भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०६

विकिस्रोतः तः
Jump to navigation Jump to search
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०५ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०६
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०७ →

सूर्यपूजामाहात्म्यवर्णनम्

।। भीष्म उवाच ।। ।।
मंत्रोद्धारं परं ब्रूहि मुद्राशक्तिसमन्वितम् ।।
रूपवर्ण समं चैव पौराणिकमनुत्तमम् ।। १ ।।
।। व्यास उवाच ।। ।।
शृणु भीष्म महाबाहो यथा वक्ष्यामि तेनघ ।।
पौराणिकानां मंत्राणामुद्धारं वैदिकादृते ।।२।।
वर्णरेफसमायुक्तं विद्रुमेनैव भूषितम् ।।
अंतस्थानां हि अंत्यं वै ब्रह्मदैवत्यमुच्यते ।।३।।
बिंदुरेफसमायुक्तं दीर्घया मात्रया तथा ।।
दीक्षाक्षरं समुद्दिष्टं द्वितीयं विष्णुदैवतम् ।।४।।
तृतीयं तु तथा प्रोक्तं सविसर्गं जनाधिप ।।
स तृतीयो बुधैः प्रोक्तो रुद्रदैवत एव हि ।।५।।
भास्करोयं महान्साक्षान्मंत्रमूर्तिस्त्रिरक्षरः।।
दुर्लभः परमो गुह्यस्त्रिदेवो देवपूजितः ।।६।।
यस्त्विदं जपते भक्त्या स याति परमां गतिम् ।।
ततश्च मुद्रां वक्ष्यामि सान्निध्य कारणं परम् ।।७।।
पद्माकारौ करौ कृत्वा मध्ये श्लिष्टे तु मध्यमे।।
अंगुलिं क्षारयेत्तस्मिन्विमुद्रेति च सोच्यते ।।८।।
अनया बद्धया राजन्भास्करस्य प्रियो भवेत् ।।
महाभयेषु सर्वेषु मातृवत्परिरक्षति ।। ९ ।।
हृदयं तस्य विज्ञेयं यदक्षरवरं स्मृतम् ।।
विद्रुमोपरि संछन्नं हृद्गतं तद्गतं सदा ।। १० ।।
शिरस्यर्कमिति प्रोक्तं देवदेवस्य भारत ।।
महाव्याहृतयस्तिस्रस्तथारज्वालिनी शिखा ।। ११ ।।
अष्टाक्षरा तु विद्येयमादित्यस्य महात्मनः ।।
यः स्मरेत्साधकस्त्वेनं नासौ केनापि बाध्यते ।। १२ ।।
अकारेण समायुक्तं बिंदुरेफसमन्वितम् ।।
हकारमग्निदैवत्यं कवचं भास्करप्रियम्।। १३ ।।
एकाक्षरमिदं प्रोक्तमभेद्यं यः स्मरेदिदम् ।।
दुष्टानां चैव विघ्नानां नाशनं नात्र संशयः ।। १४ ।।
सविसर्गो रेफ इति अस्त्रमेकाक्षरं स्मृतम् ।।
नाशयेद्दुष्टकर्माणि साधकस्य न संशयः ।। १५ ।।
संमुखौ तौ करौ कृत्वा श्लिष्टौ तु ग्रथितांगुली ।।
कनिष्ठेनामिके योज्ये तर्जन्यौ मध्यमे तथा ।। ।। १६ ।।
हृच्छिरः सशिखा चर्मा मुद्रेयं व्योमसंज्ञिता ।।
मुष्टिवक्रोच्छ्रितं कुर्यात्सव्यहस्तस्य तर्जनीम् ।।१७।।
मालशब्दकृतादिस्तु मुद्रा ह्यस्त्रस्य कीर्तिता ।।
त्रासनी नाम विख्याता सर्वविप्रभयंकरी ।। १८ ।।
कर्णबिंदुसमायुक्तं यं चतुर्थं महामते ।।
भास्करस्य त्विदं नेत्रमग्रिदैवतमुच्यते ।।। ।। १९ ।।
स्मरः स्यात्साधकेंद्राणां दुरंतो नाशने ध्रुवम् ।।
मध्यमा तर्जनी चैव सव्यहस्तस्य चोच्छ्रितम्।। २० ।।
कनिष्ठानामिके कुंच्य अंगुष्ठेन ततः क्रमेत् ।।
नेत्राभ्यां स्पर्शयेदेनां नेत्रमुद्रा प्रकीर्तिता ।। २१ ।।
गोवृषा नाम विख्याता दर्शयेद्दिव्यगोचरम् ।।
रां दीप्तारिं ततः सूक्ष्मारीं जया भीष्म उच्यते ।। २२ ।।
उभाह्वारूं विभूतिश्च विमला रें प्रकीर्तिता ।।
अघहा च महाबाहो विद्युता रौं प्रकीर्तिता ।। २३ ।।
गोवृषा नाम रं सर्वं वीरभद्रकरी तथा ।।
इत्येता बीजरूपास्तु कथिताश्चैव शक्तयः ।। २४ ।।
उत्तानौ तु करौ कृत्वा सव्याकुंच्य ततोंगुलीः ।।
कुर्यादुपरि चांगुष्ठौ चालयेत पुनःपुनः ।। २५ ।।
सर्वासां चैव शक्तीनामेता मुद्राः प्रदर्शयेत् ।।
नाम्ना च विद्युता चैव नवमी सर्वतोमुखी ।। २६ ।।
नामान्येतानि शक्तीनां समासात्कथितानि तु ।।
सबीजानि महाबाहो मया स्नेहेन भारत ।। २७ ।।
ग्रहाणां शृणु बीजानि रूपं च गदतो मम ।।
सर्वत्र भं तथा खं च कंजकूतुहलोद्वह ।। २८ ।।
ॐकारा दीपिताः सर्वे नमस्कारांतयोजिताः ।।
पूजाकाले प्रयोक्तव्या जपकाले तथैव च ।। २९ ।।
होमकाले तु स्वाहांतं मंत्रं षट्कारसंयुतम् ।।
सर्वे बिंदुयुता भीष्म शिखा बिंदुविभूषिताः ।। ३० ।।
सोमाद्याः केतुपर्यंता ग्रहा ह्येवं प्रकीर्तिताः ।।
एता मुद्राः प्रवक्ष्यामि सर्वसिद्धिप्रदायिकाः ।। ३१ ।।
सुमुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ ।।
इयं मुद्रा नमस्कारे ग्रहसान्निध्यकारिका ।। ।। ३२ ।।
मंत्रोद्धारस्तवाख्यातो रहस्यो दुर्लभो नृप ।।
शृणुष्व रूपं देवानां ध्यानकाले ह्युपस्थिते ।। ३३ ।।
जपावर्णं महातेजं श्वेतपद्मोपरि स्थितम्।।
सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ।। ३४ ।।
तथैकवक्त्रं द्विभुजं सोमपंकजकंधरम् ।।
मंडलेन च रूपं तु मध्यस्थं रक्तवाससम् ।। ३५ ।।
मार्तंडस्य इदं रूपं शुचिः स्नातो जितेंद्रियः।।
त्रिकालं यः स्मरेद्भीम एकचित्तो व्यवस्थितः ।। ३६ ।।
सोऽचिराद्भवते लोके वित्तेन धनदोपमः ।।
मुच्यते सर्वभोगैस्तु तेजस्वी बलवान्भवेत् ।। ३७ ।।
हृदयं चोत्तमांगं च शिखा वै वक्त्रमेव च ।।
रक्तवर्णा इमे श्यामाः सर्वाभरणभूषिताः ।। ३८।।
वरदाऽभयहस्ताश्च ध्यातव्या साधकेन तु ।।
तडित्पुंजनिभं शस्त्रं रौद्रं चंद्रकरालिनम् ।। ३९ ।।
विशेषः कथितो ह्येष कामरूपः स्वभावतः ।।
दीप्ता दीप्तशिखाकारा ध्यातव्या मम शक्तयः ।। ४० ।।
श्वेतवर्णं स्मरेत्सोमं रक्तवर्णं कुजं स्मरेत् ।।
सौम्यमष्टापदाभं च गुरुं च पीतवर्णकम् ।। ।। ४१ ।।
शंखक्षीरनिभं श्वेतं काणं चांजनसंनिभम् ।।
रजावर्तनिभं राहुं धूम्रं च विकचं स्मरेत् ।। ४२ ।।
वामहस्तौ कटिन्यस्तौ दक्षिणौ चाभयप्रदौ ।।
रक्तभ्रूरक्तनेत्रास्य अर्धकायकृतांजलिः ।। ४३ ।।
इति भानुं ग्रहैः सार्धं ये ध्यायंति नृपोत्तम ।।
लभंते ते महासिद्धिमचिरान्नात्र संशयः ।। ।। ४४ ।।
तवाख्यातमिदं वक्त्रं ग्रहाणां भीष्म कृत्स्नशः ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यंते भुवि मानवाः ।। ४५ ।।
अनेन विधिना भीष्म सदा देवं दिवाकरम्।।
त्रिकालं पूजयेद्भक्त्या वीर श्रद्धासमन्वितः ।। ४६ ।।
इत्थं पूजयमानस्तु सर्वदेवं दिवाकरम् ।।
ब्रह्महत्याविनिर्मुक्तो महादेवत्वमाप्नुयात्।। ४७ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यपूजामाहात्म्यवर्णन्ं नाम षडुत्तरद्विशततमोऽध्यायः ।। ।। २०६ ।।