सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६८

विकिस्रोतः तः

कामप्रदस्त्रीव्रतवर्णनम्

।। सुमंतुरुवाच ।। ।।
एकभक्तेन या नारी कार्त्तिकं क्षपयेन्नृप ।।
क्षमाहिंसादिनियमैः संयता ब्रह्मचारिणी ।।१।।
गुडाज्यमिश्रं शाल्यन्नं भास्कराय निवेदयेत् ।।
पक्षयोरुभयोस्तात श्रदया परयान्विता ।। २ ।।
पुष्पाणां करवीराणां गुग्गुलं साज्यमादिशेत् ।।
सप्तम्यां तात षष्ठ्यां वै उपवासरतिर्भवेत् ।। ३ ।।
इंद्रनीलप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
वर्षायुतशतं साग्रं सूरलोके महीयते ।। ४ ।।
तथा च सर्वलोकेषु भोगमासाद्य यत्नतः ।।
क्रमादागत्य लोकेऽस्मिन्यथेष्टं विंदते पतिम् ।। ५ ।।
इत्येवं सर्वयज्ञेषु विधिस्तुल्यः प्रकीर्तितः ।।
एकभक्तोपवासस्य फलं च सदृशं भवेत् ।। ६ ।।
क्षमा सत्यं दया दानं शौचमिंद्रियनिग्रहः ।।
सूर्यपूजाग्निहवनं संतोषः स्तेयवर्जनम्।।७।।
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।।
निःशेषमहं वक्ष्यामि मासान्मासव्रतं प्रति ।। ८ ।।
मार्गशीर्षे शुभे मासि व्योमपृष्ठे विनिर्मितम् ।।
गंधमाल्यैरलंकृत्य शुभाननमनौपमम्।। ९ ।।
ताम्रपात्रादिकैश्चैवाप्यप्सरोगणसेवितैः ।।
सुमेरौ दशसाहस्रे सूर्यलोके महीयते ।। 1.168.१० ।।
सर्वदेवकदंबेषु संप्राप्य विमलां श्रियम् ।।
क्रमादागत्य लोकेऽस्मिन्राजानं पतिमाप्नुयात् ।।
पुष्पैरमुमलंकृत्य भानवे विनिवेदयेत् ।। ११ ।।
गंधमाल्यैरलंकृत्य शुभाननमनौप मम् ।।
ताम्रपात्रादिकांस्यं वा कृत्वा तत्र निवेदयेत् ।। १२ ।।
महापुष्पकयानेन दिव्यगंधप्रवाहिना ।।
सुमेरौ दशसाहस्रं सूर्यलोके महीयते ।।१३।।
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेषु भारत ।।
संप्राप्यैतं क्रमाल्लोकं यथेष्टं विदते पतिम्।।१४।।
माघे रथमश्वयुजं दीपमाल्यविभूषितम्।।
पिष्टसानुसमा युक्तं कृत्वायतनमानयेत्।।१५।।
महारथोपमैर्यानैः श्वेताश्ववरसंयुतैः ।।
वर्षायुतशतं साग्रं सूर्यलोके महीयते।।१६।।
सर्वामराणां लोकेषु प्राप्य भोगान्यथेप्सितान्।।
क्रमादागत्य लोकेऽस्मिन्यथेष्टं पतिमाप्नुयात् ।।१७।।
प्रतिमां फाल्गुने मासि कृत्वा पिष्टमयी रवेः ।।
गंधमाल्यैरलंकृत्य स्थापयेद्भास्करा लये।।१८।।
यानैरप्रतिमैर्दिव्यैर्गीतनादसमाकुलैः।।
सुमेरौ दशसाहस्रं सूर्यलोके महीयते ।।१९।।
सर्वाभिमतलोकेऽस्मिन्प्राप्य भोगान्यथेप्सितान्।।
पुनरेत्य इमं लोकं यथेष्टं विंदते पतिम् ।।1.168.२०।।
कृत्वारुणं तथा चैत्रे गंधमाल्योपशोभितम् ।।
स्थाप्य पात्रे यथोक्ते तु भास्कराय निवेदयेत् ।।२१।।
शरदिंदुप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
वर्षायुतशतं साग्रं सूर्यलोके महीयते ।। २२।।
कर्मक्षयादिहागत्य पुत्रपौत्रसमन्वितम् ।।
अभीष्टं पतिमासाद्य लभेद्भोगान्त्सुदुर्लभान् ।। २३ ।।
तंडुलाढकपिष्टेन कृत्वा वै मेरुपर्वतम् ।।
निक्षुभार्कसमायुक्तं सर्वधातुविभूषितम् ।। २४
नानालंकारसंपन्नं नानामाल्यविभूषितम् ।।
सर्वरत्नसमायुक्तं स्थापयेद्भास्करालये ।। २५ ।।
महद्व्योमव्रतं ह्येतद्वैशाखे यः समाचरेत् ।।
नानाविधैश्च यानैस्तु सूर्यलोके महीयते ।। २६ ।।
सौरादिसर्वलोकेषु भुक्त्वा भोगानशेषतः ।।
क्रमादागत्य लोकेऽस्मिन्राजानं पतिमाप्नुयात् ।। २७ ।।
द्वितीयं च तथा पद्ममाषाढे पिष्टमुत्तमम् ।।
सर्वबीजरसैः पूर्णं कृत्वा तु शुभ्रलक्षणम् ।।
नानाकेशरगंधाढयं सर्वरत्नविभूषितम् ।। २८ ।।
एतैर्वा हैमभिर्यानैः सर्वभोगान्वितैर्नृप ।।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ।।२९।।
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात् ।।
प्राप्ता तु सर्वभोगाढयं तरुणं विंदते पतिम् ।। 1.168.३० ।।
सर्वधातुसमाकीर्णं विचित्रध्वजशोभितम् ।।
निवेदयेत सूर्याय श्रावणे तिलपर्वतम् ।। ३१ ।।
स्वच्छंदगामिभिर्यानैर्नाना वर्णविभूषितैः ।।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ।। ३२ ।।
संप्राप्य विविधान्भोगान्बह्वाश्चर्यसमन्वितान् ।।
क्रमाल्लोकमिमं प्राप्य राजानं विंदते पतिम् ।। ३३ ।।
कृत्वा भाद्रपदे मासि व्योम शालिमयं नृप ।।
वितानध्वजच्छत्राढ्यं नानामालाविभूषितम् ।। ३४ ।।
तरुणार्ककरप्रख्यैर्महा यानैः सुशोभनै ।।
वर्षकोटिसहस्राणि सूर्यलोके महीयते ।। ३५ ।।
संप्राप्य विविधान्भोगान्त्सर्वान्निमिषसंभवान् ।।
क्रमादागत्य लोकेऽस्मिन्राजानं विंदते पतिम् ।। ३६ ।।
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् ।।
सुवर्णवस्त्रगंधाढ्यं भास्कराय निवेदयेत् ।। ३७ ।।
सावित्रैश्च महायानैर्वरभोगसमन्वितैः ।।
वर्षकोटिसहस्राणि सूर्यलोके महीयते ।। ३८ ।।
सूर्यलोकादिलोकेषु भुक्त्वा भोगान्यथेप्सितान् ।।
अस्मिँल्लोके चा संप्राप्ता राजानं विंदते पतिम् ।।
चन्द्राग्निभास्कराणां तु कांतितेजःप्रभान्वितम् ।। ३९ ।।
यंयं कामं समुद्दिश्य नरनारीनपुंसकाः ।।
पूजयंति रविं भक्त्या तत्सर्वं प्राप्नुवंति हि ।। 1.168.४० ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु कामप्रदस्त्रीव्रतवर्णनं नामाष्ट षष्ट्युत्तरशततमोऽध्यायः ।। १६८ ।।