भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८०

विकिस्रोतः तः
Jump to navigation Jump to search

आदित्यमहिमावर्णनम्

सुमन्तुरुवाच
इत्थं श्रुत्वा कथां दिव्यां हेलिमाहात्म्यमाश्रिताम् ।
साम्बः पप्रच्छ भूयोऽपि नारदं मुनिसत्तमम् । । १
साम्ब उवाच
सूर्यपूजाफलं यच्च यच्च दानफलं महत् ।
प्रणिपाते फलं यच्च गीतवाद्ये च यत् फलम् । । २
भास्करस्य द्विजश्रेष्ठ तन्मे ब्रूहि समन्ततः ।
येन सम्पूजयाम्येष भानुं देवैः१ सदार्चितम् । ३
नारद उवाच
इममर्थं पुरा पृष्टो ब्रह्मा लोकपितामहः ।
दिण्डिना यदुशार्दूल शृणुष्वैकाग्रमानसः । । ४
सुखासीनं तथा देवं सुरज्येष्ठं पितामहम् ।
प्रणम्य शिरसा दिण्डिरिदं वचनमब्रवीत् । । ५
दिण्डिरुवाच
सूर्यपूजाफलं ब्रूहि ब्रूहि दानफलं तथा ।
प्रणामे यत्फलं देव यच्चोक्तं तौर्यकत्रये । । ६
इतिहासपुराणाभ्यां कारिते श्रवणे तथा ।
पुरतो देवदेवस्य यत्फलं स्यात्तदुच्यताम् । । ७
मार्जने लेपने यच्च देवदेवस्य मन्दिरे ।
भास्करस्य कृते ब्रूहि मम लोकपितामह । । ८
ब्रह्मोवाच
स्तुतिजप्योपहारेण पूजया न नरो रवेः ।
उपवासेन षष्ठ्यां च सर्वपापः प्रमुच्यते । । ९
प्रणिधाय शिरो भूमौ नमस्कारपरो रवेः ।
तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । । 1.80.१०
भक्तियुक्तो नरो यस्तु रवेः कुर्यात्प्रदक्षिणाम् ।
प्रदक्षिणी कृता तेन सप्तद्वीपा १भवेन्मही । । ११
सूर्यलोकं व्रजेच्चापि इह रोगैश्च मुच्यते ।
उपानहौ परित्यज्य अन्यथा नरकं व्रजेत् । । १२
सोपानत्को नरो यस्तु आरोहेत्सूर्यमन्दिरम् ।
स याति नरकं घोरमसिपत्रवनं विभो । । १३
सूर्यं मनसि यः कृत्वा कुर्याद्व्योमप्रदक्षिणाम् ।
प्रदक्षिणी कृतास्तेन सर्वे देवा भवन्ति हि । । १४
परितुष्टाश्च ते सर्वे प्रयच्छन्ति गतिं शुभाम् ।
सर्वे देवा महाबाहो ह्यभीष्टं तु परन्तप । । १५
एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् ।
सप्तम्यां वा महाबाहो सूर्यलोकं स गच्छति । । १६
अहोरात्रोपवासी स पूजयेद्यस्तु भास्करम् ।
सप्तम्यां वाथ षष्ठ्यां वा स गच्छेत्परमां गतिम् । । १७
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ।
सर्वरक्तोपहारेण पूजयेद्यस्तु भास्करम् । । १८
पङ्कजैः करवीरैर्वा कुङ्कमोदकचन्दनैः ।
मोदकैश्च गणश्रेष्ठ सूर्यलोकं स गच्छति । । १९
शुक्लपक्षस्य सप्तम्यामुपवासरतः सदा ।
सर्वशुक्लोपहारेण पूजयेद्यस्तु भास्करम् । । 1.80.२०
जातीमुद्गरकैश्चैव श्वेतोत्पलकदम्बकैः ।
पायसेन १तथा देवं सवज्रेणार्चयेद्रविम् । । २१
सर्वपापविशुद्धात्मा विधुः कान्त्या न संशयः ।
हंसयुक्तेन यानेन हंसलोकमवाप्नुते । । २२
दिण्डिरुवाच
ब्रूहि मे विस्तराद्देव सप्तमीकल्पमुत्तमम् ।
उपोष्य सप्तमीं येन गमिष्ये शरणं रवेः । । २३
ब्रह्मोवाच
साधु पृष्टोऽस्मि भवता सप्तमीकल्पमुत्तमम् ।
यथा सहस्रकिरणः पुरा पृष्टोऽरुणेन वै । । २४
कथिताः सप्त सप्तम्यो भानुना श्रेयसे नृणाम् ।
अरुणस्य गणश्रेष्ठ पृच्छतः कारणान्तरे । । २५
कस्यचित्त्वथ कालस्य देवदेवं दिवाकरम् ।
ध्यानमाश्रित्य तिष्ठन्तमरुणो वाक्यमब्रवीत् । । २६
किमर्थं देवदेवश ध्यानमाश्रित्य तिष्ठसि ।
दिनं न याति देवेश कारणं मम कथ्यताम् । । २७
कुरु चङ्क्रमणं देव वहमानो दिवस्पते ।
इत्येवं भगवान्पृष्ट इदं वचनमब्रवीत् । । २८
शृणु त्वं द्विजशार्दूल यदर्थं ध्यानमाश्रितः ।
अर्वावसुर्द्विजश्रेष्ठः स चापुत्रः खगोत्तम । । २९
आराधयति मां नित्यं गन्धपुष्पोपहारकैः ।
पुत्रकामः खगश्रेष्ठ न च जानात्ययं यथा । । 1.80.३०
पुत्रदोऽहं भवे येन विधिना पूजितः खग ।
श्रूयतां च विधिः सर्वे येन प्रीतो भवे नृणाम् । । ३१
सप्तमीकल्पसंज्ञो वै विधीनामुत्तमो विधिः ।
यस्तु मां पूजयेन्नित्यं तस्य पुत्रान्ददाम्यहम् ।। ३२
गृह्णीष्व सप्तमीकल्पं गत्वा ब्रूहि द्विजोत्तमम् ।
येनाहं बहुपुत्रत्वं दद्यां तस्य तथा खग । । ३३
श्रुत्वा भानोः क्षणादेव जगाम स खगोत्तमः ।
कथयामास तत्सर्वं भानोर्वचनमादितः । । ३४
ब्राह्मणस्य खगश्रेष्ठ स च श्रुत्वा द्विजोत्तमः ।
चकार सप्तमीकल्पं यथाख्यातं खगेन तु । । ३५
ऋद्धिं वृद्धिं तथारोग्यं प्राप्य पुत्रांश्च पुष्कलान् ।
गतोऽसौ सूर्यलोकं च तेजसा तत्समोभवत् । । ३६

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः । ८० ।