भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७६

विकिस्रोतः तः

सौरधर्मवर्णनम्

।। सुमंतुरुवाच ।। ।।
पद्मासनः पद्मवर्णः पद्मपत्रनिभेक्षणः ।।
कमण्डलुधरः श्रीमान्देवगंधर्वपूजितः ।। १ ।।
चतुर्मुखो देवपतिः सूर्यार्चनपरः सदा ।।
सुरज्येष्ठो महातेजाः सर्व लोकप्रजापतिः ।।
ब्रह्मशब्देन दिव्येन ब्रह्मा शांतिं करोतु ते ।। २ ।।
पीतांबरधरो देव आत्रेयीदयितः सदा ।।
शंखचक्रगदापाणिः श्यामवर्णश्चतुर्भुजः ।। ३ ।।
यज्ञदेहः क्रमो देव आत्रेयीदयितः सदा ।।
शंखचक्रगदापाणिर्माधवो मधुसूदनः ।। ४ ।।
सूर्यभक्तान्वितो नित्यं विगतिर्विगतत्रयः ।।
सूर्यध्यानपरो नित्यं विष्णुः शांतिं करोतु ते ।। ५ ।।
शशिकुंदेंदुसंकाशो विश्रुताभरणैरिह ।।
चतुर्भुजो महातेजाः पुष्पार्धकृतशेखरः ।। ६ ।।
चतुर्मुखो भस्मधरः स्मशाननिलयः सदा ।।
गोत्रारिर्विश्वनिलयस्तथा च क्रतुदूषणः ।। ७ ।।
वरो वरेण्यो वरदो देवदेवो महेश्वरः ।।
आदित्यदेहसंभूतः स ते शांतिं करोतु वै ।। ८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु षट्सप्तत्युत्तरशततमोऽध्यायः ।। १७६ ।।