भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०४६

विकिस्रोतः तः

ब्रह्मपर्ववर्णनम्

सुमन्तुरुवाच
येयं भाद्रपदे मासि षष्ठी च भरतर्षभ ।
सुपुण्येयं पापहरा शिवा शान्ता गुहप्रिया । । १
स्नानदानादिकं सर्वं यस्यामक्षय्यमुच्यते ।
येऽस्यां पश्यन्ति गाङ्गेयं दक्षिणापथमाश्रितम् । । २
ब्रह्महत्यादिभिः पापैर्मुच्यन्ते नात्र संशयः ।
तस्मादस्यां सदा पश्येत्कार्त्तिकेयं नृपोत्तम । । ३
पूजयन्ति गुहं येऽस्यां नरा भक्तिसमन्विताः ।
प्राप्येह ते सुखान्कामान्गच्छन्तीन्द्रसलोकताम् । । ४
यस्तु कारयते वेश्म सुदृढं सुप्रतिष्ठितम् ।
दार्वं शैलमयं चापि भक्तया श्रद्धासमन्वितः । ।
गाङ्गेयं यानमारुह्य गच्छेद्गाङ्गेयसद्म वै । । ५
सम्मार्जनादि यः कर्म कुर्याद्गुहगृहे नरः ।
ध्वजस्यारोपणं राजन्स गच्छेद्रुद्रसद्म वै । । ६
चन्दनागरुकर्पूरैर्यश्च पूजयते गुहम् ।
गजाश्वरथयानाढ्यं सैनापत्यमवाप्नुते । । ७
राज्ञां पूज्यः सदा प्रोक्तः कार्तिकेयो महीपते ।
कार्त्तिकेयमृते नान्यं राज्ञां पूज्यं प्रचक्षते । । ८
सङ्ग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम् ।
स शत्रुं जयते वीर यथेन्द्रो दानवान्रणे । । ९
तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्कारात्मजम् ।
पूजमानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप । ।
मुच्यते सर्वपापेभ्यस्तदा गच्छेच्छिवालयम् । । 1.46.१०
तैलं षष्ठ्यां न भुञ्जीत न दिवा कुरुनन्दन ।
यस्तु षष्ठ्यां नरो नक्तं कुर्याद्धि भरतर्षभ । ।
सर्वपापैः स निर्मुक्तो गाङ्गेयस्य सदो व्रजेत् । । ११
त्रिकृत्वो दक्षिणामाशां गत्वा यः श्रद्धयान्वितः ।
पूजयेद्देवदेवेशं स गच्छेच्छान्तिमन्दिरम् । । १२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां षष्ठीकल्पे कार्त्तिकेयमाहात्मयवर्णनं नाम षट्चत्वारिंशोऽध्यायः । ४६ । ।

इति षष्ठी कल्पः समाप्तः ।