भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३६
सूर्यप्रतिष्ठावर्णनम्
नारद उवाच
अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् ।
सहस्रशीर्षा पुरुषो मण्डपं यत्नतो विशेत् । । १
ततोऽन्ये च शुचौ देशे असंस्पृष्टोपलेपने ।
मण्डलं पञ्चवर्णैस्तु आलिखेच्चतुरस्रकम् । । २ पताकातोरणच्छत्रध्वजमाल्याद्यलंकृतम् ।
विचित्रसुवितानाढ्यं प्रकीर्णकुसुमोत्करैः । । ३
तस्य मध्ये कुशास्तीर्णे मूर्तिः स्थाप्या विवस्वतः ।
तत्रास्यावाहनं कृत्वा दद्यादर्घ्यं विवस्वते । । ४
सुवर्णमधुपर्कादि कृत्वा१ तत्र विधानतः ।
देवस्य दर्शयेद्गां च सवत्सां रोहिणीं शुभाम् । । ५
नमो गोपतये तुभ्यं सहस्रांशो प्रसीद मे ।
एवमर्घ्येण सम्मन्त्र्य परिधाय च वाससी । । ६
यज्ञोपवीतमातिथ्यं तथाभ्यङ्गं तथैव च ।
वत्सरे वत्सरे तस्य नवमव्यङ्गमाहरेत् । । ७
श्रावणे मासि राजेन्द्र पवित्रं तस्य तद्धि वै ।
ब्राह्मणान्भोजयित्वा तु वर्षेवर्षे प्रयोजयेत् । । ८
अव्यङ्गं यदुशार्दूल श्रावणे मासि भास्करम् ।
सर्वगन्धैः समालभ्य चन्दनागुरुकुङ्कुमैः । । ९
अलङ्कारैरलङ्कृत्य कुसुमैश्च सुगन्धिभिः ।
मालाभिश्च विचित्राभिराबद्धाभिरनेकशः । । 1.136.१०
ततो धूपं निवेद्याशु प्रतिमाग्रे प्रयत्नतः ।
सहस्रशीर्षा पुरुषो मण्डपं च प्रवेशयेत् । । ११
नमः शम्भवेति मन्त्रेण शय्यायां विनिवेशयेत् ।
विश्वतश्चक्षुरित्येव कुर्यात्कमलनिष्कलम् । । १२
पुनरेव च वक्ष्यामि सङ्कलीकरणं शुभम् ।
स्नापने तु यथाकार्यः स्वदेहे न्यास उत्तमः । । १३
प्रतिमायां तथा कार्यो यथा चालम्भनं बुधः ।
ॐ हुं खषोल्काय नमो मूलमन्त्रः प्रकीर्तितः । । १४
आदित्योऽयं स्वयं देवो ह्यक्षरेणोपबृंहितः ।
ॐकारं विन्यसेन्मूर्ध्नि हुंकारं नासिकोपरि । । १५
खकारं च ललाटे तु षकारं वदने न्यसेत् ।
लकारं चैव कंठे तु ककारं हृदये न्यसेत् । । १६
यकारं तु भुजे वामे नकारं दक्षिणे भुजे ।
मकारं वामकुक्षौ च विसर्गं दक्षिणे न्यसेत् ।। १७
ॐकारं तु सदा ध्यायेज्ज्वालामालासमाकुलम् ।
हुङ्कारं शुद्धवर्णाभं प्रसुवन्तमलं शुभम् ।। १८
खकारं चिन्तयेत्प्राज्ञो भिन्नाञ्जनसमप्रभम् ।
तरुणादित्यवर्णाभं खकारं चिन्तयेद्बुधः ।। १९
षोकारं तु महाबाहो हेमवर्णं विचिन्तयेत् ।
शुक्लपद्मनिभाकारमकारं चिंतयेद्बुधः ।।1.136.२०
जातीकुसुमसंकाशं ह्रींकारं सर्ववर्णकम् ।
क्षीरवर्णं सकारं तु चिन्तयेत्सततं बुधः ।।२ १
नकारं हिमकुन्दाभं मकारममृताक्षरम् ।
ह्रींकारं विद्युत्संकाशं ह्रींकारं सर्ववर्णकम् ।।२२१
क्षीरवर्णं सकारं तु चिन्तयेत्सततं बुधः ।
नकारं स्वर्णवर्णाभं मकारं कनकप्रभम् ।।२३
ततो देवं महात्मानं सहस्रकिरणं रविम् ।
प्रसादाभिमुखं देवं शयनीये निवेशयेत् ।।२४
अग्निकार्यं ततः कुर्युरग्निकुण्डेषु वै द्विजाः ।
ततोऽरण्यां समुत्थाप्य अग्निं लौकिकमेव वा ।।२५
प्रज्वाल्याग्निं विधानेन कुर्याद्धोमं विचक्षणः ।
बह्वृचः पूर्वकाण्डेषु याम्यां मध्यन्दिनस्तथा ।।२६
पश्चिमे चैव च्छन्दोग उत्तरेऽथर्वणो मतः ।
मध्ये च भोजकः कुर्याद्धोमं यज्ञे यदुत्तम ।।२७
शमीपालाशोदुम्बराणि ह्यपामार्गस्तथैव च ।
द्वादश तु सहस्राणि अष्टौ चत्वारि एव च ।।२८
द्वे त्रीणि च सहस्राणि अथ वा एकमेव हि ।
अग्निर्मूर्धेति मन्त्रेण कुण्डस्यालम्भनं भवेत् ।।२९
उल्लिख्याभ्युक्ष्य तेनैव अग्निं दूतमिति स्मृताः ।
सम्बुध्यस्वाग्ने मन्त्रेण गर्भाधानं तु कारयेत् ।।1.136.३ ०
सीमन्तेति पुनस्तत्र महामन्त्रेण होमयेत् ।
जातकर्म तथा प्रोक्तं प्राणायामं विदुर्बुधाः । । ३१
नमः स्वाहेति मन्त्रेण नामकरणमेव च ।
अन्नप्राशनमन्त्रेण अन्नप्राशनमादिशेत् । । ३२
ज्येष्ठमग्रेति मन्त्रेण तेन चूडोपकर्मणि ।
व्रतबन्धस्य मन्त्रेण व्रतबन्धं समादिशेत् । । ३३
समावर्तनमित्येव आकृष्णेति च होमयेत् ।
पत्नीसंयोजनं चैव स्वयमेव प्रकल्पयेत् । । ३४
अग्निहोत्रादिकं कर्म यज्ञकर्माणि यानि च ।
महाव्याहृतिमन्त्रेण होतव्यानि समन्ततः । । ३५
मातॄणां यज्ञभूतानां बलिकर्म प्रदापयेत् ।
सर्वकामसमृद्ध्यर्थं कारयेदधिवासनम् । । ३६
त्रिरात्रं पञ्चरात्रं च अहोरात्रमथापि वा ।
ततः त्वलङ्कृतां स्नातां मणिरत्नैर्विभूषिताम् । । ३७
कृतरक्षां प्रयत्नेन प्रतिमामधिवासयेत् ।
देवागारादथैशाने दिग्भागे दिव्यमन्दिरम् । । ३८
कृत्वा कुशपरिस्तीर्णे वरास्तरणसंवृते ।
पूर्वशीर्षां तथा शय्यां शुक्लां शुक्लाम्बरोत्तराम् । । ३९ तस्यामावेशयेत्सम्यङ्महाश्वेतमुपाहरेत् ।
निक्षुभा दक्षिणे पार्श्वे वामे राज्ञी च कीर्तिता । । 1.136.४०
दण्डपिङ्गलकौ चास्य स्थितौ पादप्रवेशितौ ।
तस्यां संवेशितायां तु शर्वर्यां प्रतिमां रवेः । । ४१
वसेत्तां रजनीं तत्र स्तूयमानश्चतुदिशम् ।
ब्राह्मणैर्बन्दिभिश्चापि गीतज्ञैश्चारणैस्तथा । । ४२
कुर्याज्जागरणं तत्र सूर्यभक्तिसमन्वितैः ।
प्रभातायां तु शर्वर्यां बोधयेदृग्विधानतः । । ४३
हविष्यं भोक्तुकामांस्तु ब्राह्मणान्भोजकांस्तथा ।
दक्षिणाभिश्च सम्पूज्य तैः कृतस्वस्तिवाचनः । ।४४
ततो गर्भगृहस्थाय मध्ये कृत्वा तु पिण्डिकाम् ।
विधिवत्तत्र सौवर्णं न्यसेत्सप्तहयं रथम् । ।४५
सर्वबीजौषधैश्चैव तत्र धृत्वा विधानवित् ।
दत्त्वार्घ्यं स्थापयेत्तत्र यजमानः सहायवान् । । ४६ शङ्खदुन्दुभिनिर्घोषैर्जलधारासहाक्षतैः ।
कृत्या पुण्याहशब्दं तु आलयस्य प्रदक्षिणाम् । ।४७
शुभलग्ने दिने ऋक्षे पूर्वाह्णे भानवे क्षणे ।
मुहूर्ते च शुभे भानोः प्रतिमां स्थापयेद्बुधः । ।४८
नाधोमुखीं नोर्ध्वमुखीं न पार्श्वावनतां तथा ।
समामभिमुखीं चेमां प्रतिमां तु निवेशयेत् । ।४९
पत्न्यौ चास्य ततः सम्यक्पार्श्वयोर्विनिवेशयेत् ।
निक्षुभा दक्षिणे पार्श्वे रवे राज्ञी तु वामतः । । 1.136.५०
ततस्तदुपहारार्थं सम्भारं प्राक्तमाहृतैः ।
मोदकायूषिकापूपशष्कुलीभूतशीर्षकैः । । ५१
कृशरैः पायसोन्मिश्रैः सर्वदिक्षु क्षिपेद्बलिम् ।
इन्द्राय देवपतये बलिने वज्रपाणये । ।५ २
शतयज्ञाधिपतये तस्मै इन्द्राय ते नमः ।
त्रातारमिन्द्रमन्त्रेण इन्द्रस्यावाहनं भवेत् । । ५३
अग्नये रक्तनेत्राय ज्वालामालार्चिताय वै ।
शक्तिहस्ताय तीव्राय तथा चैवाजवाहिने । ।
आग्रेय्यामग्रिमन्त्रेण वह्नेरावाहनं स्मृतम् । । ५४
दण्डहस्ताय कृष्णाय महिषोत्तमवाहिने ।
सूर्यपुत्राय देवाय धर्मराजाय वै नमः । । ५५
यमाय त्विति मन्त्रेण मुद्रास्तस्यैव कीर्तिताः ।
नैर्ऋते खड्गहस्ताय नीललोहितकाय च । । ५६
सर्वबाह्याधिपतये विरूपाख्याय वै नमः ।
आयं गौरिति मन्त्रेण नैर्ऋत्यां तु प्रकल्पयेत् ।।५७
वारुण्यां पाशहस्ताय वरुणायेति कल्पयेत् ।
मन्त्रेणावाहनं विद्यात्पञ्चनद्यः सरस्वतीम् ।।५८
प्राणात्मकाय धूपाय अव्यङ्गायानिलाय च ।
ध्वजहस्ताय भीमाय नमो गन्धवहाय च ।।५९
तस्याप्यावाहनं विद्याद्यद्देवादेवहेडनम् ।
गदाहस्ताय सोमाय शुष्मिणे नृगताय च ।।1.136.६ ०
गदापट्टिशहस्ताय सोमराजाय वै नमः ।
ईशावास्यं च गुह्या वै सोममन्त्रः प्रकीर्तितः ।।६ १
चतुर्मुखाय देवाय पद्मासनगताय च ।
कृष्णाजिननिषण्णाय नमो लम्बोदराय च ।।६२
गणाधिपतये देव नीलकण्ठाय शूलिने ।
विरूपाक्षाय रुद्राय त्रैलोक्याधिपते नमः ।।
अभि त्वा शूर नो मन्त्र ईशानाय प्रकल्पयेत् ।।६ ३
सर्वनागाधिराजाय श्वेतवर्णाय भोगिने ।
सहस्रफणिने नित्यमनन्ताय नमोनमः ।।६४
नमोऽस्तु सर्पेभ्य इति मन्त्रश्चैव प्रकीर्तितः ।
पञ्चरात्रादिभिर्न्यासो ह्यंगन्यासः प्रयुज्यते ।।६५
तथोपक्षीरपानैश्च स्तुतिस्तोत्रैश्च भास्करम् ।
विप्रेभ्यो भोजकेभ्यश्च ततो दद्याच्च दक्षिणाम् ।।६६
सूर्यक्रतुं महापुण्यं नैव कुर्याददक्षिणम् ।
स्थाप्यतेऽनेन विधिना तद्भक्तैः प्रतिमा च या ।।६७
सा तु वृद्धिकरा नित्यं सान्निध्याच्च सदा भवेत् ।
सप्तजन्मसु तेषां तु न रोगाः सम्भवन्ति हि ।।६८
उपासते त्रिरात्रं ये भानोर्यात्राभिवासने ।
गन्धमाल्योपहारैस्तु ते यान्ति भुवनं रवेः ।।६९
आत्मीयं परकीयं वा प्रतिमास्थापनं रवेः ।
यः पश्यति पुमान्भक्त्या स स्वर्लोकमवाप्नुयात् । । 1.136.७०
दशानामश्वमेधानां वाजपेयशतस्य च ।
फलं प्राप्नोति पुरुषः प्रतिष्ठाप्य दिवाकरम् । । ७१
यावत्कीर्तिः पुण्यकृता भानोः स्थाने निवेशिते ।
तावत्स तु यदुश्रेष्ठ सूर्यलोके महीयते । । ७२
स्थापने चास्य वै मन्त्रः प्रोक्तो लोकेषु पूजितः ।
ध्रुवा द्यौश्च ध्रुवा पृथ्वी ध्रुवं विश्वमिदं जगत् । ।
श्रेयसे यजमानस्य तथा त्वं ध्रुवतां व्रज । । ७३
स्थापयित्वा रविं भक्त्या विधिदृष्टेन कर्मणा ।
मासे मासे ऋतुफलं लभन्ते नात्र संशयः । । ७४
एकाहेनापि यद्भानोः पूजया प्राप्यते फलम् ।
न तु क्रतुशतैर्वीर प्राप्यते मानवैर्भुवि । । ७५
कृत्वापि सुमहत्पापं यः पश्चात्सेवते रविम् ।
स याति सूर्यलोकं तु नरो विगतकल्मषः । । ७६
न भवेदिष्टकानां च द्रवणं भूमिसंमिति ।
स्वर्गे महीयते तावत्कारको देववेश्मनः । । ७७
खण्डस्फुटितसंस्कारं कृत्वा यत्फलमाप्यते ।
न तु क्रतुसहस्रैस्तु प्राप्यते फलमुत्तमम् । । ७८
सिकतायामपि गृहं यस्तु कुर्याद्विभावसोः ।
गोपतेः स प्रियसदः प्रगच्छेद्गोपतेर्वरम् । । ७९
इत्येवं सुरवरस्य तस्य भानोर्भूतानां स्थितिनिलयप्रसूतिहेतोः ।
श्रीभागी भवति नरो निकेतकारी कल्पानां वसति शतं स सूर्यलोके । । 1.136.८०
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रतिष्ठावर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः ।१३६ ।