भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०७

विकिस्रोतः तः

गुरुवर्णनम्

।। सूत उवाच ।। ।।
समाख्यामीह विप्रेंद्रा इतिहासं पुरातनम् ।।
श्रवणेपि च धर्मात्मञ्छ्रूयतां यन्मया पुरा ।। १ ।।
पृष्टोवोचन्महातेजा विरिंचो भगवान्प्रभुः ।।
हंत ते कथयाम्येष पुराणश्रवणे विधिम् ।। २ ।।
इतिहासपुराणानि श्रुत्वा भक्त्या द्विजोत्तमाः ।।
मुच्यते सर्वपापेभ्यो ब्रह्महत्याशतं च यत् ।। ३ ।।
सायं प्रातस्तथा रात्रौ शुचिर्भूत्वा शृणोति यः ।।
तस्य विष्णुस्तथा ब्रह्मा तुष्यते शंकरस्तथा ।। ४ ।।
प्रत्यूषे भगवान्ब्रह्मा दिनांते तुष्यते हरिः ।।
महादेवस्तथा रात्रौ शृण्वतां पठतां नृणाम्।।५।।
शुक्लवस्त्रधरश्चैव चैलाजिनकुशोत्तरः ।।
प्रदक्षिणत्रयं कुर्याद्या तस्मिन्देवता गुरौ ।।६।।।
नात्युच्छ्रितं नातिनीचं स्वासनं भजते ततः ।।
दिक्पतिभ्यो नमस्कृत्य ऊँकाराधिष्ठितानपि ।। ७ ।।
पुस्तकं धर्मशास्त्रस्य धर्माधिष्ठानशाश्वतम् ।।
आगमानां शिवो देवस्तंत्रादीनां च शारदा ।। ८ ।।
जामलानां गणपतिर्डामराणां शतक्रतुः ।।
नारायणो भारतस्य तथा रामायणस्य च ।। ९ ।।।
वासुदेवो भवेद्देवः सप्तानां शृणु सत्तम ।।
आदित्यो वासुदेवश्च माधवो रामकेशवौ ।। 2.1.7.१० ।।
वनमाली महादेवः सप्तानां सप्तपर्वसु ।।
विष्णुधर्मादिकानां च शिवो ज्ञेयः सनातनः ।।
अथ चादिपुराणस्य विरिंचिः परिकीर्तितः ।। ११ ।।
शुद्धौदनं यवक्षीरं पायसं कृशरं तथा ।।
कृशरान्नं च वा दद्यात्क्रमाद्बलिगणं विदुः ।। १२ ।।
शालिभक्तं सगोधूमं तिलाक्षतविमिश्रितम् ।।
गव्यं च सफलं चैव देयश्चैभ्यस्त्वयं बलिः ।।१३।।
पृथक्पृथक्चैव कांस्ये विन्यसेद्दिक्षु मध्यतः ।।
पठेच्चापि विधानेन स यागः षण्मयः परः ।।१४।।
शीतोदकं मधु क्षीरं सितेक्ष्वोश्च रसो गुडः।।
सगर्भश्च परो ज्ञेयः षण्मयश्चापरो बलिः ।। १५ ।।
शालितंडुलप्रस्थं तु तदर्धं वा तदर्धकम् ।।
क्षीरेणापि च संभक्तं यवक्षीरमिदं स्मृतम् ।। १६ ।।
क्षीरं भागाष्टकं ग्राह्यं सप्तभागेन संस्थितम्।।
हैमंतिकं सिताख्यं च तांडुलं प्रपचेच्चरुम् ।। १७ ।।
अशीतिपलमानेन सिद्धमासादयेत्ततः ।।
भागार्धेन ददेत्पश्चान्माक्षिकं वा सितामपि ।। १८ ।।
गुडमिश्रेण यो दद्यात्संपर्को जायते क्वचित् ।।
संपृक्तं माक्षिकेणापि दद्यादिक्षुरसं बुधः ।।
गृहीत्वा याचकः शुद्धः शृणुत द्विजसत्तमाः ।। १९ ।।
शृणुते वाधीयानो यो दद्याद्धस्ते च पुस्तकम् ।।
समुत्थाय च गृह्णीयात्प्रणम्य विनिवेदयेत् ।। 2.1.7.२० ।।
पूर्वस्थः श्रावको विप्रो विख्यातस्तस्यदक्षिणे ।।
पश्चिमाशामुखेनैव तर्जन्यांगुष्ठया सह ।।२१।।
प्रस्तरेणापि हस्तेन विन्यासः पंडितैः सदा ।।
इतोन्यथा न कर्तव्यः कृत्वा न्यासमथाप्नुयात् ।।२२।।
असकृद्विन्यसेद्विप्राः पावमानीं जले जपेत् ।।
वेदांतागमवेदांतविधिरेष स्मृतो बुधैः ।।२३।।
यमदिक्संमुखे श्रोता वाचकश्चोत्तरामुखः ।।
पुराणभारताख्यान एष वै कथितो विधिः ।।२४।।
वैपरीत्येन विधिना विज्ञेयो द्विजसत्तमाः ।।
रामायणे धर्मशास्त्रे हरिवंशे च सत्तमाः ।। २५ ।।
इतोऽन्यथा यातुधानाः प्रलुंपंति फलं यतः ।।
तस्माद्विधिविधानेन शृणुयादथ वा पठेत् ।। २६ ।।
श्रुत्वा प्रति पुण्यविद्यां योऽश्नीयान्मांसमेव तु ।।
स याति गार्दभीं योनिं यदि मैथुनिनः क्वचित् ।। २७ ।।
यदि देवालये तीर्थे वाचयेच्छृणुयादथ ।।
यस्य देवगृहे तस्य तस्य तीर्थस्य वर्णनम् ।।२८।।
माहात्म्यश्रवणादेव गोदानस्य फलं लभेत्।।
महागुरोश्च माहात्म्यं पित्रोरग्रे न च स्मरेत् ।।
पितुर्माहात्म्यं यत्पुत्रैर्वाच्यं संसदि पर्वणि ।। २९ ।।
वासुदेवामतश्चापि रुद्रमाहात्म्यवर्णनम् ।।
रुद्राग्रे वासुदेवस्य कीर्तनं पुण्यवर्धनम् ।। 2.1.7.३० ।।
दुर्गाग्रे शिवसूर्यस्य वैष्णवाख्यानमेव च ।।
यः करोति विमूढात्मा गार्दभीं योनिमाविशेत् ।। ३१ ।।
गुरोरनुज्ञया पित्रोः प्रकुर्यादभिवादनम् ।।
अनुज्ञया तथा पित्रोर्हरेः कुर्यात्प्रदक्षिणम् ।। ३२ ।।
न विष्णुर्न च ब्रह्मा च न च रुद्रः शचीपतिः ।।
सर्ववेदेन तत्तुल्यं सर्वधर्मपरायणम् ।। ३३ ।।
सर्वज्ञानमयं चैव सर्वज्ञेन च तत्समम् ।।
तस्माद्द्विजन्मन्पित्रोर्हि सेवनाद्ब्रह्मशाश्वतम् ।।३४।।
गुरुभ्यो वंदनं व्यर्थ पितरं यो न तर्पयेत् ।।
जीवन्न तर्पयेन्मुख्यं गंगायां मरणेपि च ।।
उभयोस्तर्पणं नास्ति जीवन्नपि न जीवति ।। ३५ ।।
पुराणश्रवणं पुण्यं शून्यं भागवतं यदि ।।
व्यर्थं भागवतं विप्रा नारसिंहविहीनकम् ।। ।। ३६ ।।
आदिपर्वणि हीने तु भारताख्यं न धारयेत् ।।
विनाश्वमेधिकं विप्रा विना यज्ञाननं विना ।। ३७ ।।
दानकर्मविहीनं च मोक्षधर्मं न धारयेत ।।
भारतं च दिवारोहधारणादौ वरं व्रजेत् ।। ३८ ।।
वायुपुराणमश्रुत्वा शास्त्रं च यौगिकं विना ।।
वायुहीनं देहिकुलं वृथा तस्य न धारकम् ।। ३९ ।।
तथा वायुपुराणं यद्विहीनं श्रव्यमन्यकम् ।।
यथा सुन्दरकांडेन आरण्यं च न धारयेत ।। 2.1.7.४० ।।
लंकां विना चादिकांडं तल्लिखित्वा न धारयेत् ।।
पाराशरं विना व्यासं याज्ञवक्त्यं विना मखम् ।। ४१ ।।
दक्षं विना न शंखं च शंखहीनं बृहस्पतिम् ।।
वह्नीयं श्रवणाद्येन न च युक्तिमथापयेत् ।। ४२ ।।
संस्थापनादेव विना न च किमपि राक्षसैः ।।
न ददेत्प्रार्थकादिभ्यो न विक्रीयेत्कथंचन ।। ४३ ।।
न हरेत्पुस्तकं चापि न हरेदक्षराणि षट् ।।
ब्रह्माक्षरस्य हरणाद्रौरवान्न निवर्तते ।।४४।।
आद्याक्षरस्य हरणात्ताम्रकुष्ठी भवेदिह ।।
मुखवृत्तस्य हरणाद्यावदाचंद्रतारकम्।। ।।४५।।
कुवले असिपत्रे च पततीह न संशयः ।।
स्वाक्षरस्य हरणे स्वमातृहरणेऽपि यत् ।।४६।।
तस्मात्पुस्तकमात्रं यो हरेन्नरकमाप्नुयात् ।।
यद्भारतं यत्पुराणं स्तोत्ररूपाणि तानि च ।। ४७ ।।
तानि वेदागमादीनि पुस्तकेष्वपि वाचयेत् ।।
वेदानां पुस्तकं यत्र लिखित्वा तन्न वाचयेत् ।। ।। ४८ ।।
तथा तन्त्रोदितान्मंत्राँल्लिखित्वा तन्न वाचयेत् ।।
पुस्तकं निगमानां च मन्त्रव्याख्यानसंग्रहम् ।। ४९ ।।
स्फुटं कृत्वा पुरः स्थाप्य यावत्कालं प्रवर्तते ।।
तावत्स नरके घोरे प्रेतत्वं जन्मजन्मनि ।। 2.1.7.५० ।।
न वाचयेच्च व्याख्याता वाचकोऽपि प्रवाचयेत् ।।
पौष्करे च श्लोक पादमाश्वमेधं पदेपदे ।। ५१ ।।
वेदार्थं वाचयेद्यस्माद्विपरीतोऽपवाचकः ।।
तावुभौ पतितौ ज्ञेयौ पावमानीशतं जपेत्।। ५२ ।।
आदिमध्यावसाने च मन्त्रे च प्रणवं दिशेत् ।।
बलिभिर्गंधपुष्पैश्च पुस्तकं देवनिर्मितम् ।। ५३ ।।
त्रिदेवं पुस्तकं विद्यात्सूत्रं वासुकिरुच्यते ।।
अमानकरणे दोषस्तस्मात्तच्च न हापयेत् ।। ५४ ।।
पत्राणि भगवान्ब्रह्मा ऊर्ध्वदीर्घाणि यानि च ।।
जनार्दनश्चाक्षराणि मात्रा प्रकृतिरव्यया ।। ५५ ।।
लिपी भंगी महेशः स्यात्तस्या मात्रा सरस्वती ।।
एकरेखा च एकात्मा पादाच्च पादविच्युतिः ।। ५६ ।।
चतुष्पादांतरे युग्मं मध्यमोंऽते युगं युगम् ।।
विपत्करं युग्मपंक्तावयुग्मे स्वर्गसाधनम् ।। ५७ ।।
भारते चेतिहासे च पुराणे द्विजसत्तमाः ।।
अयुग्मपंक्तौ स्वर्गः स्याद्युग्मे नरकमाविशेत् ।। ।। ५८ ।।
वक्तृनामाक्षरैर्युक्तं पंक्तिभेदेन सत्तमाः ।।
उपन्यस्तस्य यन्नाम तत्कलौ मात्रया सह ।। ५९ ।।
आत्मसंशुद्धिसंशुद्ध्या धारयेद्धर्म संहिताम् ।।
इतोऽन्यथा भवेद्दोषस्तस्मात्तत्परिवर्जयेत् ।। 2.1.7.६० ।।
रिपुः सूर्यस्तयारामो यक्षोऽनंतः सरस्वती ।।
ब्राह्मी च यक्षिणी चैव गायत्री नवमी स्मृता ।। ६१ ।।
विष्ण्वन्ते च भवेन्मुक्तिः सूर्यांऽते पादविच्युतिः ।।
रिपुंकरं भवेत्तस्य यक्षे दुर्गतिमादिशेत् ।। ६२ ।।
अनंते विपुला कीर्तिः सरस्वत्यां धनागमः ।।
ब्राह्म्या ब्रह्मत्वमाप्नोति यक्षिण्या यक्षमन्दिरम् ।। ६३ ।।
मुक्तिमाप्नोति गायत्र्या इति पंक्तिफलोदयः ।।
चतुर्धा प्रतिभक्तिः स्यात्पुस्तकं धर्मनिर्मितम् ।। ६४ ।।
ब्रह्मेन्द्रवैष्णवं शैवं शाक्तिकं च महेश्वरी ।।
ब्रह्मरूपं चेतिहासमैंद्रं रामायणात्मकम्।।६५।।
वैष्णवं परमं दैवं यच्छैवं तल्ललाटकम् ।।
पावकोऽस्य तथा मूले मध्ये भागे शतक्रतुः ।। ६६ ।।
अग्रे स्थिता ग्रहाः सर्वे दिशामीशास्तथा द्विजाः ।।
मेरुः सुमेरुरुद्दिष्टः संगवान्काम उच्यते ।। ६७ ।।
द्वावापृथिव्यौ पातालं तस्यांतः समुदाहृतम् ।।
पौराणिककथायुक्तपुस्तको देवपूजितः ।। ६८ ।।
न शस्यः पूजनीयश्च गृहे स्थाप्येत मानवः ।।
यो यस्मै शूद्रो विप्राय वृत्तिं दद्याच्च मानवः ।। ६९ ।।
स याति ब्रह्मसदनं मणिवर्त्मादिकुट्टिमम् ।।
न शस्यः पूजनीयश्च गृहे स्थाप्येत मानवः ।।2.1.7.७०।।
पत्राणामग्रभागे तु वेधं कुर्यात्सुवर्तुलम् ।।
श्रवणात्तत्र मात्रेण तत्र पद्मं च वर्तुलम् ।। ७१ ।।
संहितागमतन्त्रेषु प्रतिवेधे च संकुलम् ।।
प्रकुर्याच्चित्ततापेन ततः शक्रपुरं व्रजेत् ।। ७२ ।।
मध्यं तस्य हरेदायुः पार्श्ववेधः शिवं हरेत् ।।
युग्मवेधे जयं दद्यादेकवेधे बलिर्भवेत् ।।७३।।
परमं प्रकृतेर्गुह्यं स्थानं देवैर्विनिर्मितम् ।।
पूरयेत्ताम्रलिंगेन अथ रैत्यमयेन वा ।।७४।।
अशक्तो बिल्वकाष्ठस्य तथा श्रीपर्णिकस्य च ।।
न काष्ठस्य नवं शस्यं न लौहं योजयेत्क्वचित् ।। ७५ ।।
प्रागारंभश्लोकशतं धर्मशास्त्रस्य वै लिखेत् ।।
संहितायां पुराणायां युग्मकल्पं तदर्धकम्।। ७६ ।।
ब्रह्मचर्येण विलिखेन्न मोहाद्ब्रह्मणः क्वचित् ।।
तथापि चाखिलव्यास लेखनात्संततिक्षयः ।। ७७ ।।
अनामात्वे हेमयुतां बलाकं चित्तमेव च ।।
न लिखेत्खिलभागं च हरिवंशस्य सत्तमाः ।। ७८ ।।
गारुडस्य च स्कान्दस्य न लिखेन्मध्यतन्त्रकम् ।।
लेखनं हरिवंशस्य व्रतस्थो नियमैर्युतः ।। ७९ ।।
गृहस्थो न लिखेद्ग्रंथं लिखेच्च मथुरां विना ।।
लेखने पारिजातस्य मत्स्य मांसाशिनं लिखेत् ।। 2.1.7.८० ।।
वाल्मीकिसंहितायाश्च लेखने च तथा क्वचित् ।।
स्तोत्रमात्रं लिखेद्विप्रा अव्रती न लिखेत्क्वचित् ।। ८१ ।।
अब्राह्मणेन लिखितं निष्फलं परिकीर्तितम्।। ८२ ।।
पतितैरपि पाखंडैर्न स्त्री विलिखति क्वचित् ।।
दुर्विचारो दुष्टभार्यो दुर्मतिश्चापि लेखकः ।।
न लिखेद्धर्मशास्त्रं च पुराणं स्तोत्रसंहितम् ।। ८३ ।।
तच्च प्राप्नुवन्कर्तव्यं सुवर्णरजतस्य च ।।
कज्जलैर्मलिनं कुर्यान्मन्त्री निर्यासमंत्रितैः ।। ८४ ।।
जीवन्त्याश्च रसैर्युक्तैर्मणिकर्दमलोलुपैः ।।
वंगुन्यान्मुख्यायुतैर्वापि पीतयोगैरथापि वा ।। ८५ ।।
कृष्णे वायुप्रदं विद्यात्पीते वायुक्षयो भवेत् ।।
रक्ते पुष्टिमवाप्नोति कृष्णे च संपदागमः ।।८६।।
इतिहासपुराणानां विलिखेद्यन्मुखाच्छृणु ।।
वायव्यादिमुखेनैव काष्ठवेदं च संलिखेत् ।। ८७।।
पूर्वामुखे चार्थहानिरुत्तरे च मुखे श्रियः ।।
मरणं दक्षिणास्ये तु पश्चिमास्ये धनक्षयः ।।८८।।
पितृमेधे भुवः कंपे न लिखेज्जन्मवासरे ।।
अशौचे मृतके सूतावमायां रविसंक्रमे ।। ८९ ।।
अत्र लेखाद्दरिद्रः स्यात्तथा पुत्रविनाशनम् ।।
बलधर्मं क्षयं चैव तस्माद्यत्नेन वर्जयेत् ।। 2.1.7.९० ।।
पितृश्राद्धदिने लेखः कुलक्षयकरो भवेत् ।।
एकरात्रं भुवः कंपे तस्मिँल्लेखे धनक्षयः ।।९१।।
अशोचेऽपि दरिद्रः स्याज्जन्माहे चायुषः क्षयः ।।
लिपिच्छंदः पदज्ञश्च युवा धीमाञ्जितासनः ।।९२।।
द्रुतलेखी च तेजस्वी यो लेखयति लेखकः ।।
असंवलितभावेन ऊर्ध्वोर्ध्वे स्यात्समाक्षरम् ।।९३।।
लिपियुक्तः समायुक्तः एवागमलेखकः ।।
नांदीनागरकैर्वर्णैः शुद्धनागरकैरपि ।। ९४ ।।
कामरूपाक्षरैर्वापि यावच्च संहितागणः ।।
अचेतनेन लिखितं यावत्कालं प्रवर्तते ।। ९५ ।।
यावदक्षरसंस्थानं तावत्स्वर्गे महीयते ।।
अनुक्तो वाचयेद्यस्तु धर्मशास्त्रस्य वेतनम् ।। ९६ ।।
लिखित्वा यस्तु पापात्मा यावदक्षर संख्यया ।।
तावत्कालं तु नरके पच्यते नात्र संशयः ।। ९७ ।।
कुटुंबभरणार्थं तु गृह्णीयाद्वापि वेतनम् ।।
न जीवति स दुष्टात्मा धनवस्त्रफलान्वितः ।। ९८ ।।
पतितैरंत्यजैर्म्लेच्छै रोगी कुष्ठी क्षयी तथा ।।
रोगी शिलीपदैश्चैव मूकोऽपि धर्मसंहतः ।। ९९ ।।
एतैर्विलिखितं यच्च धारयेन्न गृहाश्रमी ।।
अनायुष्यकरं यस्मात्तस्मात्तत्परिवर्जयेत् ।। 2.1.7.१०० ।।
हीनांगा प्रतिमा चैव पुस्तकं मानहीनकम् ।।
न कलौ धारयेद्देह अनायुष्यकरं भवेत् ।। १०१ ।।
द्वात्रिंशदगुलैर्युक्तं कर्तव्यं पुस्तकोत्तमम् ।।
स वै नारायणः ख्यातो धारणाच्च कुतोऽप्यलम् ।। १०२ ।।
चतुविशांगुलं यच्च तद्वै स्वधनमुच्यते ।।
शंकरः स तु विज्ञेयो धर्मकामफलप्रदः ।। १०३ ।।
अष्टांगुलं भवेद्यच्च तत्कनिष्ठमिहोच्यते ।।
तस्माद्ब्रह्ममयं ज्ञेयं त्रिवर्ग फलदायकम् ।। १०४ ।।
ताडिता जलपत्रे च अथ वा चागुरुत्वचि ।।
एत्याः पत्रकृते मानं भूर्जे मानं न विद्यते ।। १०५ ।।
द्वादशांगुलकं यच्च भूर्जतैडादिनिर्मितम् ।।
अंगुलानां प्रमाणं यत्तेनापि ज्ञानपुस्तकम् ।। १०६ ।।
हस्तसंस्थापिते तस्य तेनायुष्यकरं भवेत् ।।
धर्मशास्त्रस्य साहस्रे धर्मशास्त्रस्य वेतनम् ।। १०७ ।।
स्वर्गमार्गस्य गमने भारते च तदर्धकम् ।।
हरिवंशे स्वर्णमाने कृते मूल्यसहस्रके ।। १०८ ।।
युगेयुगे पादहीनं धर्मं कुर्याद्यथारुचि ।।
प्रणम्य शिरसा सर्वान्व्यासादीन्संहिताश्रुतान् ।। १०९ ।।
जैमिनिं च ततो व्यासं शंकरं च तथा हरिम् ।।।
नमस्कारमथैषां तु आदिमध्यावसानके ।। 2.1.7.११० ।।
ततः प्रवाचयेद्विप्रो धर्मशास्त्रार्थकोविदः ।।
अलक्षितमनास्तद्वद्यद्रूपं स्पष्टमुच्चरन्।। १११ ।।
असंयुक्ताक्षरपदं स्पष्टभागसमन्वितम् ।।
सप्तस्वरसमायुक्तं सप्तनादविभूषितम् ।। ११२ ।।
सामगाथाः समाश्रित्य रागयुक्तांतरं पठेत्।।
मणिवारो धनं यत्स्याद्गौरांधां संतिकस्तथा ।। ११३ ।।
श्रीरागश्चैव हिल्लोलरागो वाजाविकस्तथा ।।
एवं प्रक्रममाणेन शृणुयाद्धर्मसंहिताः ।। ११४ ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि विशेषतः ।।
अश्वमेधमवाप्नोति सर्वान्कामानवाप्नुयात् ।।
पापैः प्रमुच्यते सर्वैर्महापुण्यं च विंदति ।। ११५ ।।
शूद्राणां पुरतो वैश्यो वैश्यानां क्षत्रियः परः ।।
क्षत्रियांते तथा विप्राः शृणुयुश्चाग्रतः सदा ।। ११६ ।।
न शूद्रः कथयेद्धर्मांस्तपअध्यापने तथा ।।
नैहिकत्वं परत्वं च न शुभं न परां गतिम् ।। ११७ ।।
शूद्रेणाधिगतं नास्ति विशेषाच्छब्दलक्षणम् ।।
यद्द्विजस्य कृतो दासो ब्रह्मणाऽव्यक्तयोनिना ।।११८।।
श्वशृगालखरीक्षीरमपेयं हि यथा भवेत् ।।
एवं शूद्रमुखाद्धर्मा न ग्राह्याः शब्दसंस्कृताः ।।११९।।
अमेध्यं शुध्यते तोयैः शूद्रः श्रोता हि शुध्यति ।।
एवं शूद्रोऽप्यशुचिः स्याद्यदि व्याकरणार्थवित् ।।2.1.7.१२०।।
यः शूद्र उद्दिशेद्धर्मं तथा चागमवैदिकम् ।।
स वै वध्यो नरेंद्रेण जिह्वां चक्रेण छेदयेत् ।। ।।। १२१ ।।
बुध्यमानः सदा ह्यर्थं ग्रंथार्थं कृत्स्नमेव च ।।
य एवं कथयेत्सम्यक्स विप्रो व्यास उच्यते ।। १२२ ।।
वसेत्स पत्तने ग्रामे पुण्ये देशे स कीर्तितः ।।
ते धन्यास्ते कृतात्मानस्ते कृतार्था न संशयः ।।
वसंति पत्तने तस्मिन्व्याख्याता यत्र संवसेत् ।। १२३ ।।
यथार्कहीनं दिवसश्चंद्रहीना यथा निशा ।।
न रराज सभा तद्वद्व्यासेन रहिता द्विजाः।।१२४।।
यद्गृहे नैव शिशवो न रराज गृहं क्वचित् ।।
यथैकतो ग्रहाः सर्वे एकतस्तु दिवाकरः ।।
तथैव सोदर गेहे दृष्ट्वा पुष्करदर्शनम् ।। १२५ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे सप्तमोऽध्यायः ।। ७ ।।