सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११६

विकिस्रोतः तः

रविपूजाविधिवर्णनम्

ब्रह्मोवाच
कृष्ण राजा महानासीद्ययातिकुलसम्भवः ।
सत्राजिदिति विख्यातश्चक्रवर्ती महाबलः । । १
प्रभावैस्तेजसा कान्त्या क्षान्त्या बलसमन्वितः ।
धैर्यगम्भीर्यसम्पन्नो वदान्यो यशसान्वितः । । २
बुद्ध्या विक्रमदक्षश्च सम्पन्नो ब्राह्मणायतः ।
कृती कविस्तथा शूरः षट्पदाख्यैर्न निर्जितः । । ३
सदा पञ्चसु रक्तश्च वसुमद्भिर्न निर्जितः ।
रुद्रता वसुभिर्जातैः सत्त्वश्रद्धासमन्वितः । । ४
अम्बुजस्याण्डजस्येव आत्रेयस्य तथाच्युत ।
अम्बुजायास्तथा कृष्ण वार्यपात्रं स वै विभो । । ५
गाङ्गेयेन बले तुल्यः पौलस्त्यार्चाश्रमो यथा ।
गाङ्गेयस्य तथा कृष्ण धिषणस्य हरेर्यथा । । ६
काम्यश्च द्विजभक्तस्तु तथा वाल्मीकिवत्सदा ।
व्यासस्य देवशार्दूल जामदग्न्यस्य वा विभोः । । ७
एषां नैकैर्गुणैर्युक्तः स राजा क्ष्मातले विभो ।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् । । ८
यस्मिन्गाथां प्रगायन्ति ये पुराणविदो जनाः ।
सत्राजिते महाबाहौ कृष्ण धात्रीं समाश्रिते । । ९
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
सत्राजितं तु तत्सर्वं क्षेत्रमित्यमिधीयते । । 1.116.१०
स सर्वरत्नसंयुक्तां सप्तद्वीपवतीं महीम् ।
शशास धर्मेण पुरा चक्रवर्ती महाबलः । । ११
नान्यायकृन्न चाशक्तो वदान्यो बलवत्तरः ।
तस्याभूत्पुरुषा राज्ञः सम्यग्धर्मानुशासिनः । । १२
चत्वारः सचिवास्तस्य राज्ञः सत्राजितस्य तु ।
बभूवुरप्रतिहताः सदा वाति बलस्य वै । । १३
तस्य भक्तिरतीवासीन्निसर्गादेव भूपतेः ।
दिवाकरे जगद्भानौ रक्तचन्दनमालिनि । । १४
तस्योर्ध्वमहिमानं च विलोक्य पृथिवीपतेः ।
न केवलं जनस्यापि ह्यभवत्तस्य विस्मयः । । १५
सञ्चिन्तयामास नृपः समृद्ध्या विस्मितस्तथा ।
कथं स्यात् सम्पदेषा मे पुनरप्यन्यजन्मनि । । १६
एवं स बहुशो राजा तदा कृष्ण महायशाः ।
चिन्तयन्नपि तन्मूलं नासदन्निश्चयान्वितः । । १७
यदा न निश्चयं राजा स ययौ भार्गवीप्रियः ।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् । । १८
सर्वाश्च ससुखान्वीर विविक्तान्तः पुरस्थितः ।
प्रणिपत्य महाबाहुर्ग्रहीतुं शासनक्रियाः । । १९
विश्वासानुग्रहा बुद्धिर्भवतां मयि सत्तमाः ।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ । । 1.116.२०
सद्विद्याखिलविज्ञानसम्यग्धौतान्तरात्मभिः ।
भवद्भिर्यद्यनुग्राह्यः स्यामहं वेदवित्तमाः । । २१
तद्यथावन्मया पृष्टा भवन्तो मत्प्रसादिनः ।
वक्तुमर्हथ विद्वांसः सर्वस्यैवोपकारिणः । । २२
ब्रह्मोवाच
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते ।
वदिष्यामो यथान्यायं यत्ते१ मनसि वर्त्तते । । २३
वयं हि नृपशार्दूल भवता पारितोषिताः ।
सम्यक्प्रजां पालयित्रा ददता भोजनं सदा । । २४
सन्तुष्टो ब्राह्मणोऽश्नीयाच्छिंद्याद्वा धर्मसंशयम् ।
हितं चोपदिशेद्वर्त्म अहिताद्वा निवर्तयेत् । । २५
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः ।
प्रणिपातेन चाहेदं विनयात्प्रणयान्वितम् । । २६
न स्त्रीणामवनीपाल वक्तुमीदृगिहेष्यते ।
तथापि भूपते वक्ष्ये सम्पदीदृक्सुदुर्लभा । । २७
भूयोऽपि संशयान्प्रष्टुमलमीशो भवानृषीन् ।
नन्वहं पुरषव्याघ्र सदान्तः पुरचारिणी । । २८
तत्प्रसादं यदि भवान्करोति मम पार्थिव ।
तन्मदीयमृषीन्प्रष्टुं सन्देहं पार्थिवार्हसि । । २९
सत्राजित उवाच
ब्रूहि सुभ्रूर्मतं यत्ते प्रष्टव्या यन्मया द्विजाः ।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतद्द्विजोत्तमान् । । 1.116.३०
विमलवत्युवाच
श्रूयन्ते पृथिवीपाल नृपा ये तु चिरन्तनाः ।
येषां च सम्पद्भूपाल यथा तेऽद्य किलाभवत् । । ३१
तदीदृक्सम्पदो धाम तवाशेषं क्षितीश्वर ।
येन कर्मविपाकेन तद्वदन्तु महर्षयः । । ३२
अहं च भवतो भार्या सर्वसीमन्तिनीवरा ।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् । । ३३
तथा सम्पत्समृद्धत्वमन्येष्वपि हि विद्यते ।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा । । ३४
तदन्यजन्मचरितं नरनाथ निजं भवान् ।
मुनीन्पृच्छ त्वया चाहं यन्मया च पुरा कृतम् । । ३५
ब्रह्मोवाच
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः ।
मुनीनां पुरतो मायां प्रशंसन्वाक्यमब्रवीत् । । ३६
साधु देवि मतं यन्मे त्वया यदिदमीरितम् ।
सत्यं मुनिवचः पुंसां स्याद्ध वै गृहिणी तथा । । ३७
सोऽहमेतन्महाभागे पृच्छाम्येतान्महामुनीन् ।
तेषामविदितं किञ्चित्त्रिषु लोकेषु न विद्यते । । ३८
एवमुक्त्वा प्रियां राजा प्रणिपत्य च तानृषीन् ।
यथावदेतदखिलं पप्रच्छ धरणीधरः । । ३९
राजोवाच
भगवन्तो ममाशेषं प्रसादावृतचेतसः ।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् । ।1.116.४ ०
कोऽहमासं पुरा विप्राः किंस्वित्कर्म मया कृतम् ।
किं वानया तु चार्वंग्या मम पत्न्या कृतं द्विजाः । ।४ १
येनावयोरियं लक्ष्मीर्मर्त्यलोके सुदुर्लभा ।
चत्वारश्चाप्रतिहता अमात्या मम गच्छतः । ।४ २
अशेषा भूभृतो वश्या धनस्यान्तो न विद्यते ।
बलं चैवाप्रतिहतं शरीरारोग्यमेव च । ।४ ३
प्रतिभाति च मे कान्त्या भार्यायामखिलं जगत् ।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ।४४
सोऽहमिच्छामि तज्ज्ञातुं तथैवेयमनिन्दिता ।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् । ।४५
ब्रह्मोवाच
इति पृष्टा नरेन्द्रेण समस्तास्ते तपोधनाः ।
परावसुमथोचुस्ते कथ्यतामस्य भूभृतः । । ४६
चोदितः सोऽपि धर्मज्ञैर्महाशूरा महामतिः ।
योगमास्थाय सुचिरं यथावद्यतमानसः । । ४७
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ।
स तमाह मुनिर्भूपं विज्ञानेच्छं महामतिम् । । ४८
सत्राजितं महात्मानं जितशत्रुं मनस्विनम् ।
सपत्नीकं महाबुद्धिं ब्राह्मणान्सत्यवादिनः । । ४९
परावसुरुवाच
शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते । । 1.116.५०
त्वमासीः शूद्रजातीयः परहिंसापरायणः ।
कुष्ठार्तो दण्डपारुष्ये निःस्नेहः सर्वजन्तुषु । । ५१
द्वयं च भवतो भार्या पूर्वमप्यायतेक्षणा ।
नित्यं बभूव त्वच्चित्ता भवच्छुश्रूषणे रता । । ५२
पतिव्रता महाभागा भर्त्स्यमानापि निष्ठुरम् ।
त्वद्वाक्येषु च सर्वेषु वीर कर्मसु चोद्यता । ५३
नैश्वर्यादसहायस्य त्यज्यमानस्य बन्धुभिः ।
क्षयं जगाम योर्थोऽभूत्सञ्चितः प्रपितामहैः । । ५४
तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते ।
सापि कर्मविपाकेन कृषिर्विफलतां गता । । ५५
ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् ।
तत्याज साध्वी नेयं त्वां त्यज्यमानापि पार्थिव । । ५६
अनया तु समं साध्व्या भानोरावसथे त्वया ।
कृतं शुश्रूषणं वृत्त्या भक्त्या सम्मार्जनादिकम् । । ५७
निःस्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः ।
अहन्यहनि विस्रम्भात्तस्मिन्नावसथे रवेः । । ५८
कान्यकुब्जपुरे वीर महाशुश्रूषितं त्वया ।
दिवाकरालये नित्यं कृतं तन्मार्जनं त्वया । । ५९
तथैवाभ्युक्षणं भूप नित्यं चैवानुलेपनम् ।
पत्न्यानया नृप तथा युष्मच्चित्तानुवृत्तया । । 1.116.६०
कारितं श्रवणं पुण्यमितिहासपुराणयोः ।
दत्त्वाङ्गुलीयकं राजन्पितृदत्तं तु वाचके । । ६१
अहन्यहनि यत्कर्म युवयोर्नृपकुर्वतोः ।
तत्रैव तन्मयत्वेन पापहानिरजायत । । ६२
भानोः कार्यं मया कार्यं परं शुश्रूषणं तथा ।
नाप्रभातं प्रभातं वा चिन्तेयमभवन्निशि । । ६३
एवमायतनं रम्यमित्येवं च सुखावहम् ।
सूर्यवच्चैवमेतत्स्यादित्यासीत्ते मनस्तदा । । ६४
योगिनां सुखदं कर्म तथैव सुखमित्यपि ।
भवच्चित्तमभूत्तत्र योगकर्मण्यहर्निशम् । । ६५
एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव ।
भूतानुमानिनः सम्यग्यथोक्ताधिककारिणः । । ६६
स्मरतो गोपतिं नित्यं चित्तेनापि दृढात्मनः ।
निःशेषमुपशांतं ते पापं सूर्यनिषेवणात् । । ६७
ततोऽधिकं पुरस्तस्मादगारस्यानुलेपनम् ।
संमार्जनं च बहुशः सपत्नीकेन यत्कृतम् । । ६८
केवलं धर्ममाश्रित्य त्यक्त्वा वृत्तिमशेषतः ।
अनया श्रवणं पुण्यं कारितं वाचकात्सदा । ६९
नानाधातुविकारैस्तु गोमयेन मृदा तथा ।
उपलेपनं कृतं भक्त्या त्वया पूर्वं सुरालये । । 1.116.७०
अथाजगाम वै तत्र कुवलाश्वो महीपतिः ।
महासैन्यपरीवारः प्रभूतगजवाहनः । । ७१
सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् ।
वृतं भार्यासहस्रेण दृष्ट्वा संक्रन्दनोद्बलम् । ।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे । । ७२
सर्वकामप्रदं कर्म क्रियते भास्काराश्रितम् ।
तेनैतदखिलं राज्यमशेषं चाप्तवान्महीम् । । ७३
तेजश्चैवाधिकं यत्ते तथैव शृणु पार्थिव ।
योगप्रभावतो लब्धं कथयाम्यखिलं तव । । ७४
तत्रैवावसथे दीपः प्रशान्तः स्नेहसंक्षयात् ।
निजभोजनतैलेन पुनः प्रज्वलितस्त्वया । । ७५
अन्या चोत्तरीयेण वीर वर्त्योपबृंहितः ।
तव पत्न्या स्वयं ज्वाल्य कान्तिरस्यास्ततोऽधिका । । ७६
तवाप्यखिलभूपालमनः क्षोभकरं पुनः ।
तेजो नरेन्द्र एतस्मात्किमुताराध्य भास्करम् । । ७७
एवं नरेन्द्रः शूद्रत्वाद्भानुकर्मपरायणः ।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् । । ७८
किं पुनर्यो नरो भक्त्या नित्यं शुश्रूषणावृतः ।
करोति सततं पूजां निष्कामो नान्यमानसः । । ७९
सर्वामृद्धिमिमां लब्ध्वा सर्वलोकमहेश्वरः ।
पूजयित्वार्कमीशेशं तमाराध्य न सीदति । । 1.116.८०
पुष्पै धूपैस्तथा वान्यैर्दीपैर्वस्त्रानुलेपनैः ।
आराधयार्कं तद्वेश्म सदा सम्मार्जनादिना । । ८१
यद्यदिष्टतमं किञ्चिद्यद्यन्यत्तु दुर्लभम् ।
तद्दत्वा च जगद्धात्रे भास्कराय न सीदति । । ८२
सुगन्धागुरुकर्पूरचन्दनागुरुकुंकुमैः ।
वासोभिर्विविधैर्धूपैः पुष्पैः स्रक्चामरध्वजैः । । ८३
अन्योपहारैर्विविधैः कृतक्षीराभिषेचनैः ।
गीतवादित्रनृत्याद्यैस्तोषयस्वार्कमादरात् । । ८४
पुण्यरात्रिषु मार्तण्डं नृत्यगीतैरथोज्ज्वलम् ।
भूप जागरणैर्भक्त्या होमः कार्यः सदा शुचिः । । ८५
इतिहासपुराणानां श्रवणेन .विशेषतः ।
तथा वेदस्वनैः पुण्यैर्ऋक्सामयजुभिर्नृप । । ८६
एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् ।
भूयो वैवस्वतो भूत्वा भवहृद्भास्करो नरैः ।। ८७
तोषितो भगवान्भानुर्ददात्यभिमतं फलम् ।
दैवकर्मसमर्थानां प्राणिनां स्मृतिसम्भवैः । । ८८
तोषितो भगवान्कामान्प्रयच्छति दिवाकरः ।
नैष वृत्तैर्न रत्नौघैः पुष्पैर्धूपानुलेपनैः । ।
सद्भावेनैव मार्तण्डस्तोषमायाति संस्मृतः । । ८९
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् ।
कृत्वाल्पमीदृशं प्राप्तं राज्यमन्येन दुर्लभम् । । 1.116.९०
अनया श्रवणं पुण्यं कारयित्वा गृहे रवेः ।
ईदृक्प्राप्ता सम्पदियं पूजां कृत्वा तु वाचके । । ९१
प्राप्तोपकरणैर्यस्तमेकाग्रमतिरण्डजम् ।
सन्तोषयति नेन्द्रोऽपि भवता वै समः क्वचित् । । ९२
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया ।
भास्कराराधने यत्नं कुरु धर्मभृतां वर । । ९३
ब्रह्मोवाच
एतन्मुनेर्वचो वीर निशम्य स नराधिपः ।
भार्यासहायः स तदा संप्रहृष्टतनूरुहः । । ९४
कृतकार्यमिवात्मानं मन्यमानस्तदाभवत् ।
उवाच प्रणतो भूत्वा राजा सत्राजितोऽच्युत । । ९५
सत्राजित उवाच
यथामरत्वं सम्प्राप्य यथा वायुर्बलं परम् ।
परं निर्वाणमाप्नोति तथाहं वचसा तव । । ९६
कृतकृत्यः सुखासीनो निर्वृतिं परमां गतः ।
अज्ञानतमसाच्छन्ने यत्प्रदीपस्त्वया धृतः । । ९७
अहमेषा च तन्वङ्गी विभूतिभ्रंशभीरुकः ।
द्रव्यमापादितं ब्रह्मन्निहाद्य वचसा तव । । ९८
सम्पदः कथितं बीजमावयोर्भवता मुने ।
त्वद्वक्त्रादुद्यता वाचो विज्ञाता हि द्विजोत्तम । । ९९
न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः ।
आराध्यश्च जगन्नाथो भावशून्यैर्दिवाकरः । । 1.116.१००
बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः ।
निःस्वैराराध्यते देवो भानुः सर्वेश्वरेश्वरः । । १०१
सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने ।
यच्च पृच्छामि तन्मे त्वं प्रसादसुमुखो वद । । १०२
कथमाराधितो देवो नरैः स्त्रीभिश्च भास्करः ।
तोषमायाति विप्रेन्द्र तद्वदस्व महामुने । । १०३
रहस्यानि च देवस्य प्रीतये या तिथिः सदा ।
चान्यशेषाणि मे ब्रूहि अर्काराधनकांक्षिणः । । १०४
परावसुरुवाच
शृणु भूपाल यैर्भानुर्गृहेष्याराध्यते जनैः ।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे । । १०५
समभ्यर्च्य जगन्नाथं देवमकं समाधिना ।
एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणार्पणम् । । १०६
करोति भास्करप्रीत्यै कार्त्तिकं मासमात्मना ।
पूर्वे वयसि यत्नेन जानताऽजानतापि वा । । १०७
पापमाचरितं तस्माद्भिद्यते नात्र संशयः ।
अनेनैव विधानेन मासि मार्गशिरे पुनः । । १०८
समभ्यर्च्य मरकतं विप्रेभ्यो यः प्रयच्छति ।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे । । १०९
मध्ये वयसि यत्पापं योषिता पुरुषेण वा ।
कृतमस्माच्च तेनेक्तो विमोक्षः परमात्मना । । 1.116.११०
तथा चैवेकभक्तं तु यस्तु विप्राय यच्छति ।
दिवाकरं समभ्यर्च्य पौषे मासि महीपते । । १११
तत्तच्च प्रीणयत्यर्कं वार्धिकेनैव यत्कृतम् ।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा । । ११२
त्रिमासिकं व्रतमिदं यः करोति नरेश्वर ।
स भानुप्रीणनात्पापैर्लघुभिः परिमुच्यते । । ११३
द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः ।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् । । ११४
व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् ।
त्रिभिः संवत्सरैश्चैव प्रददाति फलं नृणाम् । । ११५
त्रिभिर्मासैरनुष्ठानात्त्रिविधात्पातकान्नृप ।
त्रीणि नामानि देवस्य मोचयन्ति च वार्षिकैः । । ११६
यतस्ततो व्रतमिदं विविधं समुदाहृतम् ।
सर्वपापप्रशमनं भास्कराराधने परम् । । ११७
सत्राजित उवाच
कतमाय 'तु विप्राय दातव्यं भक्तितो मुने ।
द्वितीये द्विजशार्दूल कथयस्वाखिलं मम । । ११८
परावसुरुवाच
देये पुराणविदुषे वस्त्रे विप्रोत्तमाय च ।
श्रूयतां चापि वचनं यदुक्तं भास्करेण च । ।
अरुणाय महाबाहो पृच्छते यत्पुरा नृप । । ११९
उदयाचलमारूढं भास्करं तिमिरापहम् ।
प्रणम्य शिरसा नूनमिदं वचनमब्रवीत् । । 1.116.१२०
कानि प्रियाणि ते देव पूजने सन्ति सर्वदा ।
पुष्पादीनां समस्तानामाराधनविधौ सदा । ।
उपरागादिवस्त्रादौ ब्राह्मणानां तथा रवे । । १२१
भास्कर उवाच
पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् ।
गुग्गुलञ्चापि धूपानां नैवेद्ये मोदकाः प्रियाः । । १२२
पूजाकरो भोजकस्तु घृतदीपस्तथा प्रियः ।
दानं प्रियं खगश्रेष्ठ वाचकाय प्रदीयते । । १२३
मामुद्दिश्य च यद्दानं दीयते मानवैर्भुवि ।
वाचकाय१ तु दातव्यं तन्मम प्रीतये खग । । १२४
इतिहासपुराणाम्यामभिज्ञो यस्तु वाचकः ।
ब्राह्मणो वै खगश्रेष्ठ सम्पूज्यः प्रीतये मम । । १२५
पूजितेऽस्मिन्सदा विप्रे पूजितोहं न संशयः ।
भवामि खगशार्दूल यतस्त्विष्टः स मे सदा । । १२६
वेदवीणामृदङ्गैश्च नातिगन्धविलेपनैः ।
तथा मे जायते प्रीतिर्यथा श्रुत्वा खगोत्तम । । १२७
इतिहासपुराणानि वाच्यमानानि वाचकैः ।
अतः प्रियो वाचको मे पूजाकर्ता च भोजकः । । १२८

इति भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सत्राजितोपाख्याने रविपूजाविधिवर्णनं नाम षोडशाधिकशततमोऽध्यायः । ११६ ।