भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११०

विकिस्रोतः तः

सप्तमीकल्पे ऽनन्तरसप्तमीव्रतवर्णनम्

ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदेऽच्युत ।
प्रणम्य शिरसादित्यं पूजयेत्सप्तवाहनम् । । १
पुष्पधूपादिभिर्वीर कुतपानां च तर्पणैः ।
पाषण्डादिभिरालापमकुर्वन्नियतात्मवान् । । २
विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्यतः ।
तिष्ठन्व्रजन्प्रस्थितश्च क्षुतप्रस्खलितादिषु । । ३
आदित्यनामस्मरणं कुर्वन्नुच्चारणं तथा ।
अनेनैव विधानेन मासान्द्वादश वै क्रमात् । । ४
उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम् ।
पुण्येन श्रावणेनेह प्रीणयन्पुष्टिमश्नुते । । ५
अनन्तं श्रावणेनेह यतः फलमुदाहृतम् ।
तेनादित्यं समभ्यर्च्य तदेव लभते फलम् । । ६
एवं यः पुरुषः कुर्यादादित्याराधनं शुचिः ।
प्राप्येह विपुलं भोगं धर्ममर्थं तथाव्ययम् । । ७
अमुत्र लोकमायाति दिव्ये खे गीतसंयुते ।
नारी वा स्वर्गमभ्येत्य ह्यनन्तं फलमश्नुते । । ८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तकल्पेऽनन्तरसप्तमीव्रतवर्णनम् नाम दशाधिकशततमोऽध्यायः । ११० ।