भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५१

विकिस्रोतः तः

सौरधर्मवर्णनम्

सूत उवाच
अथ राजा महातेजाः शतानीको द्विजोत्तमम् ।
प्रणम्य शिरसा भक्त्या सुमन्तुं वाक्यमब्रवीत् । । १
अहो देवस्य माहात्म्यं भास्करस्यामितौजसः ।
कीर्तितं भवता मह्यं सर्वपापप्रणाशनम् । । २
तस्मान्नार्कसमं देवं लोके पश्यामि सुव्रत ।
न चाप्यस्य स्थिता विप्र गतिर्लोकेषु विद्यते । । ३
प्रवर्तते जगद्विप्र सर्गकाले दिवाकरात् ।
स्थितौ पालयते चापि कल्पान्ते संहरेत्पुनः । । ४
श्रुत्वैवं देवमाहात्म्यं भास्करस्यामितौजसः ।
कीर्तितं भवता मह्यमश्वमेधशताद्वरम् । । ५
किं तु मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते ।
केनोपायेन विप्रेन्द्र मुच्यते सम्भवार्णवात् । । ६
दिवाकरप्रसादाद्वै सुप्रसन्नाद्वृषध्वजात् ।
कथं तुष्येत्सदा देवो धर्मेण कतरेण तु । । ७
श्रुता मे बहवो धर्माः श्रुतिस्मृत्युदितास्तथा ।
वैष्णवाः शैवधर्माश्च तथा पौराणिकाः श्रुताः । । ८
श्रोतुकामो ह्यहं विप्र सौरं धर्ममनौपमम् ।
भगवन्सर्वधन्यास्ते सौरधर्मपरायणाः । । ९
ब्रूहि मे देवदेवस्य भानोर्धर्ममनौपमम् ।
शृण्वतो नास्ति मे तृप्तिरमृतस्यैवमेव च । । 1.151.१०
अश्वमेधादयो यज्ञा बहुसम्भारविस्तराः ।
न शक्यास्ते यतः कर्तुमल्पवित्तद्विजातिभिः । । ११
सुखोपायमतो ब्रूहि धर्मकामार्थसाधकम् ।
हिताय सर्वमर्त्यानां सर्वपापभयापहम् । । १२
सौरधर्मपरं पुण्यं पवित्रं पापनाशनम् ।
श्रुत्वा तु वचनं राज्ञो व्यासशिष्यो महामुनिः । ।
प्रणम्य शिरसा व्यासमिदं वचनमब्रवीत् । । १३
सुमन्तुरुवाच
श्रूयतामभिधास्यामि सुखोपायं महाफलम् ।
परमं सर्वधर्माणां सर्वधर्ममनौपमम् । । १४
रविणा कथितं पूर्वमरुणस्य विशांपते ।
कृष्णस्य ब्रह्मणो वीर शङ्करस्य न विद्यते । । १५
संसारार्णवमग्नानां सर्वेषां प्राणिनामयम् ।
सौरधर्मतमः श्रीमान्हिताय जगतोदितः । । १६
यैरयं शान्तहृदयैः सूर्यभक्तैर्भगार्थिभिः ।
संसेव्यते परो धर्मस्ते सौरा नात्र संशयः । । १७
एककालं द्विकालं वा त्रिकालं नित्यमेव च ।
ये स्मरन्ति रविं भक्त्या सकृदेवापि भारत । ।
सर्वपापैर्विमुच्यन्ते सप्तजन्मकृतैरपि । । १८
स्तुवन्ति ये सदा भानुं न ते प्रकृतिमानुषाः ।
स्वर्गलोकात्परिभ्रष्टास्ते ज्ञेया भास्करा भुवि । । १९
नानर्कः स्मरतेऽर्कं वै नानर्कोऽर्कं समर्चयेत् ।
नानर्कः कीर्तयेदर्कं नानर्कोऽर्कमवाप्नुयात् । । 1.151.२०
सौरधर्मस्य सारोऽयं सूर्यभक्तिः सुनिश्चला ।
षोडशाङ्गा च सा प्रोक्ता रविणेह दिवौकसाम् । । २१
प्रातः स्नानं जपो होमस्तथा देवार्चनं नृप ।
द्विजानां पूजनं भक्त्या पूजा गोश्वत्थयोस्तथा । । २२
इतिहासपुराणेभ्यो भक्तिश्रद्धापुरस्कृतम् ।
श्रवणं राजशार्दूल वेदाभ्यासस्तथैव च । । २३
मद्भक्त्या जनवात्सल्यं पूजायां चानुमोदनम् ।
स्वयमभ्यर्चयेद्भक्त्या ममाग्रे वाचकं परम् । । २४
पुस्तकस्य सदा श्रेष्ठ ममातीव प्रियं सुराः ।
मत्कथाश्रवणं नित्यं स्वरनेत्राङ्गविक्रिया । । २५
ममानुस्मरणं नित्यं भक्त्या श्रद्धापुरस्कृतम् ।
षोडशाड्गा भक्तिरियं यस्मिन्म्लेच्छेऽपि वर्तते । ।
विप्रेन्द्रः स मुनिः श्रीमान्सजात्यः स च पण्डितः । । २६
न मे पृथक्चतुर्वेदा मद्भक्तः श्वपचोऽपि यः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् । । २७
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति । । २८
यो मां सर्वगतं पश्येत्सर्वं च मयि संस्थितम् ।
तस्याहमास्थितो नित्यं स च नित्यं मयि स्थितः । । २९
अष्टादशार्धकक्षायाः परं चाष्टभिरुद्भवैः ।
रोधयित्वा महाबाहो तथा ज्ञानतरेण तु । । 1.151.३०
दुर्गपालं विजित्याशु भास्करार्धं तु दुर्जयम् ।
जित्वा च पुरराजानां महातेजमनौपमम् । । ३१
मनसाचलया भक्त्या यो मां ध्यायति मानवः ।
अहं तमेव चिंतामि आत्मवत्सततं नरम् । । ३२

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः । १५१ ।