भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १०६

विकिस्रोतः तः

पापनाशिनीव्रतविधिवर्णनम्

ब्रह्मोवाच
पुनश्चैतन्महाभाग श्रूयतां गदतो मम ।
प्रोक्तं खगेन देवानां तिथिमाहात्म्यमुत्तमम् । । १
विष्णुरुवाच
विजयातिजया चैव जयन्ती च महातिथिः ।
त्वत्तः श्रुता सुरथेष्ठ ब्रूहि मे पापनाशिनीम् । । २
तथोत्तरायणं ब्रूहि शस्तं यद्भास्करार्चने ।
यत्र सम्पूजितो भानुर्भवेत्सर्वाघनाशनः । ।
तन्मे कथय यत्नेन भक्त्या पृष्टोऽक्षयं फलम् । । ३
ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां यदर्क्षं तु रवेर्भवेत् ।
तदा स्यात्सा महापुण्या सप्तमी पापनाशिनी । ।४
तस्यां सम्पूज्य देवेशं चित्रभानुं जगद्गुरुम् ।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । । ५
यश्चोपवासं कुरुते तस्यां नियतमानसः ।
सर्वपापविमुक्तात्मा सूर्यलोके महीयते । । ६
दानं यद्दीयते किञ्चित्तमुद्दिश्य दिवाकरम् ।
होमो वा क्रियते तत्र तत्सर्वं चाक्षयं भवेत् । । ७
एक ऋग्वेदः पुरतो जप्तः श्रद्धापरेण तु ।
ऋग्वेदस्य समस्तस्य यच्छते सत्फलं ध्रुवम् । । ८
सामवेदफलं साम यजुर्वेदफलं यजुः ।
अथर्वा अथर्वांगिरसो निखिलं यच्छते रविः । । ९
तारका इव राजन्ते द्योतमाना दिवानिशम् ।
समभ्यर्च्य च सप्तम्यां देवदेवं दिवाकरम् । । 1.106.१०
यत्र पापमशेषं वै नाशयत्यत्र भास्करः ।
कर्तव्या सप्तमी कृष्ण तेनोक्ता पापनाशिनी । । ११
अस्यां समभ्यर्च्य रविं याति सौरपुरं नरः ।
विमानवरमारुह्य कर्पूरोद्भवमुत्तमम् । । १२
तेजसा कविसंकाशः प्रभया सूर्यसन्निभः ।
कान्त्यात्रेयसमः कृष्ण शौर्ये हरिसमः सदा । । १३
मोदते तत्र सुचिरं वृन्दारकगणैः सह ।
पुनरेत्य भुवं कृष्ण भवेद्वै क्ष्माधिपाधिपः । । १४

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे पापनाशिनीव्रतविधिवर्णनं नाम षडधिकशततमोऽध्यायः । १०६ ।