भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search

पूर्तनिर्णयवर्णनम्

।। सूत उवाच ।। ।।
शोधयेत्प्रथमं भूमिं मितां कृत्वा ततो द्विजाः ।।
दशहस्तेन दण्डेन पञ्चहस्तेन वा पुनः ।। १ ।।
वाहयेत्सदा वृषभैस्तडागार्थेऽपि भूमिकाम् ।।
देवागारस्य या भूमिः श्वेतैश्च वृषभैरपि ।। २ ।।
या भूमिर्ग्रहयागार्थे तन्न वाहैरपि स्पृशेत् ।।
आरामार्थे कृष्णवृषैः कृषार्थखननैरपि ।। ३ ।।
वाहयेत्त्रिदिनं विप्राः पञ्चव्रीहींश्च वापयेत् ।।
देवपक्षे सप्तगुण आरामकरणे गुणः ।। ४ ।।
मुद्गमाषौ धान्य तिलाः श्यामाकश्चेति पञ्चमः ।।
मसूरश्च कलायश्च सप्तव्रीहिगणः स्मृतः ।। ५ ।।
सर्षपश्च कलायश्च मुद्गो माषश्चतुर्थकः ।।
व्रीहित्रयं माषमुद्गौ श्यामाको महिषो गणः ।। ६ ।।
सुवर्णमृत्तिका ग्राह्या वर्णानामनुपूर्वशः ।।
बिल्ववृक्षैरियं कुर्याद्यूपशूनध्वजे दिने ।।७।।
अरत्निमात्रं विज्ञेयं प्रशस्तं यष्टिहस्तकम् ।।
ऊर्णासूत्रमयीं मूर्तिं कृत्वा कुर्याच्चतुष्टयम् ।। ८ ।।
क्षीरदारुगर्तयुतं द्वादशांगुलमेव च ।।
ज्वालयेत्तिलतैलेन तथा केशरजेन वा। ।। ९ ।।
पूर्वदिक्प्रणवे सिद्धिः पश्चिमाशागतिः शुभा ।।
मरणे दक्षिणायां च हानिः स्यादुत्तरे स्थिते ।। 2.1.10.१० ।।
कल्पे विपत्करं विद्यात्तथा चैव च दिग्गते ।।
नारसिंहेन मनुना चाग्निं प्रज्वाल्य दापयेत् ।। ११ ।।
मासे घटे तथा मासं कुर्याद्भूमिपरिग्रहम् ।।
सूत्रयेत्कीलयेत्पश्चान्महामाने द्विजोत्तमाः ।। १२ ।।
ततो वास्तुबलिं दद्यात्खनित्रं परिपूजयेत् ।।
आब्रह्मन्निति मन्त्रेण खनयेन्मध्यदेशतः ।। १३ ।।
आज्येन मधुयुक्तेन गात्रमेकं प्रलेपयेत् ।।
स्वर्णतोयैस्तथा रत्नतोयैः स्नात्वा प्रलेपयेत् ।। १४ ।।
ईशानाभिमुखेनैव कूपपक्षे विदुर्बुधाः ।।
अकृत्वा वास्तुयागं च यस्तडागं समुत्सृजेत् ।। १५ ।।
तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति ।।
प्रासादे च तथारामे महाकूपे तथैव च ।। १६ ।।
गृहारंभे च विप्रेंद्रा दद्याद्वास्तु बलिं ततः ।।
शालैश्च खादिरैश्चैव पलाशैः केशरस्य च ।१७।।
बिल्वस्य बकुलस्यैव कलौ यूपः प्रशस्यते ।।
शुना चक्रोदरकृतं तत्पार्श्वे तु ध्वजद्वयम् ।। १८ ।।
सर्पाकारस्तडागे च कूपे कुम्भाकृतिर्भवेत् ।।
आरामे पद्मपुष्पाभश्छत्रकारस्तु मंडले ।।१९।।
कुर्याच्छुनाकृतिं सेतौ विष्णुगेहे गदाकृतिम् ।।
अश्वाकारं चाश्वमेधे नरमेधे नराकृतिम् ।।2.1.10.२०।।
गोयागे च वृषाकारं गृहयागे ध्वजाकृतिम् ।।
श्मशानगोप्रचारार्थं चैत्यवृक्षालयोत्तमाः ।। २१ ।।
चक्राकारो लक्षहोमे कोटिहोमे हलाकृतिः ।।
नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे ।। २२ ।।
एवं शस्योदितां भूमिं शुद्धां पूर्वप्लवान्विताम् ।।
परिगृह्य यजेद्देवं वनपालं शिखिध्वजम् ।।२३।।
सोमं च नागराजानं ततो बीजं सुशोधयेत् ।।
आनयेद्धारयेत्पश्चाद्रौद्रतापेन तापयेत्।। ।।२४।।
दिनद्वयांतरे चैव मंत्रैश्च परिमंत्रयेत् ।।
गर्भाधानं ततः कुर्याद्विष्णुमंत्रं जपंस्त्रिधा ।। २५ ।।
एवमस्येति मंत्रेण त्रिधा जप्त्वा विमार्जयेत् ।।
देहि मेति च मंत्रेण संप्रोक्ष्य दशवारिणा ।।२६।।
इत्यगृहीतमनुना पञ्चधा परिमंत्रितम् ।।
त्र्यंबकेनेति मंत्रेण बीजमारोपयेत्ततः ।। २७ ।।
भार्यामृतुमतीं स्नात्वा पञ्चमेऽहनि सत्तमाः ।।
उत्संगे स्थापयित्वा च चुम्बयेन्मंत्रयेत्ततः ।। २८ ।।
एवं वृक्षस्य संस्कारमध्येऽपि त्वनुगच्छति ।।
तेन पुत्रत्वमाप्नोति नात्र कार्या विचारणा ।। २९ ।।
तुलस्या बीजमादाय वैष्णवर्क्षे द्विजोऽहनि ।।
खानयेदपि गोमूत्रबिंदुतोयैः प्रसेचयेत् ।। 2.1.10.३० ।।
एतां तु स्वर्गमाप्नोति सितकुंभे निपातयेत् ।।
एकरात्रं परिस्थाप्य तत आरोपयेद्भुवि ।। ३१ ।।
अविधौ कूपवाप्यादौ खनने सूयते क्वचित् ।।
कुर्वंति सहकारादिरोपणं ये नराधमाः ।।
लभंते न फलं तेषामिह चाभ्येत्यधोगतिम् ।। ३२ ।।
नदीतीरे श्मशाने च स्वगृहस्य च दक्षिणे ।।
तुलसीरोपणं कृत्वा याति कर्ता यमालयम् ।। ३३ ।।
पत्रपुष्पफलानां च रजोरेणुसमागमाः ।।
पोषयंति च पितरं प्रत्यहं प्रतिकर्मणि ।। ३४ ।।
यस्तु वृक्षं प्रकुरुते छायापुष्पफलोपगम् ।।
पथि देवालये चापि पापात्तारयते पितॄन्।।
कीर्तिश्च मानुषे लोके प्रत्यभ्येति शुभं फलम् ।। ३५ ।।
अतीतानागताश्चातः पितॄन्स स्वर्गतो द्विजाः।।
तारयेद्वृक्षरोपी च तस्माद्वृक्षं प्ररोपयेत ।।३६।।
अपुत्रस्य हि पुत्रत्त्वं पादपा इह कुर्वते ।।
यत्नेनापि च विप्रेंद्रा अश्वत्थारोपणं कुरु ।। ३७ ।।
शतैः पुत्रसहस्राणामेक एव विशिष्यते ।।
कामेन रोपयेद्विप्रा एकद्वित्रिप्रसंख्यया ।। ३८ ।।
मुक्तिहेतुः सहस्राणां लक्षकोटीनि यानि च ।।
धनी चाश्वत्थवृक्षे च अशोकः शोकनाशनः ।।३९।।
प्लक्षो भार्याप्रदश्चैव बिल्व आयुष्यदः स्मृतः ।।
धनप्रदो जंबु वृक्षो ब्रह्मदः प्लक्षवृक्षकः ।। 2.1.10.४० ।।
तिंदुकात्कुलवृद्धिः स्याद्दाडिमी कामिनीप्रदः ।।
बकुलो वंजुलश्चैव पापहा बलबुद्धिदः ।। ४१ ।।
स्वर्गप्रदा धातकी स्याद्वटो मोक्षप्रदायकः ।।
सहकारः कामप्रदो गुवाकः सिद्धिमादिशेत् ।। ४२ ।।
सर्वशस्यं बलबले मधुके चार्जुने तथा ।।
कदंबे विपुला कीर्तिस्तिंतिडी धर्मदूषिकः ।। ४३ ।।
जीवंत्या रोगशांतिः स्यात्केशरः शत्रुमर्दनः ।।
धनप्रदश्चैव वटो वटः श्वेतवटस्तथा ।। ४४ ।।
पनसे मंदबुद्धिः स्यात्कलि वृक्षः श्रियं हरेत् ।।
कलिवृक्षं च शाखोट उदरावर्तकं तथा ।। ४५ ।।
तथा च मर्कटीनीपरोपणात्संततिक्षयः ।।
शिंशपां चार्जुनं चैव जयंती हय मारकान् ।।
श्रीवृक्षं किंशुकं चैव रोपणात्स्वर्गमादिशेत् ।। ४६ ।।
न पूर्वां रोपयेज्जातु समिधं कंटकीद्रुमम् ।।
कुशं पद्मं जलजानां रोपणाद्दुर्गतिं व्रजेत् ।। ४५ ।।
मंदारे कुलहानिः स्याच्छाल्मले शुकबुद्धिमान् ।।
निंबे पशुविनाशः स्याच्छत्राके कुलपांसलः ।। ४८ ।।
उत्पन्ने कुलपातः स्या त्पशोरेव क्षयो भवेत् ।।
शत्रुवृद्धिः काकनादे बलपूगे हतश्रियः ।। ४९ ।।
विना क्रतौ विरुद्धश्च न सिंहं द्विजसत्तमाः ।।
क्रतौ हि स्याद्विरुद्धश्च प्राप्नुयान्नरकाकृतिम् ।। 2.1.10.५० ।।
सहकारसहस्रात्तु वरिष्ठं धातकीद्वयम् ।।
तस्माच्चैव सहस्राद्धि पाटलैका विशिष्यते ।। ५१ ।।
पाटलानां शतात्पश्चादेकरक्तवटो भवेत् ।।
वटानां द्विसहस्राच्च पंचकं नागकेशरम् ।। ५२ ।।
तस्माद्वरिष्ठः श्रीवृक्षो जंबूवृक्षः प्रशस्यते ।।
तस्माद्धिमवतो ज्ञेयः श्रीपर्णीवृक्ष उत्तमः ।। ५३ ।।
तिंदुकस्य त्रयश्चैव जंबूवृक्षस्य पंचकम् ।।
कदंबार्जुनवृक्षस्य नारिकेरस्य च त्रयम् ।।
एवमुक्त्वा स धर्मात्मा कारयेत्कीदृशं बलम् ।। ५४ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
स्वर्गभोगं समश्नाति विधिवद्द्रुमरोपणे ।। ५५ ।।
जन्मत्रयादिकं पापं विनाश्य स्वर्गमादिशेत् ।।
शतरोपी च ब्रह्मत्वं विष्णुत्वं च सहस्रके ।। ५६ ।।
तुलसीरोपणाच्चैत्र आधिव्याधियुतो भवेत् ।।
वैशाखे कीर्तिमाप्नोति ज्येष्ठे तु मरणं व्रजेत् ।। ५७ ।।
आषाढे कीर्तिमाप्नोति श्रावणे परमां गतिम् ।।
भाद्रे धनागमश्चैव आश्विने कार्तिके क्षयः ।।
तुलसी त्रिविधा लोके कृते श्वेता प्रशस्यते ।। ५८ ।।
किंचिच्छेदं च यः कुर्यादश्वत्थस्य वटस्य च ।।
श्रीवृक्षस्य च विप्रेंद्राः स भवेद्ब्रह्मघातकः ।। ५९ ।।
मूलच्छेदेन विप्रेंद्राः कुलपातो भवेदनु ।।
वृक्षच्छेदी भवेन्मूक आधिव्याधिशतं भजेत् ।।
सायं प्रातश्च घर्मांते शीतकाले दिनांतरे ।। 2.1.10.६० ।।
फलमामकुलत्थश्च माषो मुद्गास्तिला यवाः ।।
नृत्यगीतपयःकेशफलपुष्पप्रदो भवेत् ।। ६१ ।।
अविकाकसकृच्चूर्णं यवचूर्णानि यानि च ।।
गोमांसमुदकं चैव सप्तरात्रं निधापयेत् ।। ६२ ।।
तमेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम् ।।
रोहिमत्स्यस्य पित्तानि धान्याकं तत्र स्थापयेत् ।। ६३ ।।
तेनोदकादिसेकश्च कृतो वै वृद्धिमादिशेत् ।।
तित्तिडीबीजमादाय इक्षुदंडेन मर्दयेत् ।।६४।।
तेनाशोके प्रसेकः स्यात्सहकारस्य वृद्धिमान् ।।
नालिकेरोदकं चैव माक्षिकैः सह सेचयेत् ।। ६५ ।।
दोहदं सर्ववृक्षाणां पूगादीनां विशेषतः ।।
दशशिराबीजयुतादभिषेकाच्च जीवति ।। ६६ ।।
प्राक्प्रसूतिर्गवादीनां छागादिमहिषस्य च ।।
जरासु तोयं वृक्षाग्रे स्थापयेदविचारयन् ।। ६७ ।।
परस्य सहकारस्य फलं स्यान्नात्र संशयः ।।
मेषस्य च वितालस्य यवागूं च समाहरेत् ।। ६८ ।।
तत्र मासैः सर्षपैश्च पूरयेन्मर्दयेत्ततः ।।
गुवाकवृक्षकं देव घर्षयेन्मर्दयेत्त्रिभिः ।। ६९ ।।
मृतोऽपि जीवयेच्छीघ्रं म्रियमाणोऽपि जीवति ।।
निंबपत्रं योगपत्रं शतावरिपुनर्नवाम् ।। 2.1.10.७० ।।
क्षीरिकाताम्रकैः पत्रैर्धूमं दद्याद्दिनत्रयम् ।।
सहकारस्य मूलेन कीट रोधो न जायते ।। ७१ ।।
ततः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदोऽन्यथा ।।
मत्स्योदकेन सिक्तेन आम्राणां वृद्धिरिष्यते ।। ७२ ।।
पक्वाम्रं रुधिरं चैव दाडिमानां प्रशस्यते ।।
यवोदकं सगोमांसं केतकीनां प्रशस्यते ।। ७३ ।।
क्षीरके बलवृद्धिः स्यात्तिंदुकः करमर्दकः ।।
मांसपूति रसामज्जा शोकताले गुवाकके ।। ७४ ।।
सपूतिमांसं सघृतं नालिकेरस्य रोहितम् ।।
मधुयष्ट्युदकैः सेकात्सामान्यं निहितं भवेत् ।। ७५ ।।
कपित्थबिल्वयोः सेकं गुडतोयेन सेचयेत् ।।
जातीनां मल्लिकानां च कुंदानां रंतिकस्य च ।। ७६ ।।
गंधतोयसितकरं सर्पनिर्मोकधूपकम् ।।
कूर्ममांसमन्नरसं विडंगस्य च पुष्पकम् ।। ७७ ।।
रथ्यावृक्षे प्रतिष्ठाप्य फलवाञ्जायते ततः ।।
वातसर्पस्य निर्मोकं तगराजगवस्य च ।। ७८ ।।
दद्याद्धूपं धान्यमध्ये धान्यवृद्धिश्च जायते ।।
मयूरपत्रमादायच्छागरोमाणि सप्त वै ।। ७९ ।।
एरंडतैलयोगेन दद्याद्धूपं निशागमे ।।
हिंगुकुसुमसंयोगान्मूषिकाणां परिन्यसेत् ।। 2.1.10.८० ।।
करिविष्ठामृच्छविष्ठां कृत्तिकायां समाहरेत् ।।
निशातोये प्रसेकः स्यात्तत्क्षात्रमूलकं हरेत् ।। ८१ ।।
अश्वत्थमूले दशहस्तमात्रं क्षेत्रं पवित्रं पुरुषोत्तमस्य ।।
अश्वत्थच्छायासलिलस्य मध्ये विशेषतो वै त्रिपथैव गंगा ।। ८२ ।।
बाहुविंशांतरे रोपेत्सहकारं स धर्मवित् ।।
कलाहस्तांतरं धात्री बकुलं वंजुलं तथा ।। ८३ ।।
श्रैपर्णिकं च पुन्नागं श्रीवृक्षं द्विगुणं तरौ ।।
हस्ते शैलमये चैव उत्तमं मानमीरितम् ।। ८४ ।।
शैलेष्टकादिरचिते चतुर्हस्ते तु संमिते ।।
वाप्यादीनां तु कूपानामेकवृक्षादिकस्य च ।। ८५ ।।
श्रीविष्णोर्वृक्षपक्षे च वरुणेष्टं च कूपके ।।
गणेशं पूजयेत्कुम्भं दिक्पालांश्च विशेषतः ।। ८६ ।।
अग्निकार्यं विना कुर्यात्प्रकुर्याच्च सतां गतिम् ।।
श्रुत्वा कृतिं विधानेन अन्येषां वा तथोद्भवम् ।। ८७ ।।
अन्येषां चैव वृक्षे च तथा च तुलसीवने ।।
कुम्भे वनस्पतिः स्थाप्यः पूजयेद्धोमयेत्ततः।। ८८ ।।
वृक्षान्वानेन संस्कृत्य वासोभिरभिवेष्टयेत् ।।
शुच्यमानमिदं ज्ञेयमन्येषां वा तथोद्भवम् ।। ८९ ।।
तुलस्याः सहकारस्य ब्रह्मवृक्षस्य चैव हि ।।
अश्वत्थस्य वटस्यैव स्वर्णतामथ वेधयेत् ।। 2.1.10.९० ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे दशमोऽध्यायः ।। १० ।।