भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८५

विकिस्रोतः तः

कामदविधिवर्णनम्

ब्रह्मोवाच
प्राप्ते मार्गशिरे मासि शुक्लषष्ठ्यां तु यो भवेत् ।
स ज्ञेयः कामदो वारः सदेष्टो भास्करस्य तु । । १
तत्र यः पूजयेद्भानुं भक्त्या श्रद्धासमन्वितः ।
विमुक्तः सर्वपापैस्तु प्राप्नुते नन्दनाधिपम्१ ।। २
रक्तचन्दनमिश्राणि करवीराणि सुव्रत ।
धूपं घृताहुतिं वीर भास्करस्य प्रयोजयेत् । । ३
नैवेद्यं चापि कृशरं सुगन्धं तीक्ष्णमेव च ।
कृत्वोपवासमथ वा नक्तं त्रिपुरसूदन । । ४
इत्थं प्रपूजितो ह्यत्र भास्करो लोकभास्करः ।
कामान्ददाति सर्वान्वै अतोयं कामदः स्मृतः । । ५
स पुत्र पुत्रकामस्य धनकामस्य वा धनम् ।
विद्यार्थिने शुभां विद्यामारोग्यं रोगिणे विभो । । ६
अन्यांश्च विविधान्कामान्मन्त्रैः सम्पूजितो रविः ।
ददाति गणशार्दूल अतोयं कामदः स्मृतः । । ७
दद्याद्यो मण्डकं चात्र गोपतेर्गोत्रभूषणः ।
गोत्रारितेजसा३ तुल्यो गोपतेर्गोपुरं व्रजेत् । । ८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे कामदविधिवर्णनं नाम पञ्चाशीतितमोऽध्यायः । ८५ ।