भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७०

विकिस्रोतः तः

गोदानवर्णनम्

।। सुमन्तुरुवाच ।। ।।
सवृषं गोशतं दत्त्वा भास्कराय नराधिप ।।
त्रिःसप्तकुलजैः सार्धं शृणु यत्फलमाप्नुयात् ।। १ ।।
वरकोटिप्रतीकाशैः सर्वकामसमन्वितैः ।।
महायानैरसंख्येयैरमरासुरपूजितैः ।। २ ।।
द्वादशादित्यसंकाशो दिवाकर इवापरः ।।
गत्वादित्यपुरं रम्यं क्रीडते सूर्यमंडपे ।। ३ ।।
भुक्त्वा तु विपुलान्भोगान्प्रलये सर्वदेहिनाम् ।।
मोहकंचुकमुत्सृज्य विशत्यादित्यमंडले ।। ४ ।।
सर्वज्ञः सूरपरमः शुद्धः स्वात्मन्यवस्थितः ।।
सर्वगः परिपूर्णत्वात्सूर्यवद्दीप्तिमान्भवेत् ।। ५।।
यो दद्यादुभयमुखीं सौरभेयीं दिवाकरे ।।
सप्तद्वीपां महीं दत्त्वा यत्फलं तदवाप्नुयात् ।।
पादद्वयं शिरोऽर्धं च सशैलवनकानना ।। ६ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गोदानवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः ।। १७० ।।