भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२४

विकिस्रोतः तः
Jump to navigation Jump to search


ब्रह्मोवाच।।
वक्ष्याम्यहं ते पुनरेव दिंडे सूर्यस्य सर्वप्रवरप्रधानम्।।
व्योम्नः परं तिष्ठति यस्तु मग्नः स मुच्यते रुद्र इहापि दिंडी।।१।।
स्थित्वा पुरा ब्रह्मशिरः किलासौ प्रगृह्य तत्तस्य शिरःकपालम्।।
ततो ह्यसावाश्रममुत्तमं शिवो बहूदकैः पुष्पफलैः समृद्धम् ।। २ ।।
नग्नो यदा दारुवने मुनीनां दृष्ट्वा च तं भैक्ष्यचरं सुरेशम् ।।
योषित्सुताः संक्षुभितास्तु सर्वे जग्मुर्हरं तं मुनयः सुतुष्टाः ।। ।।
स हन्यमानो मुनिमुख्यसंघैर्गृहीतलोष्टैर्ऋषिदंडकाष्ठैः ।।
विहाय दिंडिः स तु तान्सुरर्षींस्ततो रवेर्लोकमथाजगाम ।। ४ ।।
आगच्छमानं प्रमथास्तमूचुर्देवेश नित्यं भ्रमसे किमर्थम् ।।
स प्राह तान्पापविमोचनार्थमटामि तीर्थानि सुरालयांश्च ।। ५ ।।
ते भूय ऊचुः प्रमथास्तमेवमत्रैव तिष्ठस्व रवेः पुरस्तात् ।।
शुद्धिं तवैष प्रकरिष्यतीति शुद्धस्ततो यास्यसि रुद्रलोकम् ।। ६ ।।
इत्येवमुक्तः प्रमथैस्तु रुद्रस्तत्रैव तस्थौ रवितोषणाय ।।
नग्नो जटी मुष्टिकपालपाणी रूपेण चैवाप्रतिमस्त्रिलोके ।। ७ ।।
उक्तः स तुष्टेन ततः सवित्रा प्रीतोस्मि देवागमनात्तवाहम् ।।
मद्दर्शनादेव भवान्विशुद्धो दिंडीति नाम्ना भवितासि लोके ।। ८ ।।
अष्टादशैते प्रमथास्तु भानोश्चतुर्दशान्ये तु रवे रथस्थाः ।।
हे देवते द्वौ च ऋषिप्रधानौ गंधर्वसर्पावपि तावदेव ।। ९ ।।
यक्षौ च सिद्धौ च निशाचरौ चादित्यात्मजावप्सरसां प्रधानौ ।।
वसंति ते ह्यस्तमुषश्च सूर्ये तेषाम शीतिश्चतुरोत्तरा सा ।। 1.124.१० ।।
इत्यादिदेवप्रवरास्तु सर्वे धात्वर्थशब्दैश्च भवंति सिद्धाः ।। ११ ।।
।। ऋषय ऊचुः ।। ।।
विस्तराद्ब्रूहि मे ब्रह्मन्प्रवरान्धातुशब्दजान् ।।
यतश्च कौतुकं ब्रह्मन्नस्माकमिह जायते ।। १२ ।।
ब्रह्मोवाच ।। ।।
भूयस्तव प्रवक्ष्यामि दंडनायकपिंगलौ ।।
राज्ञस्रौषादयश्चान्ये दिग्देवा दिंडिना सह ।। १३ ।।
मया सह समागम्य पुरा देवैर्विचारितम् ।।
एष कारुणिकः सूर्यो युध्यते दानवैः सह ।। १४ ।।
ते तु लब्धवरा भूत्वा अमात्याद्या ह्यभीक्ष्णशः ।।
आदित्यं मन्यमानास्ते तपंतं हंतुमुद्यताः ।। १५ ।।
तस्मात्तेषां विघातार्थं प्रवराश्च भवामहे ।।
अस्माभिः प्रतिरुद्धास्ते न द्रक्ष्यंति दिवाकरम् ।। १६ ।।
संमंत्र्यैवं ततः स्कंदो वामपार्श्वे रवेः स्थितः ।।
दंडनायकसंज्ञस्तु सर्वलोकस्य स प्रभुः ।। ।। १७ ।।
उक्तश्च स तदार्केण त्वं प्रजादंडनायकः ।।
दंडनीतिकरो यस्मात्तस्मात्त्वं दंडनायकः ।। १८ ।।
लिखते यः प्रजानां च सुकृतं यच्च दुष्कृतम् ।।
अग्निर्दक्षिणपार्श्वे तु पिंगलत्वात्स पिंगलः ।। १९ ।।
आश्विनौ चापि सूर्यस्य पार्श्वयोरुभयोः स्थितौ ।।
अश्वरूपात्समुपन्नौ तेन तावश्विनौ सुरौ ।। 1.124.२० ।।
द्वारपालौ स्मृतौ तस्य राज्ञः श्रेष्ठौ महाबलौ ।।
कार्त्तिकेयः स्मृतो राज्ञः श्रेष्ठश्चापि हरः स्मृतः ।। २१ ।।
राजृदीप्तौ स्मृतो धातुर्नकारस्तस्य प्रत्ययः ।।
सुरसेनापतित्वेन स यस्माद्दीप्यते सदा ।।
तस्मात्स कार्तिकेयस्तु नाम्ना राज्ञ इति स्मृतः ।। २२ ।।
स्रु गतौ च स्मृतो धातुर्यस्य स प्रत्ययः स्मृतः ।।
गच्छतीति रहस्तस्मात्पर्यायात्स्रौष उच्यते ।। २३ ।।
प्रथमं यद्भवेद्द्वारं धर्मार्थाभ्यां समाश्रितम् ।।
तत्रैतौ संस्थितौ देवौ लोकपूज्यौ द्विजोत्तमाः ।। २४ ।।
द्वितीयायां तु कक्षायामप्रधृष्टौ व्यवस्थितौ ।।
पक्षिप्रेताधिपौ नाम्ना स्मृतौ कल्माषपक्षिणौ ।। २५ ।।
वर्णस्य शबलत्वाच्च यमः कल्माष उच्यते ।।
पक्षावस्येति यः पक्षी गरुडः परिकीर्तितः ।। २६ ।।
स्थितो दक्षिणत तस्य दंडहस्तसमन्वितः ।।
उत्तरेण स्थितोऽर्कस्य कुबेरश्च विनायकः ।। २७ ।।
कुबेरो धनदो ज्ञेयो हस्तिरूपो विनायकः ।।
कुत्सया कुप्यता शप्तं कुशरीरमजायत ।।
कुबेरः कुशरीरत्वात्स नाम्ना धनदः स्मृतः ।। २८ ।।
नायकः सर्वसत्त्वानां तेन नायक उच्यते ।।
विविधं नयते यस्मात्स तु तस्माद्विनायकः ।। २९ ।।
रैवतश्चैव दिंडिश्च तौ रवेः पूर्वतः स्थितौ ।।
ततो दिंडिः स्मृतो रुद्रो रेवतस्तनयो रवेः ।। 1.124.३० ।।
प्लुतं गच्छत्यसौ यस्मात्सर्वलोकनमस्कृतः ।।
रेवृप्लवगतौ धातू रेवतस्तेन स स्मृतः ।।३१।।
डीङ्गतावस्य वै धातोर्दिंडिशब्दो निपात्यते ।।
डयतेऽसौ सदा दिंडी तेन दिंडी प्रकीर्तितः ।। ३२ ।।
इत्येते प्रवराः प्रोक्ता धात्वर्था नैगमैः शुभैः ।।
एषां संक्षेपतो भूयः संख्यां वो निगदामि वै ।। ३३ ।।
अश्विनौ तौ ततो ज्ञेयौ दंडनायकपिंगलौ ।।
तौ सूर्यद्वारपौ ज्ञेयौ राज्ञस्रौषौ ततः स्मृतौ ।। ३४ ।।
रेवतश्चैव दिंडिश्च इत्येते प्रवरा मया ।।
अष्टादश समा ख्याताः संक्षेपात्संख्यया मया ।। ३५ ।।
इत्येभिर्नामभिस्त्वन्ये दानवानां जिघांसया ।।
परिवार्य स्थिताः सूर्यं नानाप्रहरणायुधाः ।। ३६ ।।
सरूपाश्चान्यरूपाश्च विरूपाः कामरूपिणः ।।
परिवार्य स्थिताः सूर्यं गरुडश्च महाबलः ।। ३७ ।।
धातुर्दिविति वै प्रोक्तो क्रीडायां स तु उच्यते ।।
क्रीडंते दिवि वै यस्मात्तस्मात्ते दैवताः स्मृताः ।। ३८ ।।
ऋचो यजूंषि सामानि यान्युक्तानीह वै मया ।।
नानारूपैः स्थितान्येव रवेस्तानि सम न्ततः ।। ३९ ।।
।। सुमंतुरुवाच ।। ।।
इत्येवमुक्तवान्ब्रह्मा ऋषीणां पृच्छतां पुरा ।।
ते श्रुत्वाराध्य देवेशं संसिद्धा दिवि संस्थिताः ।। 1.124.४० ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे प्रवरवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १२४ ।। ।। छ ।। ।।