भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२१

विकिस्रोतः तः
Jump to navigation Jump to search

विश्वकर्मकृतसूर्यतेजः शातनवर्णनम्

शतानीक उवाच
शरीरलेखनं१ भानोरुक्तं संक्षेपतस्त्वया ।
विस्तराच्छ्रोतुमिच्छामि तन्ममाचक्ष्व सुव्रत । । १
सुमन्तुरुवाच
पितुर्गृहं तु यातायां संज्ञायां कुरुनंदन ।
भास्करश्चिंतयामास संज्ञा मद्रूपकारिणी । । २
एतस्मिन्नंतरे ब्रह्मा तत्रागत्य दिवाकरम् ।
अव्रवीन्मधुरां वाचं रवेः प्रीतिकरां शुभाम् । । ३
आदिदेवोऽसि देवानां व्याप्तमेतत्त्वया जगत् ।
श्वशुरो विश्वकर्मा ते रूपं निर्वर्तयिष्यति । । ४
एवमुक्त्वा रविं ब्रह्मा विश्वकर्माणमब्रवीत् ।
निवर्तस्य मार्तण्डं स्वरूपं तत्सुशोभनम् । । ५
ततो ब्रह्मसमादेशाद्भ्र(भू?)मिमारोप्य भास्करम् ।
रूपं निर्वर्तयामास विश्वकर्मा शनैःशनैः । । ६
ततस्तुष्टाव तं ब्रह्मा सर्वदेवगणैः सह ।
गुह्यैर्नानाविधैः स्तोत्रैर्वेदवेदाङ्गपारगैः । । ७
स्वस्ति तेऽस्तु जगन्नाथ धर्मवर्षहिमाकर ।
शांतिस्ते सर्वलोकानां देवदेव दिवाकर । । ८
ततो रुद्रश्च विष्ण्वाद्याः स्तुवंतस्तं दिवाकरम् ।
तेजस्ते वर्धतां देव लिख्यतेऽपि दिवस्पते । । ९
इन्द्रश्चागत्य तं देवं लिख्यमानमथास्तुवत् ।
जय देव जयस्वेति तत्त्वदोऽसि जगत्पते ।। 1.121.१०
ऋषयस्तु ततः सप्त विश्वामित्रपुरोगमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्तिस्वस्तीतिवादिनः ।। ११
वेदोक्ताभिरथाशीर्भिर्वालखिल्याश्च तुष्टुवुः ।
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनामपि ।। १२
त्वं गतिः सर्वभूतानां त्वयि सर्वं प्रतिष्ठितम् ।
प्रजाभ्यश्चैव देवेश शं नोऽस्तु जगतः पते ।। १३
त्वत्तो भवति वै नित्यं जगत्संलीयते त्वयि ।
त्वमेकस्त्वं द्विधा चैव त्रिधा च त्वं न संशयः ।। १४
त्वयैकेन जगत्सृष्टं त्वयैकेन प्रबोधितम् ।
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ।। १५
कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् ।
ऊचुरेवंविधा वाचो मनः श्रोत्रसुखप्रदाः ।। १६
सह्यं भवतु ते तेजो भूतानां भूतभावन ।
हाहा हूहूस्ततश्चैव तुम्बुरुर्नारदस्तथा ।। १७
उपगातुं समारब्धा गामुच्चैः कुशला रविम् ।
षड्जमध्यमगांधारग्रामत्रयविशारदाः ।। १८
मूर्च्छनाभिस्ततश्चैव तथा धैवतपञ्चमैः ।
नानानुभावमन्द्रैश्च अर्धमन्द्रैस्तथैव च ।। १९
त्रिसाधनैः प्रकारैस्तु वाद्यतालसमन्वितैः ।
विश्वाची च घृताची च उर्वशी च तिलोत्तमा ।।२०
मेनका सहजन्या च रम्भा चाप्सरसां वरा ।
हावभावविलासैश्च कुर्वत्योऽभिनयान्बहून् ।।२ १
ततोऽतीव कलं गेयं मधुरं च प्रवर्तते ।
सर्वेषां देवसंघानां मनः श्रोत्रसुखप्रदम् ।।२२
प्रवाद्यं तु ततस्तत्र वीणावंशादि सुव्रत ।
पणवाः पुष्कराश्चैव मृदङ्गाः पटहास्तथा । । २३
देवदुन्दुभयः शंखाः शतशोऽथ सहस्रशः ।
गायद्भिश्चैव गन्धर्वैर्नृत्यद्भिश्चाप्सरोगणैः । । २४
तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ।
ततः कृतैः करपुटैः पद्यकुड्मलसन्निभैः । । २५
ललाटोपरि विन्यस्तैः प्रणेमुः सर्वदेवताः ।
ततः कोलाहले तस्मिन्सर्वदेवसमागमे । । २६
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । २७
इति हिमजलघर्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य ।
तदुपरि लिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोन्ते । । २८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे विश्वकर्मकृतसूर्यतेजः शातनं नामैकविंशोत्तरशततमोऽध्यायः । १२१ ।