भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२३

विकिस्रोतः तः
Jump to navigation Jump to search

परिलेखवर्णनम्

शतानीक उवाच
भूयोऽपि कथयस्वेमां कथां सूर्यसमाश्रिताम् ।
न तृप्तिमधिगच्छामि शृण्वन्नेतां कथां मुने । । १
सुमन्तुरुवाचं
भास्करस्य कथां पुण्यां सर्वपापप्रणाशिनीम् ।
वक्ष्यामि कथितां पूर्वं ब्रह्मणा लोककर्तृणा१ । । २
ऋषयः परिपृच्छन्ति ब्रह्मलोके पितामहम् ।
तापिताः सूर्यकिरणैस्तेजसा सम्प्रमोहिताः । । ३
ऋषय ऊचुः
कोऽयं दीप्तो महातेजा हवीराशिसमप्रभः ।
एतद्वेदितुमिच्छामः प्रभावोऽस्य कुतः प्रभो । । ४
ब्रह्मोवाच
तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे ।
प्रवृत्ते गुणहेतुत्वे पूर्वं बुद्धिरजायत । । ५
अहंकारस्ततो जातो महाभूतप्रवर्तकः ।
वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत । । ६
तस्मिन्नण्ड इमे लोकाः सप्त वै संप्रतिष्ठिताः ।
पृथ्वी च सप्तभिर्द्वीपैः समुद्रैश्चापि सप्तभिः । । ७
तत्रैवावस्थितो ह्यासमहं विष्णुर्महेश्वरः ।
प्रमूढास्तमसा सर्वे प्रध्याता ईश्वरं परम् । । ८
ततो भिद्य महातेजः प्रादुर्भूतं तमोनुदम् ।
ध्यानयोगेन चास्माभिर्विज्ञातं सवितुस्तथा । । ९
ज्ञात्वा च परमात्मानं सर्व एव पृथक्पृथक् ।
दिव्याभिः स्तुतिभिर्देवं संस्तोतुमुपचक्रमुः । । 1.123.१०
आदिदेवोऽसि देवानामीश्वराणां त्वमीश्वरः ।
आदिकर्तासि भूतानां देवदेव सनातन । । ११
जीवनं सर्वसत्त्वानां देवगन्धर्वरक्षसाम् ।
मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् । । १२
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः ।
वायुरिन्द्रश्च सोमश्च विवस्वान्वरुणस्तथा । । १३
त्वं कालः सृष्टिकर्ता च हर्ता त्राता प्रभुस्तथा ।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च । ।
प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । । १४
ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ।
शिवात्परतरो देवस्त्वमेव परमेश्वर । । १५
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः ।
सहस्रांशुस्त्वं तु देव सहस्रकिरणस्तथा । । १६
भूरादिभूर्भुवः स्वश्च महर्जनस्तपस्तथा ।
प्रदीप्तं दीप्तिमन्नित्यं सर्वलोकप्रकाशकम्। ।
दुर्निरीक्ष्यं सुरेन्द्राणां यद्रूपं तस्य ते नमः ।। १७
सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः ।
शुभं परममव्यग्रं यद्रूपं तस्य ते नमः ।। १८
पञ्चातीतस्थितं तद्वै दशैकादश एव च ।
अर्धमासमतिक्रम्य स्थितं तत्सूर्यमण्डले ।।
तस्मै रूपाय ते देव प्रणताः सर्वदेवताः ।। १९
विश्वकृद्विश्वभूतं च विश्वानरसुरार्चितम् ।
विश्वस्थितमचिंत्यं च यद्रूपं तस्य ते नमः ।।1.123.२०
परं यज्ञात् परं देवात्परं लोकात्परं दिवः ।
दुरतिक्रमेति यः ख्यातस्तस्मादपि परं परात् ।।
परमात्मेति विख्यातं यद्रूपं तस्य ते नमः ।।२ १
अविज्ञेयमचित्यं च अध्यात्मगतमव्ययम् ।
अनादिनिधनं देवं यद्रूपं तस्य ते नमः ।।२२
नमोनमः कारणकारणाय नमोनमः पापविनाशनाय ।
नमोनमो वंदितवंदनाय नमोनमो रोगविनाशनाय ।।२ ३
नमोनमः सर्ववरप्रदाय नमोनमः सर्वबलप्रदाय ।
नमोनमो ज्ञाननिधे सदैव नमोनमः पञ्चदशात्मकाय ।।२४
स्तुतः स भगवानेवं तेजसां रूपमास्थितः ।
उवाच वाचं कल्याणीं को वरो वः प्रदीयताम् ।।२५
तवातितेजसा रूपं न कश्चित्सहते विभो ।
सहनीयं भवत्वेतद्धिताय जगतः प्रभो ।।२६
एवमस्त्विति गामुक्त्वा भगवान्सर्वकृत्स्वयम् ।
लोकानां कार्यसिद्ध्यर्थं घर्मवर्षाहिमप्रदः । । २७
अतः सांख्याश्च योगाश्च ये चान्ये मोक्षकांक्षिणः ।
ध्यायन्ति ध्यानिनो नित्यं हदयस्थं दिवाकरम् । । २८
सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः ।
सर्वं तरति वै पापं देवकर्मसमाश्रितः । । २९
अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
भानोर्भक्त्या नमस्कारकलां नार्हन्ति षोडशीम् । । 1.123.३०
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् ।
पवित्रं च पवित्राणां तं प्रपद्ये दिवाकरम् । । ३१
ब्रह्माद्यैः संस्तुतं देवैर्ये प्रपद्यन्ति १ भास्करम् ।
निर्मुक्ताः किल्बिषैः सर्वैस्ते यान्ति रविमन्दिरम् । । ३२
उपचर्यादिभिः साध्यो यथा वेदे दिवस्पतिः ।
लोकानामिह सर्वेषां तथा देवो दिवाकरः । । ३३
शतानीक उवाच
शरीरलेखनं सूर्ये कथं वै प्रतिपादितम् ।
देवैः सऋषिभिर्वापि तन्ममाचक्ष्व सुव्रत । । ३४
सुमन्तुरुवाच
ब्रह्मलोके सुखासीनं ब्रह्माणं ते सुरासुराः ।
ऋषयः समुपागम्य इदमूचुः समाहिताः । । ३५
भगवन्देवतापुत्रो य एष दिवि राजते ।
तेनान्धकारो निकृत्तः सोऽयं जाज्वलितीति हि । । ३६
अस्य तेजोभिरखिलं जगत्स्थावरजंगमम् ।
नाशमायाति देवेश यथा क्लिष्टं नदीतटम् । । ३७
वयं च पीडिता सर्वे तेजसा तस्य मोहिताः ।
पद्मश्चायं यथा म्लानो योयं योनिस्तव प्रभो । । ३८
दिवि भुव्यन्तरिक्षे च शर्म नोपलभामहे ।
तथा कुरु सुरज्येष्ठ यथा तेजः प्रशाम्यति । । ३९
एवमुक्तः स भगवान्पद्मयोनिः प्रजापतिः ।
उवाच भगवान्ब्रह्मा देवान्विष्णुपुरोगमान्१ । । 1.123.४०
महादेवेन सहिता इन्द्रेण च महात्मना ।
तमेव शरणं देवं गच्छामः सहिता वयम् । । ४१
ततस्ते सहिताः सर्वे ब्रह्मविष्ण्वादयः सुराः ।
गत्वा ते शरणं सर्वे भास्करं लोकभास्करम् । । ४२
स्तोतुं प्रचक्रमुः सर्वे भक्तिनम्रा समन्ततः ।
केशादिदेवताः सर्वा भक्तिभावसमन्विताः । । ४३
ब्रह्मविष्ण्वीशा ऊचुः
नमोनमः सुरवर तिग्मतेजसे नमोनमः सुरवर संस्तुताय वै ।
जडान्धमूकान्बधिरान्सकुष्ठान्सश्वित्रिणोंऽधान्विविधव्रणावृतान् । ।
करोषि तानेव पुनर्नवान्त्सदा अतो महाकारुणिकाय ते नमः । । ४४
यदौदरं ज्योतिरतित्वरन्महद्यदल्पतेजो यदपीह चक्षुषाम् ।
यदत्र यज्ञेष्वपनीतमाहितं तवैव तदूपमनेकतः स्थितम् । । ४५
सुरद्विषः सागरतोयवासिनः प्रचण्डपाशासिपरश्वधायुधाः ।
समुच्छ्रितास्ते भुवि पापचेतसः प्रयांति नाशं तव देव दर्शनात् । । ४६
यतो भवांस्तीर्थफलं समस्तं यज्ञेषु नित्यं भगवानवस्थितः ।
नमो भवन्नत्र विचारणास्ति सदा समः शांतिकरो नराणाम् । ।
यच्चापि लोके तप उच्यते बुधैस्तत्ते महातेज उशंति पण्डिताः । ।४७
स्तुतः स भगवानेवं प्रजापतिमुखैः सुरैः ।
अवधानं ततश्चक्रे श्रवणाभ्यां महीपते । ।४८
स्तुवन्ति ते ततो भूयः शिवविष्णुपुरोगमाः ।
कृत्वा मां पुरतः सर्वे भक्तिनम्राः समन्ततः । ।४९
१नमोनमस्त्रिभुवनभूतिदायिने क्रतुक्रियासत्फलसम्प्रदायिने ।
नमोनमः प्रतिदिनकर्मसाक्षिणे सहस्रसंदीधितये नमोनमः । । 1.123.५०
प्रसक्तसप्ताश्वयुजे क्षयाय ध्रुवैकरश्मिग्रथिने नमोनमः ।
सवालखिल्याप्सरकिन्नरोरगैः संसिद्धगन्धर्वपिशाचमानुषैः । ।
सयक्षरक्षोगणगुह्यकोत्तमैः स्तुतः सदा देव नमोनमस्ते । । ५१
यतो रसान्संक्षिपसे शरीरिणां गभस्तिभिर्हिमजलघर्मनिस्रवैः ।
जगच्च संशोषयसे सदैव अतोसि लोके जगतो विशोषणम् । । ५२
ब्रह्मोवाच
ज्ञात्वा तेषामभिप्रायमुवाच भगवान्वचः ।
लब्ध्वानुज्ञां ततः सर्वे सुराः संहृष्टचेतसः । । ५३
त्वष्टारं पूजयामासुर्मनोवाक्कायकर्मभिः ।
विश्वकर्मा तवादेशात्करोतु तव सौम्यताम् । । ५४
ततस्तु तेजसो राशिं सर्वकर्मविधानवित् ।
भ्रमिमारोपयामास विश्वकर्मा विभावसुम् । । ५५
अमृतेनाभिषिक्तस्य तदा सूर्यस्य वै विभोः ।
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । ५६
आजानुलिखितश्चासौ समुरासुरपूजितः ।
 नाभ्यनन्दत्ततो देव उल्लेखनमतः परम् । । ५७
ततः प्रभृति देवस्य चरणौ नित्यसंवृतौ ।
तापयन्ग्लापयंश्चैव युक्ततेजोऽभवत्तदा । । ५८
यच्चास्य शातितं तेजस्तेन चक्रं विनिर्मितम् ।
येन विष्णुर्जघानोग्रान्सदा वै दैत्यदानवान् । । ५९
शूलशक्तिगदावज्रशरासनपरश्वधान् ।
देवतानां ददौ कृत्वा विश्वकर्मा महामतिः । । 1.123.६०
त्रिदेवनिर्मितं स्तोत्रं सन्ध्ययोरुभयोर्जपन् ।
कुलं पुनाति पुरुषो व्याधिभिर्न च पीड्यते । । ६१
प्रजावान्सिद्धकर्मा च जीवेत्साग्रं शरच्छतम् ।
पुत्रवान्धनवांश्चैव सर्वत्र चापराजितः । ।
हित्वा पुरं भूतमयं गच्छेत्सृर्यमयं पुरम् । । ६२
भूयोऽपि तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरित्थमशेषस्य त्रैलोक्यस्य समागताः । । ६३
देवा ऊचुः
नमस्ते१ रविरूपाय सोमरूपाय ते नमः ।
नमो यजुः स्वरूपायाथर्वायाङ्गिरसे२ नमः । । ६४
ज्ञानैकधामभूताय३ निर्धूततमसे नमः ।
शुद्धज्योतिःस्वरूपाय निस्तत्त्वायामलात्मने । । ६५
नमोऽखिलजगद्व्याप्तिस्वरूपायात्ममूर्तये ।।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम्।।६६।।
नमोऽस्तु ज्ञेयरूपाय प्रकाशे लक्षरूपिणे ।।
भास्कराय नमस्तुभ्यं तथा शब्दकृते नमः ।। ६७ ।।
संसारहेतवे चैव संध्याज्योत्स्नाकृते नमः ।।
त्वं सर्वमेतद्भगवाञ्जगद्वै भ्रमति त्वया ।। ६८ ।।
भ्रमत्वाविद्धमखिलं ब्रह्माण्डं सचराचरम् ।।
त्वदंशुभिरिदं सर्वं संसृष्टं जायते शुचि ।। ६९ ।।
क्रियते त्वत्करस्पर्शाज्जलादीनां पवित्रता ।।
होमदानादिको धर्मो नोपकाराय जायते ।। 1.123.७० ।।
तावद्यावन्न संयोगी जगत्यत्र भवाञ्छुचिः ।।
प्रातर्होमं प्रशस्तं हि उदिते त्वयि जायते ।। ७१ ।।
ऋचोऽथ सकला ह्येता यजूंषि त्वं जगत्पते ।।
सकलानि च सामानि तपत्येवं जगत्सदा ।। ७२ ।।
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ।।
तथा साममयश्चैव ततो नाथ त्रयीमयः ।। ७३ ।।
त्वमेव ब्रह्मणो रूपं परं चापरमेव च ।।
मूर्तोऽमूर्तस्तथा सूक्ष्मः स्धूलरूपतया स्थितः ।। ७४ ।।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।।
प्रसीद स्वेच्छया रूपं स्वतेजोमयमादिश ।। ७५ ।।
इत्थं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः।।७६।।
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।।
यजुर्मयेनापि दिवं स्वयं साममयो रविः।।७७।।
शातितास्तेजसो भागा ये च स्युर्दश पंच च।।
तस्यैव तेन शर्वस्य कृतं शूलं महात्मना।। ७८।।
चक्रं विष्णोर्वसूनां च शंकरस्य च दारुणम्।।
षण्मुखस्य तथा शक्तिः शिबिका धनदस्य च।।७९।।
अन्येषां चासुरारीणां शस्त्राण्युग्राणि यानि वै।।
यक्षविद्याधराणां च तानि चक्रे स विश्वकृत्।।1.123.८०।।
ततश्च षोडशं भागं बिभर्ति भगवान्रविः।।
तत्तेजसः पंचदश शातिता विश्वकर्मणा।। ८१।।
ततः सुरूपदृग्भानुरुत्तरानगमत्कुरून्।।
ददर्श तत्र संज्ञां च वडवारूपधारिणीम्।।८२।।
इत्येतन्निखिलं भानोः कथितं मुनिसत्तमाः।।
शृणुयाद्यो नरो भक्त्या अश्वमेधफलं लभेत्।।८३।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे परिलेखवर्णनं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः।।१२३।।