सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५३

विकिस्रोतः तः

सूर्यतेजोवर्णनम्

सुमन्तुरुवाच
सुमतिश्च रवेर्भक्तः पाण्डवेय महामते ।
अतस्ते निखिलं वच्मि शृणुष्वैकमना नृप । । १
कल्पादौ सृजतो वीर ब्रह्मणो विविधाः प्रजाः ।
अहंकारो महानासीन्नास्ति लोके मदुत्तमः । । २
तथा पालयतो वीर केशवस्य धरापते ।
तथा संहरतो जज्ञेऽहङ्कारस्त्र्यम्बकस्य च । । ३
चिंतयन्तोथ ते देवाः केशवश्च नराधिप ।
मिथस्ते स्पर्धया युक्ताः परस्परविरोधिनः । । ४
विवादस्तु महानासीत्कञ्जाम्बुनगौकसाम् ।
परस्परं महाबाहो मनसाश्रित्य केवलम् । । ५
अहं कर्ता विकर्ताऽहं पालकोऽहं जगत्प्रभुः ।
इत्याह भगवान्ब्रह्मा कृष्णभीमौ समर्चितौ । । ६
तथैत्य शंकरः क्रुद्धः कः शक्तो मदृते भुवि ।
संहर्तुं जगदेतद्धि स्रष्टुं पालयितुं तथा । ।७
नारायणोऽप्येवमेव मनाक् क्रोधसमन्वितः ।
न वा शक्तो जगत्स्रष्टुं संहर्तुं रक्षितुं तथा । । ८
एवं तेषां प्रवदतां क्रुद्धानां च परस्परम् ।
समाविशत्तदाऽज्ञानं तमो मोहात्मकं विभो । । ९
तेन क्रान्तधियः सर्वे न पश्यन्ति परस्परम् ।
अत्यर्थं मोहमापन्ना न जानन्तीह किञ्चन । । 1.153.१०
अपश्यन्तो मिथस्ते तु निषण्णाः क्ष्मातले विभो ।
आरमन्ति हि ये चान्ये ते दिवाकरमास्थिताः । । ११
तमसा मोहिताः सर्वे निद्रावत्क्रान्तचेतसः ।
मनाग्ज्ञानेन चाक्रान्ताः किं कुर्यामेति मोहिताः । । १२
अथ भूताधिपो देवो गोश्रुताभरणोज्ज्वलः ।
चन्द्रार्धकृतशोभस्तु शीतलांशुविशोधितः । । १३
आर्तिमेत्य परां वीर मोहितस्तमसा विभो ।
अपश्यन्नब्रवीद्देवं माधवं भूधरं हरिम् । । १४
महादेव उवाच
कृष्ण कृष्ण महाबाहो क्व गतस्त्वं महामते ।
ब्रह्मा च क्व गतो वीर नाहं पश्यामि वां क्वचित् । । १५
मोहेन महताहं वै तमसा च विमोहितः ।
किं करोमि क्व गच्छामि क्व चाहमधुना स्थितः । । १६
क्ष्माधरं पृथिवीं वृक्षान् देवगन्धर्वदानवान् ।
विपुलं सागरं सिन्धून्नहि पश्यामि किञ्चन । । १७
केनोपायेन पश्येयं जगत्स्थावरजङ्गमम् ।
ब्रूहि मे देवशार्दूल व्रीडा मेऽतीव जायते । । १८
शङ्करस्य वचः श्रुत्वा हरिर्वचनमब्रवीत् ।
शोकगद्गदया वाचा तमसा मोहितो नृप । । १९
विष्णुरुवाच
भीम भीम न जानेऽहं क्व भवान्वर्ततेऽधुना ।
ममापि मोहितं चेतस्तमसातीव शङ्कर । । 1.153.२०
क्व गच्छामि क्व तिष्ठामि कथं तत्स्वस्थतां व्रजेत् ।
तमसा पूरितं सर्वं जगद्धि परमेश्वर । । २१
यद्यसौ दृश्यते देवः सुरज्येष्ठोऽम्बुजोद्भवः ।
पृच्छावस्तं महात्मानं यदि ते रोचते हर । । २२
हित्वा दर्पमहङ्कारं सममास्थाय केवलम् ।
पद्माननं पद्मयोनिं पद्मपत्रनिभेक्षणम् । । २३
इत्येवं गदतो वाक्यं विष्णोरमिततेजसः ।
श्रुत्वोवाच विभुर्ब्रह्मा गङ्गाधरमहीधरौ । । २४
कृष्ण कृष्ण महाबाहो भीम भीम महामते ।
क्व भवन्तौ ब्रूत किं च किं युवामूचथुर्मिथः । । २५
ममातीव मनोबुद्धी तमसा वशमागते ।
न शृणोमि न पश्यामि निद्रामोहवशं गतः । । २६
अहो बत जगत्सर्वं सदेवासुरमानुषम् ।
तमसा व्याष्टतं देवौ न जाने क्व गतं महः । । २७
अथ तेषां प्रवदतां ब्रह्मादीनां दिवौकसाम् ।
दर्पक्रोधभयार्तानां तमसाक्रान्तचेतसाम् । । २८
तेषां दर्पापहाराय प्रबोधार्थं च गोपतेः ।
तेजोरूपं समुद्भूतमष्टशृङ्गमनौपमम् । । २९
अलक्ष्यं पापतमसा महद्व्योम नराधिप ।
ज्वालामालावृतं वीर बहुरूपं च भासते । । 1.153.३०
शतयोजनविस्तीर्णं गतमूर्ध्वं भ्रमत्तथा ।
गोमध्यतो महाराज कर्णिकेवाम्बुजस्य तु । । ३१
प्रकाशं तेजसा तस्य जगत्सर्वमिदं नृप ।
पुरेष्वन्तर्यथा वीर अम्बुजस्यार्चिभिः सदा । । ३२
दृष्ट्वा परस्परं सर्वे हुङ्कारादिविकारिणः ।
तेजसा मोहितास्तस्य जगत्सर्वमिदं नृप । । ३३
तेजसा मोहितं तस्य महद्व्योम नराधिप ।
ततो विस्मयमासीनः दृष्टगोपतयो नृप । । ३४
पश्यमाना महो व्योम्नि मिथो वचनमब्रुवन् ।
अहो तेजः समुद्धूतमस्माकं श्रेयसे नृप । । ३५
प्रकाशाय च लोकानां सर्वे पश्याम किं न्विदम् ।
ज्ञानायोर्ध्वं गतो ब्रह्मा चाधस्तात्त्रिपुरान्तक. । । ३६
तिर्यग्जगाम देवेशश्चक्राम्बुजगदाधरः ।
अलब्ध्वा तस्य ते सर्वे प्रमाणं गैरिकाधिपाः । । ३७
विस्मयोत्फुल्लनयना समागम्य परस्परम् ।
सर्वे कञ्जादिका देवा इदं वचनमब्रुवन् । । ३८
कोऽयं किमात्मकश्चायं किमिदं तेजसां निधिः ।
अहोऽस्य दर्शनात्सर्वे सञ्जाता ज्ञानिनो वयम् । । ३९
तस्मात्सर्वे प्रणम्यैनं स्तुवीमोऽद्भुतदर्शनम् ।
कृताञ्जलिपुटाः सर्वे चास्तुवंस्त्रिदिवौकसः । । 1.153.४०
स्तुवतामप्यथैतेषां सहस्रकिरणो रविः ।
आत्मानं दर्शयामास कृपया परया वृतः । । ४१
ज्ञात्वा भक्तिं महाबाहो ब्रह्मादीनां महोपमाम् ।
अथ ते व्योम्नि देवेशं ददृशुः परमेश्वरम् । । ४२
खषोल्कलोकनाथेशं सहस्रकिरणोज्ज्वलम् ।
कृत्तिकाभिरसंस्पृष्टं यद्वा तत्कार्तिकास्थितम् । । ४३
दुर्जयं कृत्तिकानां तु तथैकेन विवर्जितम् ।
तथा हस्तविहीनं च सप्तर्षिरहितं तथा । । ४४
वर्षाब्दरहितं देवं सप्तस्वरविवर्जितम् ।
सकलं निष्कलं चैव सदैकाकाररूपिणम् । ।४५
तद्दृष्ट्वानेकशिरसमनेकचरणं तथा ।
अनेकोदरबाह्वंसमनेकाभरणान्वितम् । ।४ ६
अनेकाननमक्षीबं सहस्राक्षमनौपमम् ।
अनेकवर्णरूपं च अनेकमुकुटोज्ज्वलम् । ।४७
दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः ।
विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् । । ४८
कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे ।
प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् । । ४९
ब्रह्मोवाच
नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल ।
लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ । । 1.153.५०
भास्कराय नमो नित्यं खषोल्काय नमोनमः ।
विष्णवे कालचक्राय सोमायामिततेजसे । । ५१
नमस्ते पञ्चकालाय इन्द्राय वसुरेतसे ।
खगाय लोकनाथाय एकचक्ररथाय च । । ५२
जगद्धिताय देवाय शिवायामिततेजसे ।
तमोघ्नाय सुरूपाय तेजसां निधये नमः । । ५३
अर्थाय कामरूपाय धर्मायामिततेजसे ।
मोक्षाय मोक्षरूपाय सूर्याय च नमोनमः । । ५४
क्रोधलोभविहीनाय लोकानां स्थितिहेतवे ।
शुभाय शुभरूपाय शुभदाय शुभात्मने । । ५५
शान्ताय शान्तरूपाय शान्तयेऽस्मासु वै नमः ।
नमस्ते ब्रह्मरूपाय ब्राह्मणाय नमोनमः । । ५६
ब्रह्मदेवाय ब्रह्मरूपाय ब्रह्मणे परमात्मने ।
ब्रह्मणे च प्रसादं वै कुरु देव जगत्पते । । ५७
एवं स्तुत्वा रविं ब्रह्मा श्रद्धया परया विभो ।
तूष्णीमासीन्महाभाग प्रहृष्टेनान्तरात्मना । । ५८
ब्रह्मणोऽनन्तरं रुद्रः स्तोत्रं चक्रे विभावसोः ।
त्रिपुरारिर्महातेजाः प्रणम्य शिरसा रविम् ।।५९
महादेव उवाच
जय भाव जयाजेय जय हंस दिवाकर ।
जय शम्भो महाबाहो खग गोचर भूधर ।।1.153.६०
जय लोकप्रदीपेन जय भानो जगत्पते ।
जय काल जयानन्त संवत्सर शुभानन ।।६ १
जय देवादितेः पुत्र कश्यपानन्दवर्धन ।
तमोघ्न जय सप्तेश जय सप्ताश्ववाहन ।।६२
महेश जय कान्तीश जय कालेश शङ्कर ।
अर्थकामेश धर्मेश जय मोक्षेश शर्मद ।।६३
जय वेदाङ्गरूपाय ग्रहरूपाय वै नमः ।
सत्याय सत्यरूपाय सुरूपाय शुभाय च ।।६४
क्रोधलोभविनाशाय कामनाशाय वै जय ।
कल्माषपक्षिरूपाय यतिरूपाय शम्भवे ।।६५
विश्वाय विश्वरूपाय विश्वकर्माय वै जय ।
जयोङ्कार वषट्कार स्वाहाकार स्वधामय ।।६६
जयाश्वमेधरूपाय चाग्निरूपार्यमाय च ।
संसारार्णवपीताय मोक्षद्वारप्रदाय च ।।६७
संसारार्णवमग्नस्य मम देव जगत्पते ।
हस्तावलम्बनो देव भव त्वं गोपतेऽद्भुत ।।६८
ईशोऽप्येवमहीनाङ्गं स्तुत्वा भानुं प्रयत्नतः ।
विरराम महाराज प्रणम्य शिरसा रविम् ।।६९
अथ विष्णुर्महातेजाः कृताञ्जलिपुटो रविम् ।
उवाच राजशार्दूल भक्त्या श्रद्धासमन्वितः ।।1.153.७०
विष्णुरुवाच
नमामि देवदेवेशं भूतभावनमव्ययम् ।
दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम् ।।७१
इन्द्रं विष्णुं हरिं हंसमर्कं लोकगुरुं विभुम् ।
त्रिनेत्रं त्र्यक्षरं त्र्यङ्गं त्रिमूर्तिं त्रिगतिं शुभम् । ।७२
षण्मुखाय नमो नित्यं त्रिनेत्राय नमोनमः ।
चतुर्विंशतिपादाय नमो द्वादशपाणये । ७३ ।
नमस्ते भूतपतये लोकानां पतये नमः ।
देवानां पतये नित्यं वर्णानां पतये नमः । ।७४
त्वं ब्रह्मा त्वं जगन्नाथो रुद्रस्त्वं च प्रजापतिः ।
त्वं सोमस्त्वं तथादित्यस्त्वमोंकारक एव हि । । ७५
बृहस्पतिर्बुधस्त्वं हि त्वं शुक्रस्त्वं विभावसुः ।
यमस्त्वं वरुणस्त्वं हि नमस्ते कश्यपात्मज । । ७६
त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् ।
त्वत्त एव समुत्पन्नं सदेवासुरमानुषम् । । ७७
ब्रह्मा चाहं च रुद्रश्च समुत्पन्ना जगत्पते ।
कल्पादौ तु पुरा देव स्थितये जगतोऽनघ । । ७८
नमस्ते वेदरूपाय अहोरूपाय वै नमः ।
नमस्ते ज्ञानरूपाय यज्ञाय च नमोनमः । ।७९
प्रसीदास्मासु देवेश भूतेश किरणोज्ज्वल ।
संसारार्णवमग्नानां प्रसादं कुरु गोपते । ।1.153.८०
वेदान्ताय नमो नित्यं नमो यज्ञकलाय च । ।
सुमन्तुरुवाच
स्तुत्वैवं भास्करं भक्त्या विष्णुर्भरतसत्तम ।
प्रदध्यौ नृपशार्दूल रविं तद्गतमानसः । ८१
एवं ते नरशार्दूल देवा ब्रह्मादयोऽनघ ।
स्तुवन्ति तं महात्मानं सहस्रकिरणं रविम् । । ८२
इत्येवं स्तुवतां तेषां रविं भक्त्या महात्मनाम् ।
अथ तुष्टो रविस्तेषां ब्रह्मदीनां जगत्पतिः । ८३
विज्ञाय भक्तिं परमां श्रद्धां च परमां विभुः ।
उवाच स महातेजाः प्रहृष्टेनान्तरात्मना ।८४
ग्रहेशो व्योम चारूढस्तेजसा प्रज्वलन्दिशः ।
ब्रह्माणं विष्णुमीशानमामन्त्र्यैतान्विशांपते । ।८५
दृष्ट्वा तान्प्रणतान्त्सर्वाञ्छिरोभिरवनिं गतान् ।
तुष्टोऽस्मि ते सुरज्येष्ठ चतुर्मुख जगत्पते । ।
वरं वरय भद्रं ते मनसा त्वं यदिच्छसि ।।८६
कृत्वा तु वचनं भानोर्ब्रह्मा लोकगुरुर्नृप ।
जगाम शिरसा भूमावुवाच स कृताञ्जलिः ।।८७
ब्रह्मोवाच
कृतकृत्योऽस्मि देवेश पूतश्चास्मि खगाधिप ।
धन्योऽस्म्यनुगृहीतोऽस्मि गतोऽस्मि परमां गतिम् । ।८८
सहस्रकिरणैर्यन्मे भवान्दर्शनमागतः ।।८९
अपश्यतश्च देवेश मूढमासीन्मनो मम ।
भगवन्सम्प्रसीद त्वं ममोपरि विभावसो । ।1.153.९ ०
प्रयच्छ त्वं बलं भक्तिमात्मनो मम गोपते ।
गत्वा शिरोभिरवनिमष्टाङ्गैः पतितस्य च । ।
भक्त्या विज्ञप्तिमाकर्ण्य प्रसादं कुरु गोपते । । ९१
ब्रह्मणो वचनं श्रुत्वा पूषा देवो जगत्पतिः ।
तथेत्याह महाराज विराट प्रश्रयान्वितम् । । ९२
ब्रह्मणे च वरं दत्त्वा राजन्देवो दिवाकरः ।
उवाच त्र्यम्बकं देवं शशाङ्ककृतशेखरम् । । ९३
वरं वरय भूतेश भूभृज्जादयितानघ ।
यमिच्छसि महादेव ददेऽहं तदशेषतः । । ९४
भास्करस्य वचः श्रुत्वा ईश्वरस्त्रिपुरान्तक ।
गत्वा तु शिरसा भूमौ प्रणम्योवाच भास्करम् । । ९५
महादेव उवाच
पुण्योऽहं पुण्यकर्माहं नास्ति धन्यतरो मम ।
गतोऽहं परमां सिद्धिं गतश्च परमां गतिम् । । ९६
नाप्राप्यमस्ति देवेश नासाध्यं मम किंचन ।
यस्य मे भगवान्देवः प्रसादप्रवणः स्थितः । । ९७
त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् ।
त्वत्त एव समुत्पन्नं लयं च त्वयि यास्यति । । ९८
यदि तुष्टो मम विभो अनुग्राह्योऽस्मि ते यदि ।
अचलां देहि मे भक्तिमात्मनश्चरणं नय । । ९९
व्योमकेशवचः श्रुत्वा पूषा देवो दिवाकरः ।
तथेत्याह हरं वीर ततो हरिमुवाच । । 1.153.१००
नारायण महाबाहो वरं वरय गोधर ।
परितुष्टोऽस्मि ते देव यमिच्छसि महाबल । । १०१
श्रुत्वा तु भास्करवचः कीलालजनको हरिः ।
उवाच परया भक्त्या नत्वा च शिरसा रविम् । । १०२
नारायण उवाच
जय देव जगन्नाथ जय देव गुरो रवे ।
प्रसीद मम देवेश भक्तिं यच्छात्मनो रवे । । १०३
येनाहं सर्वदेवानामुत्तमः स्यां जगत्पते ।
अजेयश्च तथा देव दैत्यदानवरक्षसाम् । । १०४
त्वद्भक्त्या बृंहितबलस्तेजसा महतान्वितः ।
ततो मया महत्कर्म कर्तव्यं तव शासनात् । । १०५
प्रजानां पालनं देव देवानां च ग्रहाधिप ।
वर्णानामाश्रमाणां च वर्णधर्मस्य वा विभो । । १०६
दुष्टदैत्यविनाशाय लोकानां पालनाय च ।
सृष्टोऽहं भवता पूर्वं कल्पादौ च कृतोऽनघ । । १०७
यस्य रुष्टो भवान्स्याद्वै कथञ्चित्पुरुषस्य तु ।
व्याधिर्दुःखं मनोरोगं दारिद्र्यं सन्ततिक्षयः । । १०८
तस्यैतानि भवन्तीह आधयो विविधास्तथा ।
तस्मात्त्वं च ततो देव संस्तव्यः सततं बुधैः । । १०९
एवं त्वां गोपते देव भक्त्या श्रद्धासमन्वितः ।
अहमर्चितुमिच्छामि तस्मान्मयि कृपां कुरु । । 1.153.११०

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यतेजोवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः । १५३ ।