भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१०

विकिस्रोतः तः
Jump to navigation Jump to search
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०९ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१०
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २११ →

सूर्यपूजावर्णनम्

।। सुमन्तुरुवाच ।। ।।
इत्येष सप्तमीकल्पः समासात्कथितस्तव।।
विस्तरात्ते पुनर्वच्मि शृणु चैकमना विभो ।। १ ।।
फाल्गुनामलपक्षस्य षष्ठ्यां च समुपोषितः ।।
पूजयेद्भास्करं स्नात्वा गंधपुष्पविलेपनैः ।।२।।
अर्कपुष्पैर्महाबाहो गुग्गुलेन सुगंधिना ।।
श्वेतेन करवीरेण चंदनेन दिवाकरम् ।।३।
गुडोदकेन नैवेद्यं निवेद्यं प्रीतये रवेः ।।
एवं पूज्य दिवा भानुं रात्रौ तस्याग्रतः स्वपेत्।।
जपन्भौमं परं जाप्यं विनिद्रः सततं बुधः।।४
शतानीक उवाच
किं तत्परं भगवतः प्रियं जाप्यमनुत्तमम् । । ५
जप्तव्यो यत्परैर्भक्त्या भानुस्तस्याग्रतो नरैः ।
तन्मे ब्रूहि तथा मन्त्रान्धूपदीपान्विशेषतः । ।
येनाहं तं जपञ्जप्यं पूजयामि दिवाकरम् । । ६
सुमन्तुरुवाच
वच्मि ते भरतश्रेष्ठ समासान्न तु विस्तरात् । । ७
षडक्षरेण मन्त्रेण कुर्यात्सर्वं समाहितः ।
जपं होमं तथा पूजां शतजप्तेन सर्वदा । । ८
सावित्र्या च जपं पूर्वं कृत्वा शतसहस्रशः ।
पश्चात्सर्वं प्रकुर्वीत जपादिकमनाकुलम् । । ९
ॐ भोः सावित्रि भास्कराय सहस्ररश्मि धीमहि ।
तेन सूर्यः प्रचोदयात् । । 1.210.१०
जप एव परः प्रोक्तः सप्तम्यां भानुना स्वयम् ।
जप्त्वा सकृद्भवेत्पूतो मानवो नात्र संशयः । । ११
प्रभाते त्वथ सप्तम्यां जपन्नियतमानसः ।
पूजयेद्भान्करं भक्त्या पूर्वोक्तविधिना नृप । । १२
श्रद्धया भोजयेच्चापि ब्राह्मणाञ्छक्तितो नृप ।
दिव्यान्भोगांश्च विधिवद्भक्ष्यभोज्यैरनेकशः । । १३
वित्तशाठ्यं न कुर्वीत भोजकांश्च प्रभोजयेत् ।
न भोजयेत्तथाऽसौरान्सौरान्यत्नेन भोजयेत् । । १४
शतानीक उवाच
के भोज्या के न वा भोज्या ब्राह्मणा ब्रह्मवित्तम ।
केषु चित्तेषु सप्तम्यां देवदेवो दिवाकरः । । १५
घटीभोज्यो भवेद्विप्रः सप्तमीं कुरुते च यः ।
सौरभिन्नेष्वभोज्यो यो यश्च भुक्तो दिवाकरे । । १६
एते भोज्या द्विजा राजन्नादित्येन समासतः ।
प्रोक्ताः कुरुकुलश्रेष्ठ तथाऽभोज्याञ्छृणुष्व वै । । १७
सभार्यः सपतिर्यस्तु कुष्ठरोगैर्हतश्च यः ।
यश्चान्यदेवताभक्तस्तथा नक्षत्रसूचकः । । १८
परापवादनिरतो यश्च देवलकस्तथा ।
एतेऽभोज्याः सवित्रा तु स्वयं देवेन चिन्तिताः । । १९
शतानीक उवाच
ये भोज्या ब्राह्मणाः प्रोक्ता ये चाभोज्या द्विजोत्तमाः ।
एतेषां लक्षणं ब्रूहि सर्वेषां वै समाहितः । । 1.210.२०
सुमन्तुरुवाच
साधु पृष्ठोऽस्मि राजेन्द्र कीर्तयाम्येव कृत्स्नशः ।
पठतां तु त्रयी विद्यां ब्राह्मणानां कदम्बकः । । २१
घटेत्युक्ता तु सा राजन्स्वयं देवेन भानुना ।
सा घटा विद्यते यस्य स घटीत्युच्यते द्विजैः । । २२
ब्रह्मक्षत्रविशां वीर शूद्राणां च कदम्बकः ।
शृण्वतां विधिवत्पुण्यं भक्त्या पुस्तकवाचनम् । । २३
इति मासे निबद्धस्य होमस्येति च भानुना ।
कथितं कुरुशार्दूल स्वयमाकाशगामिना । । २४
यस्याः कर्ता भवेद्यस्तु मम स्यात्करको मतः ।
स विप्रो राजशार्दूल सदेष्टो भास्करस्य तु । । २५
जयोपजीवी व्यासश्च समः स्याज्जीवकस्तथा ।
यान्येतानि पुराणानि सेतिहासानि भारत । ।
जयेति कथितानीह स्वयं देवेन भास्वता । । २६
एकं निवासयन्यस्तु ब्राह्मणं तूपजीवति ।
जयोपजीवी स ज्ञेयो वाचकश्च तथा नृप । । २७
आरुणेयादिशास्त्राणि सप्ताश्वतिलकं तथा ।
यश्च जानाति सौराणि विप्रः सौरस्स तत्त्ववित् । । २८
पूजयेत्सततं यस्तु भास्करं नृपसत्तम ।
भोजकांश्च तथा राजन्यथा देवं दिवाकरम् । । २९
स ज्ञेयो भास्करे भक्तो भोजनीयः प्रयत्नतः ।।
भोज्यानां लक्षणं ह्येतदभोज्यानां शृणुष्व मे ।। 1.210.३० ।।
वृषली यस्य वै भार्या ब्राह्मणस्य विशेषतः ।।
परभार्यापतिरसौ ब्राह्मणो ब्राह्मणाधमः ।। ३१ ।।
दैवेन निहतः कुष्ठी ब्राह्मणो ब्रह्मघातकः ।।
भोजको विंदते यस्तु न च तं पूजये त्तथा ।। ३२ ।।
ज्ञेयोन्यदेवभक्तोसौ स विप्रः कुरुनंदन ।।
आदित्यं भोजकं विद्याद्भानोर्देहसमुद्भवम् ।। ३३ ।।
नादित्यं पूजयेद्यस्तु स भोज्यो न कदाचन ।।
मुण्डो व्यंगधरो गौरः शंखपुष्पधरस्तथा ।।३४।।
यस्य याति गृहे राजन्भोजको मानवस्य तु ।।
तस्य यांति गृहे देवाः पितरो भारक रस्य तु ।। ३५ ।।
रक्षोभूतपिशाचाश्च योगिन्योपि पलायिताः ।।
सकृद्भुङ्क्ते गृहे यस्य भोजको गृहधर्मिणः ।। ३६ ।।
सप्तसंवत्सरं यावतृप्तो भवति भास्करः ।।
तस्मात्तान्भोजयेद्दिव्यान्भोजकान्सततं बुधः ।।
यस्तु तान्निंदते विप्रः स न भोज्यः कदाचन ।। ३७ ।।
निजं भर्तारमुत्सृज्य स्वैरं यान्यत्र गच्छति ।।
स्वैरिणी सा तु वै प्रोक्ता पापिष्ठा कुलदूषिणी ।। ३८ ।।
प्रच्छन्नं रोचते राजन्या नारी भवदोषतः ।।
ज्ञेया सा स्वैरिणी राजन्कुले भवति नाशिनी ।।३९।।
योऽस्यां रतो भवेद्विप्रः स ज्ञेयः स्वैरिणीरतः ।।
रंगोपजीवी कथको यश्च प्राकृतनर्तकः ।। 1.210.४० ।।
रंगोपजीवी राजेंद्र तथा च बहुयाचकः ।।
द्वे एते नामनी राजन्कथकस्य प्रकीर्तिते ।।
कृतेनानेन यादृक्च उद्वृत्तः कुरुनंदन ।। ४१ ।।
यः स्तुतिं गायते विप्रः प्रोच्चैस्तु जनसंसदि ।।
रंगोपजीवी प्रोक्तोयं द्वितीयः परिकीर्तितः ।। ४२ ।।
सूचनं कथनं प्रोक्तं सर्वशास्त्रेषु भारत ।।
सूचयेद्यस्तु ऋक्षाणि स वै नक्षत्रसूचकः ।। ४३ ।।
।। शतानीक उवाच ।। ।।
अहो बत महत्कष्टं भवतो यद्द्विजान्प्रति ।।
वेदांगं ज्योतिःशास्त्रं तु षष्ठं प्रोक्तं मनीषिभिः ।। ४४ ।।
षडंगो न भवेत्तेन रहितेन द्विजेन च ।।
अभोज्ये पठनात्तस्य यद्वत्स्याद्ब्राह्मणो द्विज ।। ४५ ।।
भोज्योऽखण्डं ययौ विप्रोऽनर्थकेन त्वनर्थकम्।।
विमृश्य कथ्यतां विप्र अत्र मे संशयो महान् ।। ४६ ।।
।। सुमंतुरुवाच ।। ।।
साधु पृष्टोस्मि भवता श्रूयतामत्र निर्णयः ।।
यस्य जीव्यमिदं ज्ञेयमंगं विप्रस्य वै भवेत् ।। ४७ ।।
सांवत्सरेण ज्योतिषा ज्ञाननक्षत्रसूचकः ।।
न स भोज्यो भवेद्राजन्यस्येयं जीविका भवेत् ।। ४८।।
निष्कारणं पराणां च परोक्षं दोषकीर्तनम्।।
गुणानां च यथा गुप्तिः परिवादपरस्तु सः ।। ४९ ।।
ब्राह्मणो यस्तु राजेंद्र वृत्त्या कर्म करोति वै ।।
देवतायतने चेह देवानां पूजनं तथा ।। 1.210.५० ।।
आधिपत्यं भक्षणं च नैवेद्यस्य परंतप ।।
स ज्ञेयो देवलो राजन्ब्राह्मणो ब्राह्मणाधमः ।। ५१ ।।
नाधिकारस्तु विप्राणां भौमानां देवपूजने ।।
वृत्त्या भरतशार्दूल आधिपत्ये विशेषतः ।। ५२ ।।
यस्तु पूजयते देवीं ब्राह्मणो द्रव्यलोभतः ।।
वृत्त्यै कुरुकुलश्रेष्ठ स याति नरकं ध्रुवम् ।। ५३ ।।
देवालयेषु सर्वेषु अग्निकार्यं च सुव्रत ।।
यः कुर्याद्द्रव्यलोभेन अधोगतिमवाप्नुयात् ।। ५४ ।।
देवालयेषु सर्वेषु वर्जयित्वा शिवालयम् ।।
देवानां पूजनं राजन्नग्निकार्येषु वा विभो ।। ५५ ।।
अधिकारः स्मृतो राजन्भोजकानां न संशयः ।।
पूजयंतस्तु ते देवान्प्राप्नुवंति परां गतिम् ।। ५६ ।।
नैवेद्यं भुञ्जते यस्माद्भोजयंति च भास्करम् ।।
पूजयंति च देवानां दिव्यतन्त्रेण ते गताः ।। ५७ ।।
पूजयित्वा तु वै देवान्नैवेद्यं भक्ष्य च प्रभोः ।।
यांति ते परमं स्थानं यत्र देवो दिवाकरः ।। ५८ ।।
ब्राह्मणश्चापि तं ब्रूया त्तीक्ष्णे सति महामते ।।
एवं करिष्ये श्रेयोर्थं नात्मनस्तव वा विभो ।। ५९ ।।
इत्यामंत्र्य ततो गच्छेत्स्वगृहं कुरुनन्दन ।।
तथा परेऽह्नि संपूज्य देवं भक्त्या दिवाकरम् ।। 1.210.६० ।।
कृत्वा च पावकं राजन्ब्राह्मणान्भोजयेत्ततः ।।
शाल्योदनं तथा मुद्गं सुगन्धं मुद्गमेव हि ।। ६१ ।।
अपूपान्गुडपूपांश्च पयो दधि तथा नृप ।।
एतैस्तु तृप्तिमायाति भास्करो नरसत्तम ।। ६२ ।।
वर्ज्यानि भरतश्रेष्ठ शृणु त्वं गदतो मम ।।
कुलत्थकान्मसूरांश्च निष्पावादींस्तथैव च ।। ६३ ।।
सिस्रुकं च तथान्यच्च राजमाषांस्तथैव च ।।
नैतानि भास्करे दद्याद्य इच्छेच्छ्रेय आत्मनः ।। ६४।।
दुर्गधं यच्च कटुकमत्यल्पं भास्करस्य तु ।।
विमिश्रांस्तडुलांश्चापि न दद्याद्भास्कराय वै ।। ६५ ।।
इत्थं भोज्य द्विजं राजन्प्राशयेदर्कसंपुटम् ।।
प्रणम्य शिरसा देवमुदकेन समन्वितम् ।। ६६ ।।
गृहीत्वा केतनं यस्तु भजतेऽन्यत्र लोकतः ।।
नाश्नंति पितरस्तस्य न देवा न च मानवाः ।। ।। ६७ ।।
निष्क्रम्य नगराद्राजन्गत्वा पूर्वोत्तरां दिशम् ।।
नात्युच्चे नातिनीचे च शुचौ देशेऽर्कमुत्तमम् ।। ६८।।
जातं दृष्ट्वा महाबाहो पूजयित्वा खगोत्तम।।
पूर्वोत्तरगताश्चैव तस्य शाखा दिशन्नृप।।६९।।
शाखाया अग्रतः पात्रे सुसूक्ष्मे पल्लवाश्रिते।।
सुश्लिष्टे न पृथग्भूते संपूज्य गृहमाव्रजेत्।।1.210.७०।।
स्नातः पूज्य विवस्वंतमर्कपुष्पैः खगोत्तम।।
ब्राह्मणान्भोजयित्वा तु अर्को मे प्रीयतामिति।।७१।।
प्राश्य मंत्रेणार्कपुटं ततो भुंजीत
वाग्यतः ।। देवस्य पुरतो वीर त्वस्पृशन्दशनैः पुटम् ।। ७२ ।।
ॐ अर्कसंपुट भद्रं ते भद्रं तेऽर्कं सदास्तु वै ।।
ममापि कुरु भद्रं च प्रायश्चित्तप्रदो भव ।। ७३ ।।
इमं मंत्रं जपन्राजन्स्मरन्नर्कं महामते ।।
स्थित्वा पूर्वमुखो ब्रह्म वारिणा सहितं नृप।। ७४।।
प्राश्य भुंक्ते च यो राजन्स याति परमां गतिम् ।।
दंतैरस्पृश्य हे वीर तत्पुटं चार्कसंज्ञितम् ।। ७५ ।।
अनेन विधिना भक्त्या कर्तव्या सप्तमी सदा ।।
यावद्वर्षे महाबाहो प्रीतयेऽर्कस्य श्रद्धया ।। ७६ ।।
यश्चेमां सप्तमीं कुर्याद्भास्करं प्रीणयन्नरः ।।
तस्याक्षयं भवेद्वित्तमचलं साप्तपौरुषम् ।। ७७ ।।
सुवर्णं रजतं ताम्रं हिरण्यं च तथा क्षयम् ।।
कृत्वेमां सिद्धिमायातः कौथुमिः सहसा गतः ।। ७८ ।।
कुष्ठरोगाच्च वै मुक्तो जयस्तोमो महीपतिः ।।
बृहद्बलध्वजः कोपी याज्ञवल्क्यो ऽथ कृष्णजः ।। ७९ ।।
अर्कं चैव समाराध्य ततोऽगुस्तेऽर्कसाम्यताम् ।।
इयं धन्यतमा पुण्या सप्तमी पापनाशिनी ।। 1.210.८० ।।
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः ।।
तस्मादेषा सदा कार्या विधिवच्छ्रेयसेऽनघ ।। ८१ ।।
।। शतानीक उवाच ।। ।।
जनकादयो यथा सिद्धिं गता भानुं प्रपूज्य च ।।
श्रुतं मया तु बहुशो न श्रुतं कौथुमिर्यथा ।। ८२ ।।
सिद्धिं गतोऽर्कमाराध्य कुष्ठान्मुक्तश्च सुव्रत ।।
कश्चासौ कौथुमिर्विप्रः कथं कुष्ठ मवाप्तवान् ।। ८३ ।।
कथमाराधयामास भानुं देवपतिं द्विज ।।
एतन्मे विप्र निखिलं कीर्तयस्व समासतः ।। ८४ ।। ।।

इति श्रीभविष्ये महापु राणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यपूजादिवर्णनं नाम दशाधिकद्विशततमोऽध्यायः ।। २१० ।।