भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १०८

विकिस्रोतः तः

सर्वार्थावाप्तिसप्तमीवर्णनम्

ब्रह्मोवाच
कृष्णपक्षे तु माघस्य सर्वाप्तिं सप्तमीं शृणु ।
यामुपोष्य समाप्नोति सर्वान्कामांस्तथा परान् । । १
पाखण्डादिभिरालापं न कुर्याद्भानुतत्परः ।
पूजयेत्प्रणतो देवमेकाग्रमनसा शुभम् । । २
माघाद्यैः पारणं मासैः षड्भिः सांक्रान्तिकं स्मृतम् ।
मार्तण्डः प्रथमं नाम द्वितीयं कः प्रकीर्तितम् । । ३
तृतीयं चित्रभानुश्च विभावसुरतः परम् ।
भगेति पञ्चमं ज्ञेयं षष्ठं हंसः स उच्यते । ।४
पूर्णेषु षट्सु मासेषु पञ्चगव्यमुदाहृतम् ।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् । । ५
प्रणामं देवदेवस्य कृत्वा पूजां यथाविधि ।
विप्राय दक्षिणां दद्याच्छ्रद्दधानश्च शक्तितः । । ६
पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम् ।
कुर्वीत भक्त्या विधिवद्रविभक्त्या तु गृह्यते । । ७
नक्तभोजी तथा विष्णो तैलक्षारविवर्जितः ।
कृष्ण जागरणं रात्रौ सप्तम्यामथ वा दिने । । ८
एतामुषित्या धर्मज्ञो हंसप्रीणनतत्परः ।
सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते । । ९
यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा ।
अतो लोकेषु विख्याता सर्वार्थावाप्तिसप्तमी । । 1.108.१०
कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः ।
पूरयत्यखिलान्कामान्संश्रुता च दिनेदिने । । ११
तमाराधयस्व रविं तथाथ गरुडध्वज ।
यथाराधितवान्भानुं भगणाधिपतिः पुरा । । १२

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सर्वार्थावाप्तिसप्तमीवर्णनम् नामाष्टाधिकशततमोऽध्यायः । १०८ ।