सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९३

विकिस्रोतः तः

भानुमहिमवर्णनम्

ब्रह्मोवाच
येषां धर्मक्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ।
न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा । । १
देवायतनभूमेस्तु गोमयेनोपलेपनम् ।
यः करोति नरो भक्त्या सद्यः पापात्प्रमुच्यते । । २
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ।
उपलेपनकर्ता वै चिन्तितं लभते फलम् । । ३
चित्रभानुं विरञ्च्यैव१ कुसुमैर्यः सुगन्धिभिः ।
पूजयेत्सोपवासस्तु स कामानीप्सिताँल्लभेत् । । ४
घृतेन दीपकं ज्वाल्य तिलतैलेन वा रवेः ।
प्रयाति सूर्यलोकं स दीपकोटिशतैर्वृतः । । ५
दीपतैलप्रदानेन न याति नरकं नरः ।
दीपतैलं तिलाश्चैव२ महापातकनाशनाः । । ६
दीपं ददाति यो नित्यं भास्करायतनेषु३ वै ।
चतुष्पथेषु तीर्थेषु रूपौजस्वी ह जायते । । ७
यस्तु कारयते४ दीपं रवेर्भक्तिसमन्वितः ।
स कामानीप्सितान्प्राप्य वृन्दारकपुरं व्रजेत् । । ८
यः समालभते सूर्यं चन्दनागुरुकुङ्कुमैः ।
कर्पूरेण विमिश्रैश्च तथा कस्तूरिकान्वितैः । । ९
शुभं कालं कोटिशतं विहृत्य५ च भवालये ।
पुनः सञ्जायते भूमौ राजराजो न संशयः । ।
सर्वकामसमृद्धात्मा सर्वलोकनमस्कृतः । । 1.93.१०
चन्दनोदकमिश्रैश्च दत्त्वार्घ्यं कुसुमै रवेः ।
सपुत्रपौत्रपत्नीकः स्वर्गलोके महीयते६ । । ११
सुगन्धोदकमिश्रैस्तु दत्त्वार्घ्यं कुसुमै रवेः ।
देवलोके चिरं स्थित्वा राजा भवति भूतले । । १२
स हिरण्येन चार्घेण रक्तोदकयुतेन वा ।
कोटीशतं तु वर्षाणां स्वर्गलोके महीयते । । १३
पद्मैरभ्यर्चनं कृत्वा रवेः स्वर्गगतो नरः ।
पद्मे वसति वर्षाणां स्त्रीपद्मशतसंवृतः । । १४
गुग्गुलं सघृतं दत्त्वा रवेर्भक्तिसमन्वितः १ ।
तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । । १५
पक्षं तु गुग्गुलं दत्त्वा मुच्यते ब्रह्महत्यया ।
संवत्सरेण लभते अश्वमेधफलं शिव । । १६
धूपेन लभते स्वर्गं तुरुष्केण सुगन्धिना ।
कर्पूरागुरुधूपेन राजसूयफलं लभेत् । । १७
पूर्वाह्णे मानवो भक्त्या श्रद्धया योऽर्चयेद्रविम् ।
स तत्फलमवाप्नोति यद्दत्ते कपिलाशते । । १८
मध्याह्ने योऽर्चयेत्सूर्यं प्रयतात्मा जितेन्द्रियः ।
लभते भूमिदानस्य गोशतस्य च तत्फलम् । । १९
पश्चिमायां तु सन्ध्यायां योऽर्चयेद्भास्करं नरः ।
शुचिः शुक्लाम्बरोष्णीषो गोसहस्रफलं लभेत् । । 1.93.२०
अर्धरात्रे तु यो हेलिं भक्त्या सम्पूजयेन्नरः ।
जातिस्मरत्वमाप्नोति कुले जातो वृषान्वितः । । २१
प्रदोषरात्रिवेलायां यः पूजयति भास्करम् ।
स गत्वा सहसा वीर क्रीडेत्सौमनसं२ क्षयम् । । २२
दण्डनायकवेलायां प्रभातसमये पुनः ।
पूजयित्वा रविं भक्त्या व्रजेदनिमिषालयम् । । २३
एवं वेलासु सर्वासु अवेलासु च मानवः ।
भक्त्या पूजयते योऽर्कमर्कपुष्पैः समाहितः । ।
तेजसादित्यसंकाशो ह्यर्कलोके महीयते । । २४
अयने तूत्तरे सूर्यमथ वा दक्षिणायने ।
पूजयेद्यस्तु वै भक्त्या स गच्छेत्कञ्जजालयम् । । २५
तत्रस्थः पूज्यते केशैः१ सर्वेः सुमनसस्तथा ।
गोपतिः पूज्यते यद्वद्गोपतिप्रमुखैः सुरैः । । २६
विषुवेषूपरागेषु षडशीतिमुखेषु च ।
पूजयित्वा रविं भक्त्या नात्मानं शोचते नरः । । २७
विबुध्य२ वा स्वयं वापि यो नमस्कुरुते रविम् ।
सन्तुष्टो भास्करस्तस्मै गतिमिष्टां प्रयच्छति । । २८
कृशरापायसापूपपललोन्मिश्रमोदकैः ।
बलिं कृत्वा तु सूर्याय सर्वकाममवाप्नुयात् । । २९
मोदकानां प्रदानेन३ पायसस्य च सुव्रत ।
मधुमांसरसैश्चापि प्रीयतेऽतीवभास्करः । । 1.93.३०
घृतेन तर्पणं कृत्वा सदा स्निग्धो भवेन्नरः ।
तर्पयित्वा तु मांसेन सद्यः पापात्प्रमुच्यते । । ३१
घृतेन स्नपनं कृत्वा एकाहमुदये रवेः ।
गवां शतसहस्रस्य दत्तस्य फलमश्नुते । । ३२
गवां क्षीरेण सन्तर्प्य पुण्डरीकफलं लभेत् ।
रसेन स्नापयेद्देवमश्वमेधफलं ५ लभेत् । । ३३
सूर्याय तरुणीं धेनुं गामेकां यः प्रयच्छति ।
कञ्जजामचलां प्राप्य पुनर्लेखपुरं व्रजेत् । । ३४
गोशरीरे तु रोमाणि यावन्ति त्रिपुरान्तक ।
स तावद्वर्षकोटीस्तु लेखलोके महीयते । । ३५
गोशतं भानवे दत्त्वा राजसूयफलं लभेत् ।
अश्वमेधफलं तस्य यः सहस्रं प्रयच्छति । । ३६
गुग्गुलं देवदारुं च दहेन्नित्यं घृतस्रवम् ।
आज्यधूमो६ हि देवानां प्रकृत्यैव प्रियः सदा । । ३७
भेर्यादीनि च वाद्यानि शङ्खवेण्वादिकानि च ।
ये प्रयच्छन्ति सूर्याय यान्ति ते हंसमन्दिरम् । । ३८
वज्रमाहरते यस्तु रवेर्भक्तिसमन्वितः ।
तीर्थोदकमथैवान्यः स याति विबुधालयम् । । ३९
विमानैः स्त्रीशताकीर्णैः क्रीडयित्वा चिरं नरः ।
मानुषत्वमनुप्राप्य राजा भवति धार्मिकः । ।1.93.४ ०
छत्रं ध्वजं वितानं च पताकाश्चामराणि च ।
हेमदण्डानि वै दद्याद्रवेर्यो भक्तिमान्नरः । । ४१
विमानेन स दिव्येन किङ्किणीजालमालिना ।
सूर्यलोकमतो गत्वा भवत्यप्सरसां पतिः । । ४२
तत्रोष्य सुचिरं कालं स्वर्गात्प्रत्यागतः पुनः ।
मानुष्ये जायते राजा सर्वराजनमस्कृतः । । ४३
दत्त्वा वासांसि सूर्याय अलङ्कारांस्तथैव च ।
क्रीडते जनलोकस्थो यावदाभूतसंप्लवम् । । ४४
गीतवादित्रनृत्यैश्च कुर्याज्जागरणं रवेः ।
गन्धर्वाप्सरसां मध्ये क्रीडते सुचिरं नरः । । ४५
गन्धैः पुष्पैस्तथा पत्रैः स्तोत्रैर्वा विविधैस्तथा ।
ये स्तुवन्ति रविं भक्त्या ते यान्ति पतगालयम् । । ४६
उषः स्तुवन्ति ये सूर्यमुपगायन्ति ते सदा ।
पाठकाश्चारणाश्चैव सर्वे ते स्वर्गगामिनः । । ४७
अश्वयुक्तं युगैर्युक्तं यो दद्याद्रवये रथम्।
काञ्चनं वापि रौप्यं वा मणिरत्नान्वितं शुभम् । । ४८
स यानेनार्कवर्णेन किङ्किणीजालमालिना ।
स्वर्गलोकमितो गत्वा क्रीडतेऽप्सरसा सह ।४ ९
यस्तु दारुमयं कुर्याद्रवे रथमनुत्तमम् ।
स यात्यर्कसवर्णेन१ विमानेनार्कमण्डलम् । । 1.93.५०
यात्रां कुर्वन्ति ये भानोर्नराः संवत्सरादपि ।
षण्मासाद्वा गणश्रेष्ठ तेषां पुण्यफलं शृणु । । ५१
ध्यानिनो योगिनश्चैव प्राप्नुवन्तीह यां गतिम् ।
तां गतिं प्रतिपद्यन्ते सूर्यवर्त्मावगाहिनः । । ५२
रथं वहन्ति ये भानोर्नरा भक्तिसमन्विताः ।
अरोगाश्चादरिद्राश्च जातौ जातौ भवन्ति ते । । ५३
कर्तारो रथयात्राया ये नरा भास्करस्य तु ।
ते भानुलोकमासाद्य विहरन्ति यथासुखम् । । ५४
यात्राभङ्गं तु यो मोहात्क्रोधाद्वा कुरुते नरः ।
मन्देहास्ते नरा ज्ञेया राक्षसाः पापकारिणः । । ५५
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ।
ये प्रयच्छन्ति सूर्याय ते यान्ति परमां गतिम् । । ५६
गा वाथ महिषीर्वापि गजानश्वांश्च शोभनान् ।
य प्रयच्छति सूर्याय तस्य पुण्यफलं शृणु । । ५७
अक्षयं सर्वकामीयमश्वमेधफलं लभेत् ।
सहस्रगुणितं तच्च दानमस्योपतिष्ठति । । ५८
महीं ददाति योऽर्काय कृष्टां फलवती शुभाम् ।
स तारयति वै वंश्यान्दश पूर्वान्दशापरान् । । ५९
विमानेन च दिव्येन गोपुरं गोपतेर्व्रजेत् ।
क्रीडत्यप्सरसां मध्ये करीव करिणीगणे । । 1.93.६०
ग्रामं ददाति यो भक्त्या सूर्याय मतिमान्नरः१ ।
विमानेनार्कवर्णेन स याति परमां गतिम् । । ६१
आरामान्ये प्रयच्छन्ति पत्रपुष्पफलोपगान् ।
भानवे भक्तियुक्तास्तु ते यान्ति परमां गतिम् । । ६२
मानसं वाचिकं वापि कर्मजं यच्च दुष्कृतम् ।
सर्वं सूर्यप्रसादेन अशेषं च प्रणश्यति । । ६३
आर्तो वा व्याधितो वापि दरिद्रो दुःखितोऽपि वा ।
आदित्यं शरणं गत्वा नात्मानं शोचते नरः । । ६४
एकाहेनापि यद्भानोः पूजायाः प्राप्यते फलम् ।
तद्वै क्रतुशतैरिष्टैः प्राप्यते फलमुत्तमम् । । ६५
कृत्वा प्रेक्षणकं भानोर्दिव्यमायतने शुभम् ।
अक्षयं सर्वकामीयं राजसूयफलं लभेत् । । ६६
वेश्याकदम्बकं यस्तु दद्यात्सूर्याय भक्तितः ।
स गच्छेत्परमं स्थानं यत्र तिष्ठति भानुमान् । । ६७
पुस्तकं भानवे दद्याद्भारतस्य गणाधिप ।
सर्वपापविमुक्तात्मा विष्णुलोके महीयते । । ६८
रामायणस्य दत्वा तु पुस्तकं त्रिपुरान्तक ।
वाजपेयफलं प्राप्य गोपतेः पुरमाव्रजेत् । । ६९
भविष्यं साम्बसंज्ञं वा दत्त्वा सूर्याय पुस्तकम् ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः । ।1.93.७ ०
सर्वान्कामानवाप्नोति याति सूर्यसलोकताम् ।
सूर्यलोके चिरं स्थित्वा ब्रह्मलोकं व्रजेत्पुनः । ।
स्थित्वा कल्पशतं तत्र राजा भवति भूतले । । ७१
भानोरायतने यस्तु प्रपां कुर्याद्गणाधिप ।
स याति परमं स्थानं दिव्यं सौमनसं नरः । । ७२
शीतकाले घनं दद्यान्नराणां शीतनाशनम् ।
भानोरायतने देव अश्वमेधफलं लभेत् । । ७३
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम् ।
अश्वमेधसहस्रं यो नित्यं कर्तुं प्रवर्तते । ।
न तत्फलमवाप्नोति यदाप्नोत्यस्य कर्मणः । । ७४
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।
इतिहासपुराणाभ्यां भानोरायतने शुभम् । । ७५
नान्यत्पुष्टिकरं भानोस्तथा तुष्टिकरं परम् ।
पुण्याख्यानकथा यास्तु यथा तुष्यति भास्करः । । ७६

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे भानुमहिमवर्णनं नाम त्रिनवतितमोऽध्यायः । ९३ ।