भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०४५

विकिस्रोतः तः

कार्तिकेयवर्णनम्

ब्रह्मोवाच
इदं श्रुणु मयाख्यातं तर्कपूर्वमिदं वचः ।
युष्माकं संशये जाते कृते वै जातिकर्मणोः । । १
पुनर्वच्मि निबोधध्वं समासान्न तु विस्तरात् ।
संसिद्धिं यान्ति मनुजा जातिकर्मसमुच्चयात् । । २
सिद्धिं गच्छेद्यथा कार्यं दैवकर्मसमुच्चयात् ।
एवं संसिद्धिमायाति पुरुषो जातिकर्मणोः । । ३
इत्येवमुक्तवान्पूर्वं शिष्याणां बोधने पुरा ।
योगीश्वरो महातेजाः समासान्न तु विस्तरात् । । ४
सुमन्तुरुवाच
इति पृष्टः पुरा ब्रह्मा ऋषीन्प्रोवाच भारत ।
सवितर्कमिदं वाक्यं विप्रर्षे जातिकर्मणोः । । ५
तस्मात्त्वया महाबाहो न कार्यो विस्मयो नृप ।
कार्तिकेयं प्रति सदा देवानां दुर्विदा गतिः । । ६

इति श्रीभविष्ये महापुराणे शतार्धसाहहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे कार्तिकेयवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः । ४५ ।