भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १०७

विकिस्रोतः तः

भानुपादद्वयव्रतवर्णनम्

ब्रह्मोवाच
तथान्यदपि धर्मज्ञ शृणुष्व गदतो मम ।
पदद्वयं जगद्धातुर्देवदेवस्य गोपतेः । । १
यदेकपादपीठं हि तत्र न्यस्तं पदद्वयम् ।
स्वयमंशुमता कृष्ण लोकानां हितकाम्यया । । २
वामनस्य पदं कृष्ण ज्ञेयं वै उत्तरायणम् ।
देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् । । ३
अहं त्वं च सदा कृष्ण दक्षिणं पादमर्चतः ।
श्रद्धान्वितौ भास्करस्य हरीशौ वाममर्चतः । । ४
तस्मिन्यः प्रत्यहं सम्यग्देवदेवस्य मानवः ।
करोत्याराधनं तस्य तुष्टः स्याद्भानुमान्त्सदा । । ५
विष्णुरुवाच
कथमाराधनं तस्य देवदेवस्य गोपतेः ।
क्रियते देवशार्दूल तत्समाख्यातुमर्हसि । । ६
ब्रह्मोवाच
उत्तरे त्वयने कृष्ण स्नातो नियतमानसः ।
घृतक्षीरादिभिर्देवं स्नापयेत्तिमिरापहम् । । ७
चारुवस्त्रोपहारैश्च पुष्पधूपानुलेपनैः ।
समभ्यर्च्य ततः सम्यग्ब्राह्मणानां च तर्पणैः । । ८
पदद्वयं व्रतं यस्य गृह्णीयाद्भानुतत्परः ।
वन्देत्स्नातश्चित्रभानुं ततश्च गरुडध्वज । । ९
भुक्त्वान्नं चित्रभानुं तु चित्रभानुं व्रजंस्तथा ।
स्वपन्विबुध्यन्प्रणमन्होमं कुर्वंस्तथार्चयन् । । 1.107.१०
चित्रभानोरनुदिनं करिष्ये नामकीर्तनम् ।
यावदद्य दिनात्प्राप्तं क्रमशो दक्षिणायनम् । । ११
चलिते हुंकृते चैव वेदारम्भेऽपि वा सदा ।
तावद्वक्ष्ये चित्रभानुं यावदेवोत्तरायणम् । । १२
यावज्जीवं च यत्किञ्चिज्जानतोज्ञानतोऽपि वा ।
करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् । । १३
यदानृतं किञ्चिद्वक्ष्ये तदा वक्ष्यामि तद्वचः ।
अज्ञानादथ वा ज्ञानात्कीर्तयिष्यामि तं प्रभुम् । । १४
षण्मासमेकमनसा चित्रभानुमयं परम् ।
तं स्मरन्मरणे याति यां गतिं सास्तु मे गतिः । । १५
षण्मासाभ्यन्तरे मृत्युर्यदि तस्मिन्भवेन्मम ।
तन्मया भास्करस्येह स्वयमात्मा निवेदितः । । १६
परमात्ममयं ब्रह्म चित्रभानुमयं परम् ।
यमं ते संस्मरिष्यामि स मे भानुः परा गतिः । । १७
यदि प्रातस्तथा सायं मध्याह्ने वा जपाम्यहम् ।
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया । । १८
तथा कुरु जगन्नाथ स्वर्गलोकपरायणः ।
चित्रभानो यथा शक्त्या भवान्भवति मे गतिः । । १९
एवमुच्चार्य षण्मासं चित्रभानुमयं व्रतम् ।
तावन्निष्पादयेद्यावत्सम्पूर्णं दक्षिणायनम् । । 1.107.२०
ततश्च प्रीणनं कुर्याद्यथाशक्त्या विभावसोः ।
भोजयेद्ब्राह्मणान्दिव्यान्भौमांश्चापि सदक्षिणान् । । २१
पुण्याख्यानकथां कुर्यान्मार्तंडस्य तथाग्रतः ।
पूजयेद्वाचकं भक्त्या यथाशक्त्या१ च लेखकम् । । २२
एवं व्रतमिदं कृष्ण यो धारयति मानवः ।
इहैव देवशार्दूल मुच्यते सर्वकिल्बिषैः । । २३
षण्मासाभ्यन्तरे चास्य मरणं यदि जायते ।
प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् । । २४
पदद्वयं च देवस्य सम्यक्त्वेन सदार्चितम् ।
भवत्येतज्जगौ भानुः पुरा चन्द्राय पृच्छते । । २५

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भानुपादद्वयव्रतवर्णनं नाम सप्ताधिकशततमोऽध्यायः । १०७ ।