भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८७

विकिस्रोतः तः

जयन्तविधिवर्णनम्

ब्रह्मोवाच
जयन्तो ह्युत्तरे ज्ञेयश्चायने गणनायक ।
वारो देवस्य यः स्याद्वै तत्र पूज्यो दिवाकरः । । १
पूजितस्तत्र देवेशः सहस्रगुणितं फलम् ।
ददाति देवशार्दूल स्नानदानादिकर्मणाम् । । २
घृतेन पयसा यत्र स्नानमिक्षुरसेन तु ।
विलेपनं कुङ्कुमं तु प्रशस्तं भास्करे प्रियम् । । ३
धूपक्रिया गुग्गुलेन नैवेद्ये मोदकः स्मृतः ।
इत्थं सम्पूज्य देवेशं कुर्याद्धोमं ततस्तिलैः । ।
ब्राह्मणान्भोजयेत्पश्चान्मोदकांस्तिलशष्कुलीः । । ४
इत्थं यः पूजयेद्भानुं मन्त्रेणैव गणाधिप ।
सहस्रगुणितं तस्य फलं देवो ददाति वै । । ५.
स्नानदानजपादीनामुपवासस्य वै विभो । । ६

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे जयन्तविधिवर्णनं नाम सप्ताशीतितमोऽध्यायः । ८७ ।