सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६८

विकिस्रोतः तः

सिद्धार्थसप्तमीव्रतवर्णनम्

ब्रह्मोवाच
वच्मि ते परमं देवं सर्वदेवैश्च पूजितम् ।
आराधयन्ति यं देवं ब्रह्मविष्णुमहेश्वराः । । १
पद्माकृतिं सदा ब्रह्मा नलिनैर्गुग्गुलेन तु ।
व्योमरूपं सदा देवं महादेवोर्चते रविम् । । २
जातिपुष्पैर्द्विजश्रेष्ठ धूपेन विजयेन तु ।
वृषणं सिह्लकं विप्र श्रीखण्डमगरुस्तथा । । ३
कर्पूरं च तथा मुस्ता शर्करा सत्वचा द्विज ।
इत्येष विजयो धूपः स्वयं देवेन निर्मितः । । ४
केशवश्चक्ररूपं तु सदा सम्पूजयेद्रविम् ।
नीलोत्पलदलश्यामो नीलोत्पलकदम्बकैः । । ५
धूपेनागुरुसंज्ञेन भक्तिश्रद्धासमन्वितः ।
मया स पृष्टो देवेशस्तस्यैवाराधनाय वै । । ६
कानि पुष्पाणि चेष्टानि सदा भास्करपूजने ।
तेन चोक्तानि पुष्पाणि स्वयं तानि निबोध मे । । ७
मल्लिकायास्तु कुसुमैर्भोगवाञ्जायते नरः ।
सौभाग्यं पुण्डरीकैश्च भजत्येव च शाश्वतम् । । ८
१गन्धकुटजकैः पुष्पैः परमैश्वर्यमश्नुते ।
भवत्यक्षयमत्यन्तं नित्यमर्चयतो रविम् । । ९
मन्दारपुष्पैः पूजा तु सर्वकुष्ठविनाशिनी२ ।
बिल्वपत्रैश्च कुसुमैर्महतीं श्रियमश्नुते । । 1.68.१०
अर्कस्रजा भवत्यर्थं सर्वकामफलप्रदः ।
प्रदद्यादूपिणीं कन्यामर्चितो बकुलस्रजा । । ११
किंशुकैरर्चितो देवो न पीडयति भास्करः ।
पूजितोऽगस्त्यकुसुमैरानुकूल्यं प्रयच्छति । । १२
करवीरैस्तु विप्रेन्द्र सूर्यस्यानुचरो भवेत् ।
तथा १मुद्गरपुष्पैश्च समभ्यर्च्य दिवाकरम् । । १३
हंसयुक्तेन यानेन रवेः सालोक्यतां व्रजेत् ।
शतपुष्पसहस्रैस्तु पूषसालोक्यतां व्रजेत् । ।
बकपुष्पैर्द्विजश्रेष्ठ याति भानुसलोकताम् । । १४
चतुःसमेन गन्धेन समभ्यर्च्य दिवाकरम् ।
पञ्चभूतालयस्थानमाप्नुयान्नात्र संशयः । । १५
देवागारं तु सम्मार्ज्य भक्त्या यस्तु प्रलेपयेत् ।
स रोगान्मुच्यते क्षिप्रं द्रव्यलाभं च विन्दति । । १६
तस्य चायतनं भक्त्या गैरिकेणोपलेपयेत् ।
प्राप्नुयान्महतीं लक्ष्मीं रोगैश्चापि प्रमुच्यते । । १७
अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् ।
प्रलयं यान्ति ते सर्वे मृदा यद्युपलेपयेत् । । १८
विलेपनानां सर्वेषां रक्तचन्दनमुत्तमम् ।
पुष्पाणां करवीराणि प्रशस्तानि प्रचक्षते । । १९
नातः परतरं किंचिद्भास्वतस्तुष्टिकारकम् ।
किं तस्य न भवेल्लोके यस्त्वेभिः स्वर्चयेद्रविम् । । 1.68.२०
करवीरैः पूजयेद्यो भास्करं श्रद्धयान्वितः ।
सर्वकामसमृद्धोऽसौ सूर्यकाममवाप्नुयात् । । २१
विलेप्यायतनं३ यस्तु कुर्यान्मण्डलकं शुभम् ।
स सूर्यलोकमासाद्य मोदते शाश्वतीः समाः । । २२
एकेनास्य भवेदर्थो द्वाभ्यामारोग्यमश्नुते ।
त्रिभिः सन्तत्यविच्छिन्ना चतुर्भिर्भार्गवीं४ लभेत् । । २३
पञ्चभिर्विपुलं धान्यं षड्भिरायुर्बलं यशः ।
सप्तमण्डलकारी स्यान्मंडलाधिपतिर्नर । । २४
आयुर्धनसुतैर्युक्तः सूर्यलोके महीयते ।
घृतप्रदीपदानेन चक्षुष्माञ्जायते नरः । । २५
कटुतैलप्रदानेन स शत्रूञ्जयते नरः ।
तिलतैलप्रदानेन सूर्यलोके महीयते । । २६
मधूकतैलदानेन सौभाग्यं परमं व्रजेत् ।
संपूज्य विधिवद्देवं पुष्पधूपादिभिर्बुधः । । २७
यथाशक्त्या ततः पश्चान्नैवेद्यं भक्तितो न्यसेत् ।
पुष्पाणां प्रवरा जाती धूपानां विजयः परः । । २८
गन्धानां कुङ्कुमं श्रेष्ठं लेपानां रक्तचन्दनम् ।
दीपदाने घृतं श्रेष्ठं नैवेद्ये मोदकः परः । । २९
एतैस्तुष्यति देवेशः सान्निध्यं चाधिगच्छति ।
एवं संपूज्य विधिवत्कृत्वा चापि प्रदक्षिणम् । । 1.68.३०
प्रणम्य शिरसा देवं देवदेवं दिवाकरम् ।
सुखासीनस्ततः पश्येद्रवेरभिमुखे स्थितः । । ३१
एकं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतम् ।
कामं यथेष्टं हृदये कृत्वा तं वाञ्छितं नरः । । ३२
पिबेत्सतोयं तं विप्र अस्पृष्टं दशनैः सकृत् ।
द्वितीयायां तु सप्तम्यां द्वौ गृहीत्वा तु सुव्रत । । ३३
तृतीयायां तु सप्तम्यां ग्रहीतव्यास्त्रयोऽपि च ।
ज्ञेयाश्चतुर्थ्यां चत्वारः पञ्चम्यां पञ्च एव हि । । ३४
षट् पिबेच्चापि षष्ठ्यां तु इतीयं वैदिकी श्रुतिः ।
सप्तम्यां सप्तमायां तु सप्त चैव पिबेन्नरः । । ३५
आदौ प्रभृति विज्ञेयो मन्त्रोऽयमभिमन्त्रणे ।
सिद्धार्थकस्त्वं हि लोके सर्वत्र श्रूयसे यथा । ।
तथा मामपि सिद्धार्थमर्थतः कुरुतां रविः । । ३६
ततो हविरुपस्पृश्य जपं कुर्याद्यथेप्सितम् ।
हुताशनं च जुहुयाद्विधिदृष्टेन कर्मणा । । ३७
एवमेव पराः कार्या सप्तम्यः सप्त सर्वदा ।
एकात्प्रभृति कार्या सा सर्वदोदकसप्तमी । । ३८
एकं तोयेन सहितं द्वौ चापि घृतसंयुतौ ।
त्रींस्तथा मधुना सार्धं दध्ना चतुर एव च । । ३९
युक्तान्नपयसा पञ्च षट् च गोमयसंयुतान् ।
पञ्चगव्येन वै सप्त पिबेत्सिद्धार्थकान्द्विज । । 1.68.४०
अनेन विधिना यस्तु कुर्यात्सर्षपसप्तमीम् ।
बहुपुत्रो बहुधनः सिद्धार्थश्चापि सर्वदा । । ४१
इह लोके नरो विप्र प्रेत्ययाति विभावसुम् ।
तस्मात्सम्पूजयेद्देवं विधिनानेन भास्करम् । । ४२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सिद्धार्थसप्तमीव्रतवर्णनं नामाष्टषष्टितमोऽध्यायः । ६८ ।