सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५८

विकिस्रोतः तः

सौरधर्मेषु सूर्योत्पत्तिवर्णनम्

सुमंतुरुवाच ।। ।।
प्रश्नभारो महांस्तात त्वयोक्तो रश्मिमालिनि ।।
यथाशक्ति तु वक्ष्यामि श्रूयतां भानवं यशः ।। १ ।।
भानोः प्रभावश्रवणे यस्य ते मतिरुत्थिता ।।
हंत भानोः प्रवृत्तिं च शृणु दिव्यां मयेरिताम् ।। २ ।।
सहस्रास्यं सहस्राक्षं सहस्रकिरणं च यम् ।।
सहस्रशिरसं देवं सहस्रकरम व्ययम् ।। ३ ।।
सहस्रजिह्वं भास्वंतं सहस्रमुकुटं प्रभुम् ।।
सहस्रदं सहस्रारिं सहस्रभुजमव्ययम् ।। ४ ।।
सवनं भवनं चैव हव्यं होतारमेव च ।।
पात्राणि समतीतानि वेददीक्षी चरुं शुभम् ।। ५ ।।
श्रोत्रियं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् ।।
अध्वर्युं सामगं विप्रं सदस्यं सदनं तथा ।। ६ ।।
यूपं समित्स्रुवं दर्वीं मुसलोलूखलानि च ।।
प्राग्वंशं जयभूतिं च होतारं चयनं च यत् ।। ७ ।।
रहस्यानि प्रमाणानि स्थावराणि चराणि च ।।
प्रतिष्ठितानि दार्ढ्यं च स्थंडिलानि कुशांस्तथा ।। ८ ।।
मंत्रयज्ञवहं वह्निभागं भार्गवमेव च ।।
अग्रेभुजी सोमभुजां यश्च त्रिषु उदाहृतः ।। ९ ।।
आयुर्वेदविदो विप्रा यजंते शाश्वतं विभुम् ।।
तस्य भानोः सुरेशस्य वीर चंदनमालिनः ।। 1.158.१० ।।
प्राहुर्भावसहस्राणि समतीतान्यनेकशः ।।
भूयश्चैव भविष्यंति विनश्यंति दिनेदिने ।। ११ ।।
यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् ।।
यदर्थं भगवान्भानुः कश्यपस्य सुतोऽभवत् ।। १२ ।।
तामहं त्वं प्रवक्ष्यामि शृणु सर्वमशेषतः ।।
हितार्थं सर्वमर्त्यानां लोकानां प्रभवाय च ।। १३ ।।
बहुशः सर्वभूतात्मा स्वयं समभिजायते ।।
तथा समभवद्देवः कश्यपस्यादितेः सुतः ।। १४ ।।
तुष्टो दत्त्वा वरं वीर विरञ्चस्य महात्मनः ।।
यं यं जनयते पुत्रमदितिः कश्यपाद्विभोः ।। १५ ।।
स स याति विनाशं वै तत्क्षणादेव भारत ।।
दृष्ट्वा सुतान्नश्यमानान्पुत्रशोकान्विता ऽदितिः ।। १६ ।।
जगाम कश्यपाभ्याशे शोकव्याकुलितेक्षणा ।।
सापश्यत्तं च मारीचं मुनिं दीप्तं तपोनिधिम् ।। १७ ।।
आद्यं देवगुरुं विप्रं दिव्यं त्रिषवणांबुभिः ।।
तेजसा वह्निसंकाशं सौरं वृकसमप्रभम् ।। १८ ।।
न्यस्तदण्डश्रिया युक्तं बद्धकृष्णाजिनांबरम् ।।
वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसम् ।। १९ ।।
हुताशमिव दीव्यन्तं तपन्तमिव भास्करम् ।।
अथादितिश्च दृष्ट्वैवं भर्तारममितौजसम् ।। 1.158.२० ।।
शोकगद्गदया वाचा इदं वचनमब्रवीत् ।।
किमर्थं भगवान्देवो निरुद्योगस्तु तिष्ठति ।। २१ ।।
जातोजातो हि मे पुत्रः सद्य एव विनश्यति ।।
श्रुत्वा तु वचनं तस्याः कश्यपो मुनिसत्तमः ।। २२ ।।
चकार गमने बुद्धिं ब्रह्मलोकं प्रति प्रभो ।।
स गत्वा ब्रह्मभवनं नानाभावसमन्वितम् ।। २३ ।।
तद्वाक्य मुक्तं तं सर्वं यदुक्तं तस्य जायया ।।
कश्यपस्य वचः श्रुत्वा कञ्जजो वाक्यमब्रवीत् ।। २४ ।।
पुत्र गच्छाम सदनं भानोः परमदुर्लभम्।।
इत्युक्त्वा यानमारुह्य आग्नेयं पद्मलोचनः ।। २५ ।।
वेधा जगाम भवनमादित्यस्य महात्मनः ।।
अदितिः कश्यपो ब्रह्मा जग्मुर्विपुलमाश्रिताः ।। २६ ।।
ते मुहूर्तेन संप्राप्ताः सूर्यलोकं सुवर्चसम् ।।
दिव्यकामगमैर्यानैर्यथार्हं कुरुनन्दन ।। २७ ।।
आदित्यं प्रष्टुमिच्छंति तेजसां राशिमुत्तमम् ।।
गच्छन्तस्ते च विस्तीर्णामादित्यस्य परां सभाम् ।। २८ ।।
षट्पदोद्गीतनिनदां साभगैस्तु समीरिताम् ।।
क्रतवो बह्वृचमुखाः प्रोक्ताः पुण्यवदक्षराः ।। २९ ।।
तुष्टुवुः पुरुषव्याघ्रं विततेषु च कर्मसु ।।
यज्ञसन्धौ वेदविदां पदक्रमविदां तथा ।। 1.158.३० ।।
घोषेण परमर्षीणां सर्वं तत्र निनादितम् ।।
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः ।। ३१ ।।
अष्टादशपुराणज्ञैः सर्वविद्याविशारदैः ।।
मीमांसाहेतुवादज्ञैः सर्ववादविशारदैः ।। ३२ ।।
लोकायतिकमुख्यैश्च तुष्टुवुः सूर्यमीरितम् ।।
तत्रतत्र च विप्रेन्द्रान् नियताञ्छंसितव्रतान्।।३३।।
जपहोमपरान्योग्यान्ददृशुः कश्यपादयः ।।
तस्यां सभायामास्ते स रश्मिमाली दिवाकरः ।। ३४ ।।
सुरासुरगुरुः श्रीमाञ्छुशुभे वीर मायया ।।
उपासते च तत्रैव प्रजानां पतिमीश्वरम् ।। ३५ ।।
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः ।।
भृगुरत्रिर्वशिष्ठश्च गौतमो नारदस्तथा ।। ३६ ।।
दिव्या आत्मांतरिक्षं च वायुस्तेजोबलं मही ।।
शब्दः स्पर्शः स्वरूपं च रसगन्धौ तथैव च ।। ३७ ।।
प्रकृतिश्च विकाराश्च यच्चान्यत्कारणं महत् ।।
सांगोपागाश्च चत्वारो वेदा लोकपते तथा ।। ३८ ।।
लवाश्च ऋतवश्चैव संकल्पप्रणवास्तथा ।।
एते चान्ये च बहवो भानुमंतमुपासते ।। ३९ ।।
अर्थो धर्मश्च कामश्च मोक्षश्च सविशेषतः ।।
द्वेषो हर्षश्च मोहश्च मत्सरो मान एव च ।। 1.158.४० ।।
वृको विष्णुसुतः पुत्रः पुष्पजो धिषणस्तथा ।।
माहेश्वरस्तथा सौरो विटपो विकचस्तथा ।। ४१ ।।
मारुतो विश्वकर्मा च अश्वि नावन्यवाहनौ ।।
एवमुक्तः सुवचनैर्भानुना प्रभविष्णुना ।। ४२ ।।
जगाम कश्यपो वीर सहादित्या स्वमाश्रमम् ।।
अदितिर्देवमाता च तं गर्भं निदधे स्वयम् ।। ४३ ।।
भूतात्मानं महात्मानं दिव्यं वर्षसहस्रकम् ।।
पूर्णे वर्षसहस्रे तु प्रवृत्तो गर्भ उत्तमः ।। ४४ ।।
सुराणां शरणं देवश्चासुराणां विनाशनः ।।
गर्भस्थेन तु तेनैव परित्रातः सुतस्तथा ।। ४५ ।।
आददानस्तु तेजांसि त्रैलोक्यस्य नराधिप ।।
तस्मिञ्जाते तु देवेशे त्रैलोक्यस्य सुखावहे ।। ४६ ।।
प्रहत्य दैत्यसंघांश्च सुराणां नादवर्धने ।।
अभवत्परमानन्दः सर्वेषां तत्र तस्थुषाम् ।। ४७ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्योत्पत्तिर्नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः ।। १५८ ।।