भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १०९

विकिस्रोतः तः

मार्तण्डसप्तमीवर्णनम्

ब्रह्मोवाच
मार्तण्डसप्तमीं कृष्ण यथान्यां१ वच्चि तेऽनघ ।
शृणुष्वैकमना वीर गदतो मे शुभप्रदाम् । । १
यस्याः सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् ।
पौषे मासे सिते पक्षे सप्तम्यां समुपोषितः । । २
सम्यक्सम्पूज्य मार्तण्डं मार्तण्ड इति वै जपेत् ।
पूजयेत्कुतपं भक्त्या श्रद्धया परयान्वितः । । ३
धूपपुष्पोपहराद्यैरुपवासैः समाहितः ।
मार्तण्डेति जपन्नाम पुनस्तद्गतमानसः । । ४
विप्राय दक्षिणां दद्याद्यथाशक्त्या खगध्वज ।
स्वपन्विबोधन्स्खलितो मार्तण्डेति च कीर्तयेत् । । ५
पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् ।
गोमूत्रं गोपयो वापि दधि क्षीरमथापि वा । । ६
गोदेहतः समुद्भूतं प्राश्नीयादात्मशुद्धये ।
द्वितीयेऽह्नि पुनः स्नातस्तथैवाभ्यर्चनं रवेः । । ७
तेनैव नाम्ना सम्भूय दत्त्वा विप्राय दक्षिणाम् ।
ततो भुञ्जीत गोदोहसम्भूतेन समन्वितम् । । ८
एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः ।
दद्याद्गवादिकं विप्रान्प्रतिमासं स्वशक्तितः । । ९
धारिता चेत्पुनर्वर्षे यथाशक्त्या गवादिकम् ।
दत्त्वा परं रवेर्भूयः शृणु यत्फलमश्नुते । । 1.109.१०
स्वर्णशृंगीं च पञ्चम्यां षष्ठ्यां च वृषभं नरः ।
प्रतिमासं द्विजातिभ्यो यद्दत्त्वा फलमश्नुते । । ११
तत्प्राप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः ।
तं च लोकमवाप्नोति मार्तण्डो यत्र तिष्ठति । । १२
शाण्डेलेयसमः कृष्ण तेजसा नात्र संशयः ।
मार्तण्डसप्तमीमेतामुपोष्यैते गणा दिवि । । १३
विद्योतमाना दृश्यन्ते लोकैरद्यापि भूधर ।
तस्मात्त्वमादिदेवेशं ग्रहेशं भास्करं रविम् । ।
अनयार्चय गोविन्द गोपतिं गोलसन्निभम् । । १४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे मार्तण्डसप्तमीवर्णनम्
नाम नवाधिकशततमोऽध्यायः । १०९ ।