भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०९

विकिस्रोतः तः

पूर्तनिर्णयवर्णनम्

।। सूत उवाच ।। ।।
अंतर्वेदिं प्रवक्ष्यामि ब्रह्मणोक्तं युगांतरे ।।
बहिर्वेदं तथैवोक्तं शस्तं स्याद्द्वापरे कलौ ।। १ ।।
ज्ञानसाध्यं तु यत्कर्म अंतर्वेदीति कथ्यते ।।
देवतास्थापनं पूजा बहिवेंदिरुदाहृता ।। २ ।।
प्रपापूर्तादिकं चैव ब्राह्मणानां च तोषणम् ।।
गुरुभ्यः परिचर्या च बहिर्वेदी द्विधा मता ।। ३ ।।
अकामेन कृतं कर्म कर्म च व्यसनादिकम् ।।
अंतर्वेदी तदेवोक्तं बहिर्वेदी विपर्ययः ।। ४ ।।
धर्मस्य कारणं राजा धर्ममेतद्भवेन्नृपः ।।
तस्मान्नृपं समाश्रित्य बहिर्वेदी ततो भवेत् ।। ५ ।।
सप्ताशीतिर्बहिर्वेदी सारमेषां तृतीयकम् ।।
देवतास्थापनं चैव प्रासादकरणं तथा ।। ६ ।।
तडागकरणं चैव तृतीयं न चतुर्थकम् ।।
पंचमं पितृपूजा च गुरुपूजापुरःसरा ।। ७ ।।
अधिवासः प्रतिष्ठा च देवतानामविक्रिया ।।
प्रतिमाकरणं चैव वृक्षाणामथ रोपणम् ।। ८ ।।
त्रिविधा सा विनिर्दिष्टा उत्तमा चाथ मध्यमा ।।
कनिष्ठा शेषकल्पश्च सर्वकार्येष्वयं विधिः ।। ९ ।।
त्रिधा भवति सर्वत्र प्रतिष्ठादिविधिर्मतः ।।
पूजाहोमादिभिर्दानैर्मानतश्च त्रिभागतः ।। 2.1.9.१० ।।
त्र्यहसाध्यविधानेन अष्टाविंशतिदेवताः ।।
त्रिधा भवति सर्वत्र प्रतिष्ठादिविधिर्मतः ।। ११ ।।
प्रत्यहं पूजयेत्तत्र जापकास्तत्र षोडश ।।
उत्तमोऽसौ विधिः कृत्स्नो ह्यश्वमेधफलप्रदः ।। १२ ।।
चत्वारो याजकास्तत्र त्रयोविंशतिदेवताः ।।
ब्रहदिक्पाल वारुण्यं पृथिवी च शिवस्तथा ।। १३ ।।
एकाहेनैव पूजा च मध्यमः कथितो विधिः ।।
गणेशग्रहदिक्पालान्वरुणं च शिवं तथा ।। १४ ।।
संपूज्य पूज्यते यत्र कनिष्ठोऽसौ विधिः स्मृतः ।।
एकवृक्षश्चैकरूपैः प्रतिमाक्षुद्रदेवताः ।। १५ ।।
नलिनीदीर्घिकागर्तवापीमलप्रपादिकम् ।।
एषां संस्कारकार्येषु प्रतिमानां परिष्क्रिया ।। १६ ।।
अग्निकार्यं ततः कृत्वा न कुर्याद्विधिविस्तरम् ।।
गणेशग्रहदिक्पालान्पूजयेदुपचारतः ।। १७ ।।
वाप्यादेः पुष्करिण्याश्च क्षिपेद्गंगाजलं ततः ।।
उलूखलद्वयेनापि जीर्णानां तु कदाचन ।। १८ ।।
सेतुप्रासादवापीनां प्रतिष्ठां नैव कारयेत् ।।
प्रासादः सेतवश्चैव तडागाद्यास्तथैव च ।। १९ ।।
त्रिभिर्वर्णैः प्रतिष्ठार्हा जीर्णानां तु समुद्गताः ।।
मुनयो मानमिच्छंति अमानं न हि दृश्यते ।। 2.1.9.२० ।।
तस्मान्मानं प्रवक्ष्यामि यन्मानं यादृशं फलम् ।।
षष्टिहस्तप्रमाणेन तदुक्तं वारणोदितम् ।। २१ ।।
एकषष्टिहस्तमितं प्रासादं चोत्तमं विदुः ।।
मध्यं तदर्धं विज्ञेयं कनिष्ठं तत्परं स्मृतम् ।। २२ ।।
अथ वा देवमानेन कर्तव्यं भूतिमिच्छता ।।
यस्तडागं नवं कृत्वा जीर्णं वा नवतां नयेत् ।। ।। २३ ।।
सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते ।।
वापीकूपतडागाश्च उद्यानप्रवहास्तथा ।। २४ ।।
पुनः पुनश्च संस्कार्यो लभते मौक्तिकं फलम् ।।
गुणानां च प्रमाणेन प्रतिमानं विभागतः ।। २५ ।।
द्विशतेन शतेनापि प्रासादस्यैष निश्चयः ।।
सहस्रहस्तविस्तारं दैर्घ्येणाष्टाधिकं भवेत् ।। २६ ।।
तडागं तं विजानीयात्प्रथमं मानमीरितम् ।।
मध्यं चतुःशतेनापि प्रस्तावे दशहीनकम् ।। २७ ।।
कनिष्ठं त्रिशतं चैव प्रस्थे स्याद्विंशहीनकम् ।।
तदर्धेन कलौ ज्ञेयं तदर्धेन तदर्धकम् ।। २८ ।।
तडागमानं विज्ञेयं त्रिवर्गफलदायकम् ।।
अथ पुष्करिणीपक्षे द्वे शते मानमुत्तमम् ।। २९ ।।
तडागे द्विगुणा नेमी मानार्धे गर्तमीरितम् ।।
तत्क्षेत्रं वारुणं स्थानं त्र्युदितं तद्बहिः स्मृतम् ।। 2.1.9.३० ।।
चतुर्थं चैव गांधर्वं पैशाचं पंचमं विदुः ।।
यक्षस्थानमिता भागे एवं सर्वक्रमाणि हि ।। ३१ ।।
अशीतिहस्तमानेन नलिन्या मणिरुच्यते ।।
पञ्चहीनं च प्रस्तावे एवं मानविदो विदुः ।। ३२ ।।
षष्टिहस्तेन नलिनी प्रस्तावे तुर्यहीनकम् ।।
चतुःषष्टिहस्तमिता दीर्घिका च प्रकीर्तिता ।। ३३ ।।
तुर्यहीनं च प्रस्तावे गर्ते मानं न विद्यते ।। ३४ ।।
अग्नौ रोगो बंधुनाशश्च याम्यां मृत्युश्चोग्रः प्राप्यते राक्षसे च ।।
भीतिश्चोग्रा प्राप्यते वायवीये तस्मादेता वर्जनीयाः प्रयत्नात् ।। ३५ ।।
विप्रादीनां देवतानां समाजे मेरुस्थाने यत्र तत्रैव कुर्यात् ।।
नद्यास्तीरे वर्जयेद्वा स्मशाने तडागाद्वै आश्रमादीञ्जनानाम् ।। ३६ ।।
यदा प्रतिष्ठां न करोति मूढः प्रासादवाप्यादिषु पापचेताः ।।
भयं समाप्नोति च पापमुग्रं पदेऽहिना वै वधभागितां व्रजेत् ।। ३७ ।।
यदा तु दीर्घासरसीतडागप्रासादकूपादिषु निर्मितानि ।।
कुर्वंति चान्यानि यदा मखानि भवंति नैवास्य फलप्रदानि ।।३८।।
यदप्रतिष्ठेषु निपानकेषु प्रासादकूपेषु वनादिकेषु ।।
प्रतिष्ठिते यत्फलमाप्नुवंति फलं तदाल्पाल्पकमाहुरस्य ।।३९ ।।
तस्मात्प्रतिष्ठां विधिना जलादेः कुर्याद्यथेष्टं प्रयतो मनुष्यः ।।
पुण्यार्जनेनैव धनेन काले स्ववित्तसाध्येन शुभाशयेन ।। 2.1.9.४० ।।
प्रसादे मृन्मयं पुण्यं मयैतत्कथितं द्विजाः ।।
तस्माच्चतुर्गुणं प्रोक्तं तृणकाष्ठमये तथा ।। ४१ ।।
तृणमये शतमयं तदर्धं नववल्कले ।।
तस्माद्दशगुणं प्रोक्तं कृते दारुमये भवेत्।। ४२ ।।
ततो दशगुणं प्रोक्तमिष्टिकारचिते शुभे ।।
तस्माच्छतगुणं शैले सहस्रं ताम्ररौप्यके ।। ४३ ।।
ततश्च शतसाहस्रं सौवर्णे द्विजसत्तमाः ।।
अनंतफलमाप्नोति रत्नादि रचिते तथा ।। ४४ ।।
यदतीतं भविष्यच्च कुलानामयुतं नरः ।।
विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम्।। ४५ ।।
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् ।।
अर्धं च वैष्णवं लोकं मोक्षं च लभते क्रमात् ।। ४६ ।।
हस्तानां पोडशैर्यावत्प्रस्थे स्यात्करहीनकम्।।
तृणवंशमये मानं मध्यं चार्ककरं भवेत् ।। ४७ ।।
कनिष्ठं तारहस्तं स्यादुत्तमं पंचविंशतिः ।।
सर्वोत्तमं च द्वात्रिंशच्चतुष्कोणे महाफलम् ।। ४८ ।।
पुरद्वारं च कर्तव्यं चतुरस्रं समं भवेत् ।।
अष्टकोणं न कर्तव्यं त्रिपुरं च कलौ युगे ।। ४९ ।।
सुरवेश्मनि यावंतो द्विजेन्द्राः परमाणवः ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। 2.1.9.५० ।।
कर्तुर्दशगुणं प्रोक्तमापानपरिपालकः ।।
पतितान्युद्धरेद्यस्तु स सर्वं फलमश्नुते ।। ५१ ।।
पतितं पतमानं च तथार्द्धस्फुटितं तथा ।।
समुद्धृत्य हरेर्वेश्म द्विगुणं फलमाप्नुयात् ।। ५२ ।।
पतितस्य तु यः कर्ता पतमानस्य रक्षिता ।।
विष्णोरधितलस्यैव मानवः स्वर्गभाग्भवेत् ।। ५३ ।।
यः कुर्याद्विष्णुप्रासादं ज्योतिर्लिंगस्य वा क्वचित् ।।
सूर्यस्यापि विरिंचेश्च दुर्गायाः श्रीधरस्य च ।। ५४ ।।
स्वयं स्वकुलमुद्धृत्य कल्पकोटिं वसेद्दिवि ।।
स्वर्गाद्भ्रष्टो भवेद्राजा धनी पूज्यतमोपि वा ।। ५५ ।।
देवीलिंगेषु योनौ वा कृत्वा देवकुलं नरः ।।
स्मरत्वं प्राप्नुयाल्लोके पूजितो दिवि सर्वदा ।। ५६ ।।
प्रावृट्काले स्थितं तोयमग्निष्टोमफलं लभेत् ।।
शरत्कालस्थितं तोयं यज्ञतोयाद्विशिष्यते ।। ५७ ।।
निदाघकाले पानीयं यस्य तिष्ठति वापिनः ।।
स्वर्गं गच्छेत्स नरकं न कदाचिदवाप्नुयात् ।। ५८ ।।
एकाहं तु स्थितं तोयं पृथिव्यां द्विजसत्तमाः ।।
कुलानि तारयेत्तस्य सप्त सप्त पराणि च ।। ५९ ।।
पूर्वं पितृकुले सप्त तद्वन्मातृकुले द्विजाः ।।
चतुर्दशमिदं ज्ञेयं शतलेखं ततः शृणु ।। 2.1.9.६० ।।
पितुरूर्ध्वं कुलं विंशं मातुरूर्ध्व कुलं तथा ।।
तद्वत्परं विजानीयाद्भार्यायाः पंच एव च ।। ६१ ।।
पंच वै मातृतश्चास्य पितुर्मातामहे कुले ।।
पंच पंच विजानीयान्मातुर्मातामहस्य च ।। ६२ ।।
गुरोः पितृकुले पंच तस्य मातृकुले तथा ।।
आचार्यस्य कुले द्वंद्वं दशराजकुलस्य च ।। ६३ ।।
राज्ञो मातामहकुले पंच चैव प्रकीर्तिताः ।।
एकोत्तरं शतकुलं परिसंख्यातमेव च ।।६४।।
आत्मना सह विप्रेंद्रा उद्धारः संमतः स्मृतः ।।
कुर्याद्देवार्चनं तीर्थे स्वविमुक्ते दशार्णवे ।।६५।।
समुद्धरेत्कुलशतं शृणु विंशकुलं द्विज ।।
पंच पंच च पित्रोश्च पितुर्मातामहस्य च ।। ६६ ।।
मातुर्मातामहस्यैव जातिं द्वंद्वमुदाहृतम्।।
गुरोः संतानके द्वंद्वं तद्वद्यादवसात्त्वतौ ।।६७।।
परपक्षस्य चैकं स्यादेकविंशं कुलं क्रमात्।।
पानीयमेतत्सकलं त्रैलोक्यं सचराचरम्।। ।। ६८ ।।
पानीयेन विना वृत्तिर्लोके नास्तीति कर्हिचित्।।
वारस्वस्थं पुष्पखंडं तोये पतति यावति ।।६९।।
तावत्कालं वसेत्स्वर्गे चान्ते ब्रह्मत्वमाप्नुयात् ।।
तस्मात्तोयोपरि गृहं प्रसादोपरि वर्जयेत्।।2.1.9.७०।।
सूर्यरश्मियुतं यद्वै तत्तोयं तु विनिंदतम्।।
चंद्ररश्मिविहीनं यन्नामृतत्वाय कल्पते ।।७१।।
तस्माद्दशगुणं कुंडे तस्माद्दशगुणं ह्रदे।।
देवानां स्थापनं कुर्यादविमुक्तफलं शुभम् ।।७२।।
सुस्थितं दुःस्थितं वापि शिवलिंगं न चालयेत् ।।
चालनाद्रौरवं याति न स्वर्गं न च स्वर्गभाक् ।।७३।।
उच्छन्नगरग्रामे स्थानत्यागे च विप्लवे ।।
पुनः संसारधर्मेण स्थापयेदविचारयन्।।७४।।
बाहुदंतादिप्रतिमा विष्णोश्चान्यस्य सत्तमाः।।
न चालयेत्स्थापिते च विप्रवृक्षं न चालयेत् ।।४।।
केशवं हरिवृक्षं च मधूकं किंशुकं तथा।।
नाकाले स्थापयेज्जातु चालनाद्ब्रह्महा भवेत।।७६।।
देवालयस्य पुरतः कुर्यात्पुष्करिणी द्विजाः।।
ब्राह्मणानां समाजे च राजद्वारे चतुष्पथे।।७७।।
देवाथें ब्राह्मणार्थे च मुखं कुर्याच्च सर्वतः ।।
पश्चिमे पुष्टिकामं तु उत्तरे सर्वकामदम् ।। ७८ ।।
याम्ये स्वार्थं न कुर्वीत कोणे तु नरकं भवेत् ।।
मुखं प्रकल्पयेन्मध्ये केचिदुत्तरलंघनम् ।। ७९ ।।
कुर्याद्दक्षिणपूर्वे तु अर्कहस्तप्रमाणतः ।।
तडागे तु फलाहस्तं हस्तिकं ह्रासयेत्क्रमात् ।। 2.1.9.८० ।।
तृप्ये हस्तं नलिन्यादावतो हीनं न कारयेत् ।।
गर्ततृणं कलाहस्तं तडागेऽत्र प्रचक्ष्यते ।। ८१ ।।
हीने हीनतरं कुर्याद्धस्तमानेन ह्रासयेत् ।।
यूपस्तथा खादिर एव कार्यः श्रैपर्णिको धात्रिसमुद्भवश्च ।।
मानस्तथा षोडशहस्तसम्मितो रत्नात्सगण्डीयुगकामयोजितैः ।। ८२ ।।
आनाहभग्ने च भवेच्च तस्य विंशां गुलो द्विगुणो मध्यगश्च ।।
मध्येंऽगुलैश्च हीनः कार्यः शुभदः सर्वदा स्यात् ।। ८३ ।।
एवंविधश्चैव तडागयूपो मध्ये तथा षोडशहस्तसंमितः ।।
कूपे च यूपोप्यथ हस्तमात्रस्ततश्चतुर्हस्तमितः प्रकीर्तितः ।। ८४ ।।
आरामयोगेऽप्यथ मण्डपे च कार्यश्चतुर्हस्तमितोऽथ यूपः ।।
संपूर्णमाने कथितं प्रमाणं हीने तु हीनं प्रवदंति तज्ज्ञाः ।।
हस्तद्वयं प्रापितव्यं तडागे हस्तः सार्धः पुष्करिण्यां प्ररोपः ।।८५।।
प्रादेशं वै हस्तमानं कूपयूपस्य रोपतः ।।
न कुर्याज्जलमग्नं च यूपं सर्वत्र सत्तमाः ।। ८६ ।।
तडागे चापि आरामे स्थापयेच्च जलोपरि ।।
हस्तमर्धं तदर्धं स्यान्मानेनानेन दापयेत् ।।
वाप्यां गर्ते पुष्करिण्यां प्रकुर्याज्जलसंमितम् ।। ८७ ।।
यावत्प्रतोलीगतरेणुसंगसंख्यागणो नो जरतामुपैति ।।
तावत्सुरेशः सुरलोकवासी प्रासादकृज्जातु न जायते हि ।।८८।।
किं वा वाच्यः पुष्करिण्या प्रभावः कर्ता यः स्याद्वारुणो ब्रह्मलोकात् ।।
यावत्कालो बाहुमात्रोद्धता स्याद् दृष्टिःप्रोक्ता न निवर्तेत्कदाचित् ।। ८९ ।।
लक्षैकमाराममयोत्तमः स्यान्मध्यं तदर्धं च कनिष्ठमानम् ।।
तदर्धं वा प्रशस्तं तदनन्यं मुनयो वदंति ।।
विनार्जुनैर्बदरैः शैलुकैश्च हीनं कुर्याच्छानलैः पातिलैश्च ।। 2.1.9.९० ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पूर्तनिर्णयो नाम नवमोऽ ध्यायः ।। ९ ।।.