भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०५

विकिस्रोतः तः

कर्मानुसारव्यक्तिनिर्धारणवर्णनम्

।। सूत उवाच ।। ।।
त्रयाणामेव वर्णानां जन्मतो ब्राह्मणः प्रभुः ।।
संसृष्टा ब्राह्मणाः पूर्वं तपस्तप्त्वा द्विजोत्तमाः ।। १ ।।
हव्यानामिह कव्यानां सर्वस्यापि च गुप्तये ।।
अश्नंति च मुखेनास्य हव्यानि त्रिदिवौकसः ।। २ ।।
कव्यानि चैव पितरः किं भूतमधिकं ततः ।।
जन्मना चोत्तमोऽयं च सर्वार्चा ब्राह्मणोऽर्हति ।। ३ ।।
स्वकीयं ब्राह्मणो भुंक्ते विदधाति द्विजोत्तमाः ।।
त्रयाणामिह वर्णानां भावाभावाय वै द्विजः ।। ४।।
भवेद्विप्रो न संदेहस्तुष्टो भावाय वै भवेत् ।।
अभावाय भवेत्क्रुद्धस्तस्मात्पूज्यः सदा हि सः ।। ५ ।।
गर्भाधानादयश्चेह संस्कारा यस्य सत्तमाः ।।
चत्वारिंशत्तथा चाष्टौ निर्वृत्ताः शास्त्रतो द्विजाः .।।
स याति ब्रह्मणः स्थानं ब्राह्मणत्वेन संयुतः ।। ६ ।।
संस्कारपूतः प्रथमो वेदपूतो द्वितीयकः ।।
विद्यापूतस्तृतीयः स्यात्तीर्थपूतस्त्वनंतरम् ।। ७ ।।
क्षेत्रपूतं प्रविज्ञाय विपूतं पूजयेद्द्विजाः ।।
स्वर्गापवर्गफलदमन्यथा श्रमतामियात ।। । ८ ।।
पूतानां परमः पूतो गुरूणां परमो गुरुः ।।
सर्वसत्त्वान्विता विप्रो निर्मितो ब्रह्मणा पुरा ।। ९ ।।
पूजयित्वा द्विजान्देवाः स्वर्गं भुञ्जंति चाक्षयम्।।
मनुष्याश्चापि देवत्वं स्वंस्वं राज्यं गतेन सः ।। 2.1.5.१० ।।
यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदति ।।
तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात् ।। ११ ।।
यस्माद्विष्णुमुखाद्विप्रः समुद्भूतः पुरा द्विजाः ।।
वेदास्तत्रैव संजाताः सृष्टिसंहारहेतवः ।। १२ ।।
तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि ।।
पूजार्थं ब्रह्मलोकानां सर्वज्ञानार्थतो ध्रुवम् ।। १३ ।।
पितृयज्ञविवाहेषु वह्निकार्येषु शांतिषु ।।
प्रशस्ता ब्राह्मणा नित्यं सर्वस्वस्त्ययनेषु च ।। १४ ।।
देवा भुञ्जंति हव्यानि बलिं प्रेतादयोऽसुराः ।।
पितरो हव्यकव्यानि विप्रस्यैव मुखाद् ध्रुवम् ।। १५ ।।
देवेभ्यश्च पितृभ्यश्च यो ददयाद्यज्ञकर्मसु ।।
दानं होमं बलिं चैव विना विप्रेण निष्फलम् ।। १६ ।।
विना विप्रं च यो धर्मः प्रयासफलमात्रकः ।।
भुञ्जते चासुरास्तत्र प्रेता भूताश्च राक्षसाः ।। १७ ।।
तस्माद्ब्राह्मणमाहूय तस्य पूजां च कारयेत् ।।
काले देशे च पात्रे च लक्षकोटिगुणं भवेत् ।। १८ ।।
श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्।।
दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरः ।। १९ ।।
अनभिवादिनां विप्रे द्वेषादश्रद्धयापि च ।।।
आयुः क्षीणं भवेत्पुंसां भूमिनाशश्च दुर्गतिः ।। 2.1.5.२० ।।
आयुर्वृद्धिर्यशोर्वृद्धिर्वृद्धिर्विद्याधनस्य च ।।
पूजयित्वा द्विजश्रेष्ठान्भवेन्नास्त्यत्र संशयः ।।। ।। २१ ।।
न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिगर्जितानि ।।
स्वाहास्वधास्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ।। २२ ।।
षद्विंशतिदोषमाहुर्नरा नरकभीरवः ।।
विमुच्यैव वसेत्तीर्थे ग्रामे वा पत्तने वने ।। २३ ।।
ते स्वर्गे पितृलोके च ब्रह्मलोकेष्ववस्थिताः ।। २४ ।।
अन्यथा न वसेद्वासस्तस्मात्स्तेयी न पालयेत् ।।
अधर्मो विषमश्चैव पशुश्च पिशुनस्तथा ।। २५ ।।
पापिष्ठो नष्टकष्टौ च रुष्टो दुष्टश्च मुक्तकः ।।।
हृष्टः कुण्ठश्च अन्धश्च काणश्चैव तथापरः ।। २६ ।।
चण्डः खण्डश्च वक्ता च दत्तस्यापहरस्तथा ।।
नीचः खलश्च वाचालः कदर्यश्चपल स्तथा ।। २७ ।।
मलीमसश्च ते दोषाः षड्विंशतिरमी मताः ।।
एतेषां चापि विप्रेन्द्राः पञ्चाशीतिर्निगद्यते ।। २८ ।।
शृणुध्वं द्विजशार्दूलाः शास्त्रेस्मिन्ब्रुवतः क्रमात् ।।
अधमोऽत्र त्रिधाविद्याद्विषमः स्याद्विधोचितः ।।२९।।
पशुश्चतुर्विधश्चैव कृपणोपि हि वै द्विधा ।।
द्विधाथापि च पापिष्ठो नष्टः सप्तविधः स्मृतः ।। 2.1.5.३० ।।
कष्टः स्यात्पञ्चधा ज्ञेयो रुष्टोपि स्याद्द्विधा द्द्विजाः ।।
दुष्टः स्यात्षड्विधो ज्ञेयः पुष्टश्चैव भवेद्द्विधा ३१ ।।
हृष्टश्चाष्टविधः प्रोक्तः कुण्ठश्चैव त्रिधोदितः ।।
अन्धः काणश्च तौ द्वौ द्वौ स्याद्वै च सगुणोऽगुणः ।। ३२ ।।
द्वौ चण्डौ चपलश्चैकावण्डचण्डो द्विगुर्भवेत् ।।
दण्डपण्डौ तथा ज्ञेयौ खलनीचौ चतुर्द्वयम् ।। ३३ ।।
वाचालश्च कदर्यश्च क्रमात्त्रिभिरुदाहृतः ।।
कदर्यश्चपलश्चैव तथा ज्ञेयो मलीमसः ।। ३४ ।।
द्वावेकौ चतुरश्चैव स्तेयी चैकविधो भवेत् ।।
पृथग्लक्षणमेतेषां शृणुध्वं द्विजसत्तमाः ।। ३५ ।।
सम्यग्यस्य परिज्ञानं नरो देवत्वमाप्नुयात् ।।
उपानच्छत्रधारी च गुरुदेवाग्रतश्चरन् ।। ३६ ।।
उच्चासनं गुरोरग्रे तीर्थयात्रां करोति यः ।।
यानमारुह्य विप्रेन्द्राः सोप्येकत्राधमो मतः ।। ३७ ।।
निमज्ज्य तीर्थे विधिवद्ग्राम्यधर्मेण वर्तयन् ।।
द्वितीयश्चाधमः प्रोक्तो निंदितः परिकीर्तितः ।। ३८ ।।
वाचैव मधुरा श्लक्ष्णा हृदि हालाहलं विषम् ।।
वदत्यन्यत्करोत्यन्यद्द्वावेतौ विषमौ स्मृता ।। ३९ ।।
मोक्षचिन्तामतिक्रम्य योऽन्यचिन्तापरिश्रमः ।।
हरिसेवा विहीनो यः स पशुर्योनितः पशुः ।।2.1.5.४०।।
प्रयागे विद्यमानेऽपि योऽन्यत्र स्नानमाचरेत् ।।
दृष्टं देवं परित्यज्य अदृष्टं भजते तु यः ।।४१।।
आयुषस्तु क्षयार्थाय शास्त्रेयमृषिसंमतः ।।
योगाभ्यासं ततो हित्वा तृतीयश्चाधमः पशुः ।। ४२ ।।
बहूनि पुस्तकानीह शास्त्राणि विविधानि च ।।
तस्य सारं न जानाति स एव जंबुकः पशुः।। ४३ ।।
बलेन च्छलछद्मेन उपायेन प्रबंधनम् ।।
सोऽपि स्यात्पिशुनः ख्यातः प्रणयाद्वा द्वितीयकः ।। ४४ ।।
मधुरान्नं प्रतिष्ठाप्य दैवे पित्र्ये च कर्मणि ।।
म्लानं चापि च तिक्तान्नं यः प्रयच्छति दुर्मतिः ।। ४५ ।।
कृपणः स तु विज्ञेयो न स्वर्गी न च मोक्षभाक् ।।
कुदाता च मुदा हीनः सक्रोधस्तु यजेत यः ।। ४६ ।।
स एव कृपणः ख्यातः सर्वधर्मबहिष्कृतः ।।
अदोषेण शुभत्यागी शुभकार्योपविक्रयी ।। ४७ ।।
पितृमातृगुरुत्यागी शौचाचारविवर्जितः ।।
पित्रोरग्रे समश्नाति स पापिष्ठतमः स्मृतः ।।४८ ।।
जीवत्पितृपरित्यक्तं सुतं सेवन्न वा क्वचित् ।।
द्वितीयस्तु स पापिष्ठो होमलोपी तृतीयकः ।। ४९ ।।
साध्वाचारं च प्रच्छाय सेवनं चापि दर्शयेत् ।।
स नष्ट इति विज्ञेयः क्रयक्रीतं च मैथुनम् ।। 2.1.5.५० ।।
जीवेद्देवलवृत्तिर्यः भार्याविपणजीवकः ।।
कन्याशुल्केन जीवेद्वा स्त्रीधनेन च वा क्वचित् ।। ५१ ।।
षडेव नष्टाः शास्त्रे च न स्वर्गमोक्षभागिनः ।।
सदा क्रुद्धं मनो यस्य हीनं दृष्ट्वा प्रकोपवान् ।। ५२ ।।
भ्रुकुटीकुटिलः क्रुद्धो रुष्टः पंचविधोदितः ।।
अकार्ये भ्रमते नित्यं धर्मार्थे न व्यवस्थितः ।। ५३ ।।
निद्रालुर्व्यसनासक्तो मद्यपः स्र्त्रीनिषेवकः ।।
दुष्टैः सह सदालापः स दुष्टः सप्तधा स्मृतः ।।५४ ।।
एकाकी मिष्टमश्नाति वंचकः साधुनिंदकः ।।
यथा सूकरः पुष्टः स्यात्तथा पुष्टः प्रकीर्तितः ।। ९५ ।।
निगमागमतंत्राणि नाध्यापयति यो द्विजः।।
न शृणोति च पापात्मा स दुष्ट इति चोच्यते ।। ५६ ।।
श्रुतिः स्मृतिश्च विप्राणां नयने द्वे विनिर्मिते ।।
एकेन विकलः काणो द्वाभ्यामंधः प्रकीर्तितः ।। ५७ ।।
विवादः सोदरैः सार्द्धं पित्रोरप्रियकृद्वदेत् ।।
द्विजाधमः स विज्ञेयः स चंडः शास्त्रनिंदितः ।।५८।।
पिशुनो राजगामी च शूद्रसेवक एव च ।।
शूद्रांगनागमो विप्रः स चंडश्च द्विजाधमः ।।५९।।
पक्वान्नं शूद्रगेहे च यो भुंक्ते सकृदेव वा ।।
पंचरात्रं शूद्रगेहे निवासी चंड उच्यते ।। ।। 2.1.5.६० ।।
अष्टकुष्ठान्वितः कुष्ठी त्रिकुष्ठी शास्त्रनिन्दितः ।।
एतैः सह सदालापः स भवेत्तत्समोऽधमः ।। ६१ ।।
कीटवद्भ्रमणं यस्य कुव्यापारी कुपंडितः ।।
अज्ञानाच्च वदेद्धर्ममग्रवृत्तिः प्रधावति ।। ६२ ।।
अविमुक्तं परित्यज्य योऽन्यदेशे वसेच्चिरम् ।।
स द्विधा शूकरपशुर्निंदितः सिद्धसंमतः।। ।। ६३ ।।
कपोलेन हि संयुक्तो भ्रुकुटीकुटिलाननः ।।
नृपवद्दंडयेद्यस्तु स दंडः समुदाहृतः ।। ६४ ।।
ब्रह्मस्वहरणं कृत्वा नृपदेव स्वमेव च ।।
धनेन तेन इतरं देवं वा ब्राह्मणानपि ।। ६५ ।।
संतर्पयति योऽश्नाति यः प्रयच्छति वा क्वचित् ।।
स खरश्च पशुश्रेष्ठः सर्ववेदेषु निंदितः ।। ६६ ।।
अक्षराभ्यासनिरतः पठत्येव न बुध्यते ।।
पदशास्त्रपरित्यक्तः स पशुः स्यान्न संशयः ।। ६७ ।।
वदत्यन्यत्करोत्यन्यद्गुरुदेवाग्रतो यतः ।।
स नीच इति विज्ञेयो ह्यनाचारस्तथापरः ।। ६८ ।।
षड्गुणालंकृतेः साधोर्दोषान्मृगयते खलः ।।
वने पुष्पफलाकीर्णे शलभः कंटकानिव ।। ६९ ।।
दैवेन च विहीनो यः कुसंभाषां वदेत्तु यः ।।
स वाचाल इति ख्यातो यो ह्यपत्रपतायुतः ।। 2.1.5.७० ।।
चांडालैः सह आलापः पक्षिणां पोषणे रतः ।।
मार्जारैश्चापि संभुंक्ते यत्कृत्यं मकर्टोदितम् ।। ७१ ।।
तृणच्छेदी लोष्टमदी वृथा मांसाशनश्च यः ।।
चपलः स तु विज्ञेयः परभार्यारतस्तथा।। ७२ ।।।
स्नेहोद्वर्तनहीनो यो गंधचंदनवर्जितः ।।
नित्यक्रिया अकुर्वाणो नित्यं स च मलीमसः ।। ७३ ।।
अन्यायेन गृहं विंदेदन्यायेन गृहान्धनम् ।।।
शास्त्रादन्यद्गृह मंत्रं स स्तेयी ब्रह्मघातकः ।। ७४ ।।
देवपुस्तकरत्नानि मणिमुक्ताश्वमेव च।।
गोभूमिस्वर्णहरणः स स्तेयीति निगद्यते ।। ७५ ।।।
देवोऽपि भावयेत्पश्चान्मानुषोऽपि न संशयः ।।
अन्योन्यभावना कार्या स स्तेयी यो न भावयेत्।। ७६ ।।
गुरोः प्रसादाज्जयति पित्रोश्चापि प्रसादतः ।।
करोति च यथार्हं च स च स्वर्गे महीयते ।।७७ ।।
न पोषयति दुष्टात्मा स स्तेयी चापरः स्मृतः ।। ७८ ।।
उपकारिजनं प्राप्य न करोति परिष्क्रियाम् ।।
स तप्तनरके शेते शोणिते च पतत्यधः ।। ७९ ।।
सर्वेषां च सवर्णानां धर्मतो ब्राह्मणः प्रभुः ।।
पृथिवीपालको राजा धर्मचक्षुरुदाहृतः ।। 2.1.5.८० ।।
प्रजापतेर्मुखोद्भूतो होरातंत्रे यथोदितम् ।।
तद्विदो गणनाभिज्ञा अन्यविप्राः प्रचक्षते ।। ८१ ।।
गंगाहीनो हतो देशो विप्रहीना यथा क्रिया ।।
होराज्ञप्तिविहीनो यो देशोऽसौ विप्लवप्लवः ।। ८२ ।।
अप्रदीपा यथा रात्रिरनादित्यं यथा नभः ।।
तथाऽसांवत्सरो राजा भ्रमत्यंध इवाध्वनि ।। ८३ ।।
स्थापयेद्धर्मतो विप्रं भावयेत्कर्मवृद्धये ।।
श्मश्रुयुक्तो द्विजः पूज्यः सूर्यो विप्रस्तु श्मश्रुलः ।। ८४ ।।
प्रत्यक्प्रदर्शनात्पुण्यं त्रिदिनं कल्मषापहम् ।।
दर्शने व्रात्यविप्रस्य सूर्यं दृष्ट्वा विशुध्यति ।। ८५ ।।
न व्रात्यत्वं सूर्यविप्रे पूजयेद्यज्ञसिद्धये ।।
ज्योतिर्वेदस्याधिकारः सूर्यविप्रस्य वै द्विजाः ।। ८६ ।।
जातिभेदाश्च चत्वारो भोजकः कथकस्तथा ।।
शिवविप्रः सूर्यविप्रश्चतुर्थः परिपठ्यते ।। ८७ ।।
कथको मध्यमस्तेषां सूर्यविप्रस्तथोत्तमः ।।
शिवलिंगार्चनरतः शिवविप्रस्तु निंदितः ।। ८८ ।।
सूर्यविप्रस्य विप्रस्य वैद्यस्य च नृपस्य च ।।
प्रवासयेदक्षतेन सपुत्रपशुबांधवः ।।
अवध्यः सर्वलोकेषु राजा राज्येन पालयेत् ।। ८९ ।।
वसुभिर्वस्त्रगंधाद्यैर्माल्यैश्च विविधैरपि ।।
देशचक्रविदः पूज्या होराचक्रविदः पराः ।। 2.1.5.९० ।।
सूर्यचक्रविदः पूज्या नावमन्येत्कथंचन ।।
सिद्धवृद्धिं च धनर्द्धिं च य इच्छेदायुषा समम् ।।
गणविप्रसमः पूज्यो दैवज्ञः समुदाहृतः ।। ९१ ।।
जाते बाले निरूप्ये च लग्नग्रहनिरूपणम् ।।
संस्थानं सूर्यविप्रो यः सूर्यविप्रस्य सत्तमाः ।।
द्विमात्रिकां समभ्यस्य सर्ववेदफलं लभेत् ।। ९२ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पंचमोऽध्यायः ।। ५ ।।