भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५२

विकिस्रोतः तः
Jump to navigation Jump to search

सूर्यपूजावर्णनम्

सुमन्तुरुवाच
इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः ।
अन्तर्धानं गतो वीरं शाम्बस्येह प्रपश्यतः । । १
शाम्बोऽपि कृत्वा विधिवत्सप्तमीं रथसप्तमीम् ।
आधि(दि?)भिर्व्याधिभिर्मुक्तो जगामाशु स्वमन्दिरम् । । २
शतानीक उवाच
रथयात्रा कथं कार्या रथः कार्यः रथं रवेः ।
केनेह मर्त्यलोकेषु रथयात्रा प्रवर्तिता । । ३
सुमन्तुरुवाच
इममर्थं पुरा पृष्टः पद्मयोनिः प्रजापतिः ।
रुद्रेण कुरुशार्दूल आसीनः काञ्चने गिरौ । । ४
पद्मासनं पद्मयोनिं सुखासीनं प्रजापतिम् ।
प्रणम्य शिरसा देवो रुद्रो वाचमुदैरयत् । । ५
श्रीरुद्र उवाच
य एष भगवान्देवो भास्करो लोकभास्करः ।
कथमेष भ्रमेद्देवो रथस्थो विमलः सदा । । ६
ब्रह्मोवाच
यथा दिवि भ्रमेत्तात रथारूढो रविः सदा ।
तथा ते वर्तयिष्येऽहं रथं चास्य त्रिलोचन । । ७
रथेन ह्येकचक्रेण पञ्चारेण त्रिणाभिना ।
हिरण्यमयेन कान्तेन अष्टबन्धैकनेमिना । । ८
चक्रेण भास्वता चैव दिवि सूर्यः प्रसर्पति ।
दशयोजनसाहस्रो विस्तारोऽप्यस्य कथ्यते । । ९
त्रिगुणा च रथोपस्थादीषा दण्डप्रमाणतः ।
युगमस्य तु विस्तीर्णमरुणो१ यत्र सारथिः । । 1.52.१०
प्रासङ्गः कांचनो दिव्यो युक्तः पवनगैर्हयैः ।
छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः । । ११
येनासौ पर्यटेद्व्योम्नि भास्वता तु दिवस्पतिः ।
अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु । । १२
संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् ।
१नाभ्यस्तिस्रस्तु चक्रस्य त्रयः कालाः प्रकीर्तिताः । । १३
आराः पञ्चर्तवस्तस्य नेम्यः षडृतवः स्मृताः ।
रथवेदी स्मृते तस्य अयने दक्षिणोत्तरे । । १४
मुहूर्ता २ इषवस्तस्य शम्याश्चास्य कलाः स्मृताः ।
तस्य काष्ठाः स्मृताः कोणा अक्षदण्डः क्षणाः स्मृताः । । १५
निमेषाश्चास्य कर्षाः स्यादीषादण्डो लवाः स्मृताः ।
रात्रिर्वरूथो धर्मोऽस्य ध्वज ऊर्ध्वं प्रतिष्ठितः । । १६
युगाक्षिकोटी ते तस्य अर्थकामावुभौ स्मृतौ ।
अश्वरूपाणि च्छन्दांसि वहन्ते वामतो धुरम् । । १७
गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुबेव च ।
पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमी । । १८
चक्रमक्षनिबद्धं तु ध्रुवे चाक्षः समर्पितः ।
सहचक्रो भ्रमत्यक्षः स चाक्षो भ्रमति ध्रुवे । । १९
अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवे स्थितः ।
एवमक्षवशात्तस्य ३ सन्निवेशो रथस्य तु । । 1.52.२०
तथा संयोगभावेन संसिद्धो भास्करो रथः ।
तेन चासौ रविर्देवो नभः संसर्पते सदा । । २१
युगाक्षकोटीसम्बद्धे द्वे रश्मी स्यन्दनस्य तु ।
ध्रुवे ते भ्रमतो रश्मी न चक्रयुगयोस्तु वै । । २२
भ्रमतो मण्डलान्यस्य रवेरस्य रथस्य तु ।
कुलालचक्रवद्याति मण्डलं सर्वतोदिशम् । । २३
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु ।
ऋग्यजुर्भ्यां गृहीतेन विचक्राश्वेन वै ध्रुवे । । २४
ह्रसेते तस्य रश्मी तु मण्डलेषूत्तरायणे ।
दक्षिणेऽथ समृद्धे तु भ्रमतो मण्डलानि तु । । २५
युगाक्षकोटी ते तस्य भ्रमेते स्यन्दनस्य तु ।
सक्तासक्तं च भ्रमते मण्डलं सर्वतोदिशम् । । २६
आकृष्येते ध्रुवेणेह समं तिष्ठति सुव्रत ।
तदा साभ्यन्तरं देवो भ्रमते मण्डलानि तु । । २७
ध्रुवेण मुच्यमाने तु पुना रश्मियुगेन वै ।
तथैव १ बाह्यतः सूर्यो भ्रमते मण्डलानि तु । । २८
अशीतिमण्डलशतं काष्ठयोरुभयोरपि ।
सरथोऽधिष्ठितो देवैर्विभ्रमेदृषिभिः सह । । २९
गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः ।
एतैर्वसति वै सूर्ये मासौ द्वौ द्वौ क्रमेण तु । । 1.52.३०
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ।
खण्डको वासुकिश्चैव सकर्णो रश्मिरेव च । । ३१
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ।
क्रतुस्थलाप्सरश्चैव या च सा पुञ्जिकस्थला । । ३२
ग्रामणीरथकृत्स्नश्च रथौजाश्वतरावुभौ ।
रक्षो हेतिः प्रहेतिश्च यातुधानौ च तावुभौ । । ३३
मधुमाधवयोरेष गणो वसति भास्करे ।
तथा ग्रीष्मौ तु द्वौ मासौ मित्रश्च वरुणश्च ह । । ३४
ऋषिरत्रिर्वशिष्ठश्च तक्षकोऽनन्त एव च ।
मेनका सहजन्या च गंधर्वो च हहा हूहूः । । ३५
रथस्वनश्च ग्रामण्यौ रथचित्रश्च तावुभौ ।
पौरुषेयो वधश्चैव यातुधानौ महाबलौ । । ३६
शुचिशुक्रौ तु द्वौ मासौ वसन्त्येते दिवाकरे ।
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । । ३७
एलापर्णस्तथा सर्पः शङ्खपालश्च पन्नगाः ।
प्रम्लोचा दुन्दुकाश्चैव गन्धर्वौ भानुदर्दुरौ । । ३८
यातुधानौ तथा सर्पस्तथा ब्राह्मश्च तावुभौ ।
एते नभो नभस्यौ च निवसन्ति दिवाकरे । । ३९
शरद्येते पुनः शुभ्रा निवसन्ति स्म देवताः ।
पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः । । 1.52.४०
चित्रसेनश्च गन्धर्वस्तथा वसुरुचिश्च यः ।
विश्वाची च घृताची च ते उभे पुण्यलक्षणे । । ४१
नागस्त्वैरावतश्चैव विश्रुतश्च धनञ्जयः ।
सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीस्तथा । । ४२
आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ ।
वसन्त्येते तु वै सूर्ये इषोर्जौ कालपर्ययात् । । ४३
हेमंतिकौ तु द्वौ मासौ वसन्त्येते दिवाकरे ।
अंशौ भगश्च द्वावेतौ कश्यपश्च क्रतुस्तथा । । ४४
भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा ।
आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ । । ४५
चित्राङ्गदश्च गन्धर्वोरुणायुश्चैव तावुभौ ।
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ।.। ४६
पूषा जिष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ।
काद्रवेयौ महानागौ कम्बलाश्वतरावुभौ । । ४७
गन्धर्वो धृतराष्ट्रश्च सूर्यवार्चाश्च तावुभौ ।
तिलोत्तमा च रम्भा च सर्वलोके च विश्रुते । । ४८
१ग्रामणीः सेनजिच्चैव सत्यजिच्च महातपाः ।
ब्रह्मोपेतश्च वै रक्षो यज्ञो यज्ञस्तथैव च । ।
एते तपस्तपस्यै च निवसन्ति दिवाकरे । । ४९
अन्येऽपि ये मन्देहा राक्षसाधिपतयो देवदेवगुह्यतमस्य रक्षार्थं सकल देवैरस्मदादिभिः
सन्नियुक्तास्तान्भवते कथयामि । । 1.52.५०
रुद्र उवाच
वद ब्रह्मन्कथां दिव्यां यामहं प्रष्टुमागतः ।
तामेव विस्तरेणैव कथयाशु मम प्रभो । । ५१
दिविष्ठं भास्करं दृष्ट्वा नमेत्केन विधानतः ।
किं फलं तस्य वा देव समाप्ते भवति कर्मणि । । ५२
ब्रह्मोवाच
शृणु रुद्र समासेन भास्करस्य नतिक्रियाम् ।
यां कृत्वा रोगदुःखार्ता मुच्यन्ते पापसञ्चयात् । । ५३
स्थण्डिले मण्डलं कृत्वा द्वादशाङ्गुलमानतः ।
सद्यो गोमयलिप्ते च तत्रैवावाहयेद्रविम् । । ५४
पूजयित्वा गणेशादीन्वासुदेवं च सात्यकिम् ।
सत्यभामां तथा लक्ष्मीमुमां देवीं च शङ्करम् । । ५५
मण्डलस्य समीपस्थान्पूर्वोक्तान्वेदमन्त्रवित् ।
ततः प्रदक्षिणीकृत्य दण्डवत्प्रणमेत्सकृत् । । ५६
शतं सहस्रमयुतं लक्षं वा निजपापतः ।
दृष्ट्वा शक्तिं प्रणम्याथ सदा संयतमानसः । । ५७
विप्राय दक्षिणां दद्यान्निरुच्छ्वासः समाहितः ।
रक्तिके च हिरण्यस्य शतमात्रे सहस्रके । । ५८
माषकाणां चतुष्कं चायुतं दशगुणं दिशेत् ।
दक्षे दशगुणं प्रोक्तं दद्याद्रोगविमुक्तये । । ५९
एवं कृते विरूपाक्ष सर्वरोगाद्विमुच्यते ।
इदं रहस्यं परमं शृणुयाद्यो हि मानवः । । 1.52.६०
तस्य रोगा विनश्यन्ति मार्तण्डस्य प्रसादतः ।
अन्यच्च ते प्रवक्ष्यामि यच्चापृष्टमुमापते । ।
तच्छृणुष्व मया प्रोक्तं रथयन्तृनियामकम् । । ६१

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः । ५२ ।