेधने ।। १९ ।।
कांस्यतालस्य निर्माणे धमने तु पणत्रयम् ।।
लाक्षानिर्माणके कार्ये तदर्धमपि कीर्तितम्।।2.2.4.२०।।
गवां च दोहने चैव वराटे तुर्यवेतनम्।।
वेतने वस्त्रनिर्माणे पत्रे हस्तपणत्रयम् ।।२१।।
अविवस्त्रस्य निर्माणे स्यंदनं दशकाकिणी ।।
पिधानवस्त्रनिर्माणे त्रिपणं परिकीर्तितम् ।। २२ ।।
दश काकिणी ऊर्ध्वाधस्तद्व्यये पण्यवेतनम् ।।
वंशाजीवस्य प्रत्यह्ना पणस्यार्धे सकाकिणि ।। २३ ।।
लोहकारस्य च तथा नापितस्य च वेतनम् ।।
शिरसा तस्य वपने विज्ञेया दश काकिणी ।। २४ ।।
सश्मश्रुनखमाने तु प्रदद्यात्काकिणीद्वयम् ।।
नारीणामथ संस्कारे नखचित्रादिरञ्जने ।। २५ ।।
सकाकिणि पणं तच्च सवित्रे च पयोधरे ।।
पणानां तुर्यकं दद्यात्सीमंतस्यालके तथा ।। २६ ।।
पदचित्रे तु सार्द्धं स्याद्ग्रीवाणां गुह्यधारणे ।।
धान्यानां रोपणे चैव दिनैके पण वेतनम् ।। २७ ।।
लवणे तु तथा देया गुवाकानां च रोपणे ।।
दण्डपत्रस्य संस्कारे मरिचानां तथैव च ।। २८ ।।
पणद्वयं वराटानामधिकं दशमेव तु ।।
हलेहले पणैकं स्यात्काकिण्यधिकमेव च ।। २९ ।।
पणत्रयं चक्रपणे महिषाणां पणाधिकम् ।।
नराणां वाहने चैव पणैकं दश काकिणी ।। 2.2.4.३० ।।
दासीनां गर्दभानां च अधिकं काकिणीद्वयात् ।।
क्षालने चापि वस्त्रस्य तैलक्षारविवर्जिते ।। ३१ ।।
वस्त्रे प्रतिपणं दद्याद्दीर्घे प्रस्थेऽपि वर्धयेत् ।।
सद्यः प्रक्षालनेऽप्यर्धं दिनादावधिकं भवेद् ।। ३२ ।।
श्वेतवस्त्रे भवेन्न्यूनं पदे सूक्ष्मे च वर्द्धयेत् ।।
मृत्तिकानां समुद्धारं कुद्दाले चेक्षुपीडने ।। ३३ ।।
वेतनं पुष्पसंस्कारे सहस्रं दशकाकिणी ।।
काकिणी स्रङ्निबद्धे च द्विगुणं कण्ठमालिका ।। ३४ ।।
अबद्धे द्व्यंगुलं यावन्मुण्डमाला प्रकीर्तिता ।।
हस्तत्रये कण्ठमाला आनाभि कमलावधि ।। ३५ ।।
काकिणीकत्रयं चैव निर्माणे द्विजसत्तमाः ।।
मालत्याश्च तुलस्याश्च जातियूथ्योश्च सत्तमाः ।। ३६ ।।
तदर्धार्धं मारुतेन दमने बकुलस्य च ।।
वेतनं दीपतैले च आज्यस्य परिवर्धयेत् ।। ३७ ।।
यामेयामे रौप्यमाषं स्नेहे चैव तु काकिणी ।।
सार्धांगुलप्रमाणेन वस्त्रवर्तिं विदुर्बुधाः ।। ३८ ।।
षडंगुलेन दैर्घ्यं च न न्यूनं नाधिकं भवेत् ।।
पञ्चविंशतिभिः संख्या तंतुभिर्द्विजसत्तमाः ।। ३९ ।।
पञ्चाङ्गुलेन मानेन कर्तव्यः सुसमाहितः ।।
हस्तोच्छ्राये प्रदद्यात्तु मुष्टिहस्ते तु मध्यमम् ।। 2.2.4.४० ।।
त्रिहस्ते चतुर्हस्ते वा उत्तमं मानमीरितम् ।।
स्वर्णधारे हतो राजा रजते सर्वकामदः ।। ४१ ।।
ताम्रे चायुःक्षयकरमायसे दुर्गतिप्रदः ।।
शस्तस्य करमर्दस्य प्रशस्तोत्तर उच्यते ।। ४२ ।।
दीपाधारं कांस्यमयं तथारीतिमयस्य च ।।
अभावे मृन्मयस्यैव मृन्मये मानवर्जितम् ।। ४३ ।।
दशाङ्गधूपके मूल्यं विंशके तु पणत्रयम् ।।
द्वादशकांगुलेऽप्यर्धवर्तिं धूपाय वर्तयेत् ।। ४४ ।।
हस्ते पंचप्रमाणं च वस्त्रैः कुर्याच्च वर्तिकाम् ।।
पञ्चविंशतिभिर्वा यः स महावर्तिरुच्यते ।।४५।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे चतुर्थोऽध्यायः ।।४।।