भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८१

विकिस्रोतः तः

विजयासप्तमीवर्णनम्

ब्रह्मोवाच
जया च विजया चैव जयन्ती चापराजिता ।
महाजवा च नन्दा च भद्रा चान्या प्रकीर्तिता । । १
शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद्यदि ।
सप्तमी विजया नाम तत्र दत्तं महाफलम् । । २
स्नानं दान तथा होमं उपवासस्तथैव च।
सर्वं विजयसप्तम्यां महापातकनाशनम् । । ३
पञ्चम्यामेकभक्तं स्यात्पष्ठ्यां नक्तं प्रचक्षते ।
उपवासस्तु सप्तम्यामष्टम्यां पारणं भवेत् । । ४
केचिद्देवमुशन्त्येव नेति चान्ये गणाधिप ।
अभिप्रेतस्तु मे १ षष्ठ्यामुपवासो गणोत्तम । । ५
चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् ।
उपवासस्तु षष्ठ्यां स्यात्सप्तम्यां पारणं भवेत् । १६
उपवासपरः षष्ठ्यामब्देशं पूजयेद्बुधः ।
गन्धपुष्पोपहारैश्च भक्त्या श्रद्धासमन्वितः । । ७
प्रकल्प्य पूजां भूमौ तु देवस्य पुरतः स्वपेत् ।
जपमानस्तु२ गायत्रीं सौरसूक्तमथापि वा । । ८
अक्षरं वा महाश्वेतं षडक्षरमथापि वा ।
विबुद्धस्त्वथ सप्तम्यां कृत्वा स्नानं गणाधिप । । ९
ग्रहेशं पूजयित्वा तु होमं कृत्वा विधानतः ।
ब्राह्मणान्भोजयेद्भक्त्या शक्त्या च गणनायक । । 1.81.१ ०
शाल्योदनमपूपाश्च खण्डवेष्टांश्च शक्तितः ।
सघृतं पायसं दद्यात्तथा विप्रेषु शक्तितः । । ११
दत्त्वा च दक्षिणा भक्त्या १ ततो विप्रान्विसर्जयेत् ।
इत्येषा कथिता देव पुण्या विजयसप्तमी । १२
यामुपोष्य नरो गच्छेत्पदं वैरोचनं परम् ।
करवीराणि रक्तानि कुङ्कुमं च विलेपनम् । । १३
विजयं धूपमस्यां तु भानोस्तुष्टिकराणि वै ।
एषा पुण्या पापहरा महापातकनाशिनी । । १४
अत्र दत्तं हुतं चापि क्षीयते न गणाधिप ।
स्नानं दानं तथा होमः पितृदेवाभिपूजनम् । । १५
सर्वं विजयसप्तम्यां महापातकनाशनम् ।
आदित्यवारेण युता स्मृता विजयसप्तमी ।१६
इत्येषा कथिता वीर सर्वकामप्रदायिनी ।
धन्यं यशस्यमायुष्यं कीर्तितं श्रवणं तथा । । १७
स्मरणं तु तथास्यां तु पुण्यदं त्रिपुरान्तक । । १८

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे विजयसप्तमीवर्णनं नामैकाशीतितमोऽध्यायः । ८१ ।