भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १४७

विकिस्रोतः तः
← अध्यायः १४६ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः १४७
अज्ञातलेखकः
अध्यायः १४८ →

भोजकब्राह्मणवर्णनम्

वासुदेव उवाच
अत्र पृष्टो यथा देवो भास्करो देवपूजितः ।
अरुणेन महाबाहो के प्रिया भोजकास्तथा । । १
पूजायां तव के योग्याः के न योग्या भवन्ति च ।
इति पृष्टः स भगवानरुणेन दिवाकरः । ।
यदुवाच महाबाहो तदिहैकमनाः शृणु । । २
भास्कर उवाच
परदारान्परद्रव्यं ये न हिंसन्ति भोजकाः ।
ते प्रिया मम वै नित्यं ये न निंदन्ति दैवतान् । । ३
वाणिज्यं कृषिसेवां तु वेदानां निन्दनं च ये ।
कुर्वन्ति भोजका ज्ञेयाः सर्वे ते मम वैरिणः । । ४
येषां भार्यासङ्ग्रहणं कर्षणं ये प्रकुर्वते ।
नृपसेवां खगश्रेष्ठ विज्ञेयाः पतितास्तु ते । ।
भुञ्जते ये च शूद्रान्नं ज्ञेयास्ते शत्रवो मम । । ५
पूजा कृता तु या तैस्तु तथार्घ्यं च खगोत्तम ।
पूजां तामथ चाप्यर्घ्यं नाहं गृह्णामि खेचर । । ६
य एते कथिता वीर ये च शङ्खविवर्जिताः ।
निर्माल्यं ये मदीयं तु नैवेद्यं कुङ्कुमं तथा । । ७
शूद्राय ये प्रयच्छन्ति विकीर्णन्ति च ये खग ।
यच्छन्ति ये च वैश्याय भोजका मे न ते प्रियाः । । ८
यजन्ते ये च सावित्रीं महाश्वेतां च गोपतेः ।
ये न जानन्ति मे मुद्रां किङ्कराणां च नामतः । । ९
य एते१ कथिता वीर भोजकास्ते मया खग ।
नैते पूजयितुं शक्ता ये प्रिया मम भोजकाः । ।
ताञ्छृणुष्व खगश्रेष्ठ भूत्वा चैकाग्रमानसः । । 1.147.१०
देवद्विजमनुष्याणां पितॄणां चापि पूजकाः ।
ते प्रिया मम वै नित्यं शक्ताः पूजयितुं रविम् । । ११
येषां मुण्डं शिरो नित्यं ये चाभ्यङ्गसमन्विताः ।
वादयन्ति च ये शङ्खं दिव्यास्ते भोजका मताः । । १२
त्रिकालं ये च मां नित्यं सुस्नाताः क्रोधवर्जिताः ।
पूजयन्ति खगश्रेष्ठ ते प्रिया मम भोजकाः । । १३
वारे मदीये नक्तं तु षष्ठ्यां ये च प्रकुर्वते ।
सप्तम्यामुपवासं तु तथा सङ्क्रमणे मम । । १४
दिव्यास्ते ब्राह्मणा ज्ञेया भोजका मम पूजकाः ।
पूजयन्ति च ये विप्रान्मद्भक्ता मत्परायणाः । ।
ते प्रियाः सततं मह्यं भोजका गरुडाग्रज । । १५
मयि भक्तिं न कुर्वन्ति ब्राह्मणान्पूजयन्ति नो ।
न ते पूज्या न वन्द्याश्च ये द्विषन्ति च मां सदा । । १६
ये कुर्वन्ति महायज्ञान्भोजका गरुडाग्रज ।
पितृदेवमनुष्याणां पूजार्थं सन्ततं खग । । १७
प्रियास्ते सततं वीर भोजकानां तथोत्तमाः ।
तस्मात्सर्वप्रयत्नेन पञ्चयज्ञान्प्रवर्तयेत् । । १८
एकभक्तेन ये नित्यं वर्तन्ते कश्यपात्मज ।
भुञ्जते न च ये रात्रौ भोजकास्ते प्रिया मम । । १९
मम वारे च ये वीर तथा षष्ठ्यां च केशव ।
न रात्रौ भुञ्जते प्राज्ञा मत्प्रियास्ते मगाः खग । । 1.147.२०
प्रतिसंवत्सरं ये तु भोजका गरुडाग्रज ।
न यच्छन्ति पितुर्मातुर्दिवसे तेन मे प्रियाः । । २१
इत्थं भूता भोजका या माघमासे च सप्तमी ।
पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । । २२
वाचको ब्राह्मणानां तु नैवेद्यं मोदकास्तथा ।
घृताहुत्यो गुग्गुलश्च क्षीरेण स्नपनं तथा । । २३
वाद्यानां शङ्खशब्दश्च नृत्यं नाट्यं मतं मम ।
पञ्चवर्णा पताकास्तु श्वेतं छत्रं च मे प्रियम् । । २४
नान्यवर्णैः कृता पूजा तथा प्रीणाति मां खग ।
यथा कृता भोजकेन पूजा प्रीणाति मां सदा । ।
नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु । । २५
वासुदेव उवाच
इत्युक्त्वा भगवान्देवश्चारुणाय पुरानघ ।
लक्षणं भोजकानां तु ततो मेरुमथाक्रमत् । । २६
एवं भोज्या भोजकास्तु न चाभोज्याः कदाचन ।
अनुष्ठानविहीना ये न ते भोज्यास्तु भोजकाः । । २७
भौमास्तु ब्राह्मणा ये तु अनुष्ठानविवर्जिताः ।
तेऽप्यभोज्या भवन्तीह विकर्मस्था विशेषतः । । २८
नास्ति पूज्यतमं किञ्चिन्माङ्गल्यं पावनं तथा ।
चतुर्णामिह वर्णानां मुक्त्वा भोजकमुत्तमम् । ।
पूजिते भोजके वीर आदित्यः पूजितो भवेत् । । २९
भुञ्जते यस्य वै गेहे भोजका यदुनंदन ।
तस्य भुङ्क्ते स्वयं भानुर्ब्रह्मा विष्णुस्तथा शिवः । । 1.147.३०
यथेह सर्वसत्त्वानां प्रधानत्वे स्थितो रविः ।
तथेह सर्वभूतानां भोजकः पूज्य उच्यते । । ३१
तीर्थानां तु कुरुक्षेत्रं सरसां सागरो यथा ।
तथा पूज्यतमो ज्ञेयः पूज्यानां भोजको विभो । । ३२
विशेषेण च सौराणां भोजकः पूज्य उच्यते ।
भर्ता पूज्यो यया स्त्रीणां शिष्याणां च यथा गुरुः । ।
भोजकस्तु तथा पूज्यः सौराणां हृदिकात्मज । । ३३
यस्य भुङ्क्ते भोजकस्तु गन्धपुष्पादिनार्चितः ।
तस्य भुङ्क्ते स्वयं भानुः पितरो देवतास्तथा । । ३४
एवं पूज्यास्तथा भोज्या भोजका हृदिकात्मज ।
ये सौरा भोजकस्यान्नं भुञ्जते निर्विकल्पतः । ।
ते सर्वे पापनिर्मुक्ता यान्ति सूर्यसलोकताम् । । ३५
कथितो यत्र यो भोज्यो यथा भोज्यः स वर्जितः ।
अथ किं बहुनोक्तेन श्रूयतां वचनं मम । । ३६
नास्ति वेदात्परं शास्त्रं नास्ति गङ्गासमा सरित् ।
अश्वमेधसमं पुण्यं नास्ति पुत्रसमं सुखम् । । ३७
नास्ति भानुसमो देवो नास्ति मातृसमा गतिः ।
यथैतानि समस्तानि उत्तमानि यदूत्तम ।।
तथोत्तमो भोजकस्तु सम्प्रोक्तो भास्करेण तु । । ३८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकलक्षणवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः । १४७ ।