भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०३७

विकिस्रोतः तः


॥ सुमंतुरुवाच ॥ ॥
तथा भाद्रपदे मासि पंचम्यां श्रद्धयान्वितः ॥
अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः ॥ १ ॥
पूजयेद्गंधपुष्पैश्च सर्पिः पायसगुग्गुलैः ॥
तस्य तुष्टिं समायांति पन्नगास्तक्षकादयः।।२।।
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्।।
तस्मात्सर्वप्रयत्नेन नागान्संपूजयेद्बुधः।।३।।
इति श्रीभविष्ये महापुराणे शतर्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोध्यायः।।३७।।