भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९९

विकिस्रोतः तः

महाजयाकल्पवर्णनम्

ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः ।
महाजया तदा सा वै सप्तमी भास्करप्रिया । । १
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
सर्वं कोटिगुणं प्रोक्तं भास्करस्य वचो यथा । । २
यस्तस्यां मानवो भक्त्या घृतेन स्नापयेद्रविम् ।
सोऽश्वमेधफलं प्राप्य स्वर्गलोकमवाप्नुयात् । । ३
पयसा स्नापयेद्यस्तु भास्करं भक्तिमान्नरः ।
विमुक्तः सर्वपापेभ्यो याति सूर्यसलोकताम् । ।४
कार्पूरेण विमानेन किङ्किणीजालमालिनी ।
तेजसा हरिसंकाशः कान्त्या सूर्यसमस्तथा । । ५
स्थित्वा तत्र चिरं कालं राजा भवति चाञ्जसा ।
महाजयैषा कथिता सप्तमी त्रिपुरान्तक । । ६
यामुपोष्य नरो भक्त्या भवते सूर्यलोकगः ।
ततो याति परं ब्रह्म यत्र गत्वा न शोचति । । ७

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे महाजयाकल्पवर्णनं नामैकोनशततमोऽध्यायः । ९९ ।