भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०१

विकिस्रोतः तः

पातालवर्णनम्

।। श्रीगणेशाय नमः ।।
ॐ नमः कमलदलनयनाभिरामाय ।।
श्रीरामचंद्राय ।।
स्वच्छं चंद्रावदातं कविकरमकरक्षोभसंजातफेनं बक्षोद्भूतिप्रसूक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः ।।
ॐकारालंकृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टपूतं संभोगाभोगगम्यं जनकलुषहरं पौष्करं वः पुनातु ।। १ ।१
जयति भुवनदीपो भास्करो लोककर्ता जयति च शितिदेहः शार्ङ्गधन्वा मुरारिः ।।
जयति च शशिमौली रुद्रनामाभिधेयो जयति सकलमौलिर्भानु मांश्चित्रभानुः ।। २ ।।
नमस्कृत्याप्रमेयाय देवाय ब्रह्मरूपिणे ।।
पुराणं संप्रवक्ष्यामि यदुक्तं ब्रह्मयोगिना ।। ३ ।।
पुराणसंहितां पुण्यां पप्रच्छू रौमहर्षणिम् ।।
वक्तुमर्हसि चास्माकं पुराणार्थविशारद ।।४।।
मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः ।।
प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम्।।।।।
।। सूत उवाच ।। ।।
नमस्कृत्य जगद्योनिं ब्रह्मरूपधरं हरिम् ।।
वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ।। ६ ।।
यच्छ्रुत्वा पापकर्माणि स गच्छेत्परमां गतिम् ।।
पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः ।। ७ ।।
भविष्यपुराणमखिलं यज्जगाद गदाधरः ।।
मध्यपर्व ह्यथो वक्ष्ये प्रतिष्ठादिविनिर्णयम् ।। ८ ।।
धर्मप्रशंसनं चात्र ब्राह्मणादिप्रशंसनम् ।।
आपद्धर्मस्य कथनं विद्यामाहात्म्यवर्धनम्।। ९ ।।
प्रतिमाकरणं चैव स्थापनाचित्रलक्षणम् ।।
कालव्यवस्थासर्गादिप्रतिसर्गादिलक्षणम् ।। 2.1.1.१० ।।
पुराणलक्षणं चैव भूगोलस्य च निर्णयम् ।।
निरूपणं तिथीनां च श्राद्धसंकल्पमन्तरम् ।। ११ ।।
मुमूर्षोरपि यत्कर्म दानमाहात्म्यमेव च ।।
भूतं भव्यं भविष्यं च युगधर्मानुशासनम् ।। १२ ।।
उच्चावचावधानं च प्रायश्चित्तादिकं च यत् ।।
षष्ट्याधिकाष्टसाहस्रनवश्लोकशतोद्भवम् ।। १३ ।।
पंचतंत्रसमायुक्तं प्रतितंत्रे च विंशतिः ।।
पंचोत्तरं तथाध्यायाः पुराणेऽस्मिन्द्विजोत्तमाः ।। १४ ।।
त्रयाणामाश्रमाणां च गृहस्थो योनिरुच्यते ।।
अन्येऽपि सूपजीवन्ति तस्माच्छ्रेष्ठो गृहाश्रमी ।। १५।।
एकाश्रमं गृहस्थस्य त्रयाणां मूर्तिदर्शनम् ।।
तस्माद्गार्हस्थमेवैकं विज्ञेयं धर्मशासनम् ।। १६ ।।
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ।।१७।।
तडागस्य च सान्निध्ये तडागं परिवर्जयेत् ।।
प्रपास्थाने प्रपा वर्ज्या मठस्थाने मठं त्यजेत् ।।१८।।
धर्मात्संजायते ह्यर्थो धर्मात्कामोऽभिजायते ।।
धर्मादेवापवर्गोऽयं तस्माद्धर्मं समाश्रयेत् ।। १९ ।।
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ।। 2.1.1.२० ।।
ऊर्ध्वं गच्छंति सत्त्वस्था मध्ये तिष्ठंति राजसाः ।।
जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः ।। २१ ।।
यस्मिन्धर्मः समायुक्तो ह्यर्थकामौ व्यवस्थितौ ।।
इह लोके सुखी भूत्वा प्रेत्यानंत्याय कल्पते।।२२।।
तस्मादर्थं च कामं च युक्त्वा धर्मं समाश्रयेत् ।।
धर्मात्संजायते कामो धर्मादर्थोभिजायते।।२३।।
एवं धर्मस्य मध्येऽयं चतुर्वर्गः प्रदर्शितः ।।
एवं च धर्मकामार्थं मोक्षस्यापि च मानवः ।।
माहात्म्यं वानुतिष्ठेच्च स चानंत्याय कल्पते ।। २४ ।।
तस्मादर्थं च कामं च मुक्त्वा धर्मं समाचरेत् ।।
धर्मात्संजायते सर्वमित्याहुर्ब्रह्मवादिनः ।। २५ ।।
धर्मेण धार्यते सर्वं जगत्स्थावरजंगमम् ।।
अनादिनिधना शक्तिर्नैषा ब्राह्मी द्विजोत्तम ।। २६ ।।
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ।। २७ ।।
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ।।
ज्ञानपूर्वा निवृत्तिः स्यात्प्रवृत्तिर्वर्ततेऽन्यथा ।। २८ ।।
निवृत्तिं सेवमानस्तु याति तत्परमं पदम् ।।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत्पुनः।।२९।।
शमो दमो दया दानमलोभस्त्याग एव च ।।
आर्जवं चानसूया च तीर्थानुसरणं तथा ।। 2.1.1.३० ।।
सत्यं संतोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ।।३१।।
अहिंसा सत्यवादित्वमपैशुन्यं सुकल्पता ।।
शौचाचारश्चानुकंपा सर्ववर्णेऽब्रवीन्मुनिः।।३२।।
श्रद्धापूर्वाः स्मृता धर्माः श्रद्धामध्ये तु संस्थिताः ।।
श्रद्धानिष्ठाः प्रतिष्ठाश्च धर्माः श्रद्धेव कीर्तिताः ।। ३३ ।।
प्राजापत्यं ब्राह्मणानां श्रुतं स्थानं क्रियावताम् ।।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ।।३४।।
वैश्यानाममृतं स्थानं स्वधर्ममनुवर्तताम् ।।
गांधर्वं शूद्रजीवानां परिचारेण वर्तताम् ।। ३५ ।।
अष्टाशीति सहस्राणां मुनीनामूर्ध्वरेतसाम् ।।
स्मृतं स्थानं तु यत्स्थानं तदेव गुरुवासिनाम् ।। ३६ ।।
सप्तर्षीणां तु यत्स्थानं श्रुतं तद्वै वनौकसाम् ।।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ।। ३७ ।।
यतीनां यतचित्तानां तदेव वनवासिनाम् ।।
हिरण्यगर्भं यत्स्थानं तस्मान्नावर्तते पुनः ।। ३८ ।।
योगिनाममृतं स्थानं व्योमाख्यं परमाकरम् ।।
आनंदमैश्वरं नाम सा काष्ठा परमा गतिः ।। ३९ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे प्रथमोऽध्यायः ।। १ ।।