भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search

कुण्डसंस्कारवर्णनम्

।। सूत उवाच ।। ।।
कुण्डानामथ संस्कारे वक्ष्ये शास्त्रमतं यथा ।।
असंस्कृते चार्थहानिस्तस्मात्संस्कृत्य होमयेत् ।। १ ।।
अष्टादश स्युः संस्काराः कुण्डानां तत्र दर्शिताः।।
तारेणावेक्षयेत्स्थानं कुशतोयैः प्रसेचयेत् ।।२।।
त्रिसूत्रीकरणं पश्चाद्वृत्तसूत्रं निपातयेत्।।
वारेण कीलकं दद्यान्नारसिंहेन कुड्मलम् ।।३।।
जिह्वां प्रकल्पयेत्पश्चात्तस्मादग्निं समाहरेत् ।।
न च म्लेच्छगृहादग्निं न शूद्रनिलयात्क्वचित् ।। ४ ।।
नदीपर्वतशालाभ्यः स्त्रीहस्तात्परिवर्जयेत् ।।
संस्कृत्य परिगृह्णीयात्त्रिधा कृत्वा समुद्धरेत् ।। ५ ।।
तमग्निं प्रतिगृह्णीयादात्मनोऽभिमुखं यथा ।।
वह्निबीजेन मतिमाञ्छिवबीजेन प्रोक्षयेत् ।। ६ ।।
वागीश्वरीमृतुस्नातां वागीश्वरसमागताम् ।।
ध्यात्वा समीरणं दद्यात्काममुत्पद्यते ततः ।। ७ ।।
कालबीजेन चैशान्यां योनावग्निं विनिक्षिपेत् ।।
पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् ।। ८ ।।
पितृपिङ्गल दहदह पंचयुग्ममुदीर्य च ।।
सर्वज्ञाज्ञापय स्वाहा मन्त्रोयं वह्निपूजने ।। ९ ।।
वह्निबर्हिषि संयुक्ताः सादियांताः सबिंदवः ।।
वह्निमन्त्राः समुद्दिष्टा द्विजानां मंत्र ईरितः ।। 2.1.15.१० ।।
जिह्वास्तास्त्रिविधाः प्रोक्ता यज्ञदत्तेन सत्तमाः ।।
हिरण्यामाज्यहोमेषु होमयेत्संयतात्मकः ।। ११ ।।
त्रिमध्वक्तैर्यत्र होमं कर्णिकायां च होमयेत् ।।
कनकास्यात्तु कृष्णास्याद्धिर्ण्या शुभ्रता तथा ।। १२ ।।
बहुरूपातिरूपा च सात्त्विका योगकर्मसु ।।
विश्वमूर्तिं स्फुलिंगिन्यौ धूम्रवर्णा मनोजवा ।।१३।।
लोहितास्यात्करालास्यात्कालीभासस्य इत्यपि।।
एताः सप्त नियुंजीत विज्ञेयाः क्रूरकर्मसु ।।१४।।
समिद्भेदेषु या जिह्वास्तास्तु तेनैव योजयेत् ।।
हिरण्यामाज्यहोमे होमयेत्संयतात्मकः ।।१५।।
त्रिमध्वक्तैर्यथा होमं कर्णिकायां च होमयेत् ।।
शुद्धक्षीरेण रक्तायां नैत्यिकेषु प्रभा स्मृता ।। १६ ।।
बहुरूपा पुष्पहोमे कृष्णा चान्नेन पायसैः ।।
इक्षुहोमे पद्मरागा सुवर्णा पद्महोमके ३१७।।
लोहिता पद्महोमे च श्वेता वै बिल्वपत्रके ।।
धूमिनी तिलहोमे च काष्ठहोमे करालिका ।। १८ ।।
लोहितास्या पितृहोमे ततो ज्ञेया मनोजवा ।।
वैश्वानरं स्थितं होमे समिद्धोमेषु सत्तमाः ।। १९ ।।
समानमाज्यहोमे च निषण्णं शेषवस्तुषु ।।
आस्यात्तु जुहुयाद्वह्नौ पिपर्त्ति सर्वकर्मसु ।। 2.1.15.२० ।।
कर्णहोमे तु वै व्याधिर्नेत्रे तद्द्वयमीरितम् ।।
नासिकायां मनःपीडा मस्तकेऽध्वा न संशयः ।। २१ ।।
पुत्रं विपत्करं चैव तस्मात्तत्र न होमयेत् ।।
साधारणमथो वक्ष्ये वह्नेर्जिह्वाश्च कीर्तिताः ।। २२ ।।
प्रवक्ष्यामि विधिं कृत्स्नं यद्विशेषं पुनः शृणु ।।
घृताहुतौ हिरण्याख्या गगना पाणिहोमतः ।। २३ ।।
वक्रा ख्याता महाहोमे कृष्णाभा सा क्रतौ मता ।।
सुप्रभा मोदकविधौ बहुरूपातिरूपिकाः ।। २४ ।।
पुष्पपत्रविधौ होमे वह्नेर्जिह्वाः प्रकीर्तिताः ।।
न वा संकल्पयेत्कुण्डे शूद्राकार विभेदतः ।। २५ ।।
इन्द्रकोष्ठं मस्तकं स्यादीशाग्नेये च मस्तके ।।
तत्काष्ठपार्श्वे द्वे नेत्रे द्वौ करौ च पदक्रमात् ।। २६ ।।
अविशिष्टं भवेत्पुच्छं मध्ये चोदरसम्भवम् ।।
उदरे होमयेत्पुष्टिमन्नं पायसकं च यत् ।। २७ ।।
हुत्वा व्रीहिगणं तत्र कर्णे पुष्पाहुतिं हुनेत् ।।
वामकर्णे वामनेत्रे हुनेदब्जादिकं बुधः ।। २८ ।।
श्रवणे चैव नेत्रे च दक्षिणे चेक्षुखंडकम् ।।
वामपादे वामकरे अभिचारेषु शस्यते ।। २९ ।।
मारणे पुष्पदेशे तु न चान्यं होमयेत्क्वचित् ।।
विपत्करं विजानीयाद्ध्वनिः सर्वविनाशकृत् ।। 2.1.15.३० ।।
चन्दनागरुकर्पूरपाटलायूथिकानिभः ।।
पावकस्य सुतो गंधः समंतात्सुमहोदयः ।। ३१ ।।
प्रदक्षिणस्त्यक्तकल्पा छत्राका शिथिला शिखा ।।
शुभदा यजमानस्य राज्यस्यापि विशेषतः ।। ३२ ।।
छिन्नवृत्ताः शिखाः कुर्यान्मृत्युर्धनपरिक्षयः ।।
निर्वाप्यं मरणं विद्यान्महाधूमाकुलेऽपि च ।। ३३ ।।
एवंविधेषु दोषेषु प्रायश्चित्तं समाचरेत् ।।
अष्टाविंशाहुतीस्त्यक्त्वा ब्राह्मणान्भोजयेत्ततः ।। ३४ ।।
मूलेनाज्येन जुहुयाज्जुहुयात्पञ्चविंशतिम् ।।
महास्नानं प्रकर्तव्यं त्रिकालं हरिपूजनम् ।। ।। ३५ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पञ्चदशोऽध्यायः ।। १५ ।।