भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९०

विकिस्रोतः तः

हृदयवारविधिवर्णनम्

ब्रह्मोवाच
रविसङ्क्रमणे यः स्याद्रवेर्वारो गणाधिप ।
स ज्ञेयो हृदयो नाम आदित्यहदयप्रियः । । १
तत्र नक्तं समाश्रित्य देवं सम्पूज्य भक्तितः ।
गत्वा च सदने भानोरादित्याभिमुखस्थितः । । २
जपेदादित्यहदयं सङ्ख्ययाष्टशतं बुधः ।
अथ वास्तमनं यावद्भास्करं चिंतयेद्धृदि । । ३
गृहमेत्य ततो विप्रान्भोजयेच्छक्तितः शिव ।
भुक्त्वा तु पायसं वीर ततो भूमौ स्वपेद्बुधः । । ४
योऽत्र सम्पूयेद्भानुं भक्त्या श्रद्धासमन्वितः ।
स कामाँल्लभते सर्वान्भास्कराद्धृदयस्थितान् । । ५
तेजसा यशसा तुल्यः प्रभयैषां महात्मनः ।
शक्रगोपाण्डजानां तु गोपतेर्गोवृषेक्षण । । ६

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे हृदयवारविधिवर्णनं नाम नवतितमोऽध्यायः । ९० ।