भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०३३

विकिस्रोतः तः
Jump to navigation Jump to search

सर्पभेदम्

शतानीक उवाच
सर्पाणां कति रूपाणि के वर्णाः किं च लक्षणम् ।
का जातिस्तु भवेत्तेषां केषु योनिकुलेषु वा । । १
सुमन्तुरुवाच
पुरा मेरौ नगवरे कश्यपं तपसां निधिम् ।
प्रणम्य शिरसा भक्तया गौतमो वाक्यमब्रवीत् । । २
सर्पाणां कति रूपाणि किं चिह्नं किं च लक्षणम् ।
जातिं कुलं तधा वर्णान्ब्रूहि सर्वं प्रजापते । । ३
कथं वा जायते सर्पः कधं मुञ्चेद्विषं प्रभो ।
विषवेगाः कति प्रोक्ताः कत्येव विषनाडिकाः । ।४
दंष्ट्राः कतिविधाः प्रोक्ताः किं प्रमाणं विषागमे ।
गृह्णीते तु कदा गर्भं कथं चेह प्रसूयते । । ५
कीदृशी स्त्री पुमांश्चैव कीदृशश्च नपुंसकः ।
किं नाम दशनं चैव एतत्कथय सुव्रत । । ६
तस्य१ तद्वचनं श्रुत्वा कश्यपः प्रत्यभाषत ।
शृणु गौतम तत्त्वेन सर्पाणामिह लक्षणम् । ।७
मास्याषाढे तथा ज्येष्ठे प्रमाद्यन्ति भुजङ्गमाः ।
ततो नागोऽथ नागी च मैथुने सम्प्रपद्यते । । ८
चतुरो वार्षिकान्मासान्नागी गर्भमधारयत् ।
ततः कार्त्तिकमासे तु अण्डकानि प्रसूयते । । ९
अण्डकानां तु विज्ञेये द्वेशते द्वे च विंशती ।
तान्येव भक्षयेत्सा तु भोगैकं घृणया त्यजेत् । । 1.33.१०
स्वर्णार्कवर्णाद्वै तस्मात्पुमान्सञ्जायतेऽण्डकात् ।
तान्येव खादते सर्प अहोरात्राणि विंशतिम् । । ११
स्वर्णकेतकवर्णाभाद्दीर्घराजीवसन्निभात् ।
तस्मादुत्पद्यते स्त्री वै अण्डाद्ब्राह्मणसत्तम । । १२
शिरीषपुष्पवर्णाभादण्डकात्स्यान्नपुंसकः ।
ततो भिनत्ति चाण्डानि षण्मासेन तु गौतम । । १३
ततस्ते प्रीतिसम्बन्धात्स्नेहं बध्नन्ति बालकाः ।
ततोऽसौ सप्तरात्रेण कृष्णो भवति पन्नगः । । १४
आयुःप्रमाणं सर्पाणां शतं विंशोत्तरं स्मृतम् ।
मृत्युश्चाष्टविधो ज्ञेयः शृणुष्वात्र यथाक्रमम् । । १५
मयूरान्मानुषाद्वापि चकोराद्गोखुरात्तथा२ ।
बिडालान्नकुलाच्चैव वराहाद्वृश्चिकात्तथा । ।
एतेषां यदि मुच्येत जीवेद्विंशोत्तरं शतम् । । १६
सप्ताहे तु ततः पूर्णे दंष्ट्राणां चाधिरोहणम् ।
विषस्यागमनं तत्र निक्षिपेच्च पुनः पुनः । । १७
एवं ज्ञात्वा तु तत्त्वेन विषकर्म्मारभेत वै ।
एकविंशतिरात्रेण विषदंष्ट्रा सुजायते । ।
नागीपार्श्वसमावर्ती बालसर्पः स उच्यते । । १८
पञ्चविंशतिरात्रस्तु सद्यः प्राणहरो भवेत् ।
षण्मासाज्जातमात्रस्तु कञ्चुकं वै प्रमुञ्चति । । १९
पादानां चापि विज्ञेये द्वे शते द्वे च विंशती ।
गोलोमसदृशाः पादाः प्रविशन्ति क्रमन्ति च । । 1.33.२०
सन्धीनां चास्य विज्ञेये द्वेशते विंशती तथा ।
अंगुल्यश्चापि विज्ञेया द्वे शते विंशती तथा । । २१
अकालजाता ये सर्पा निर्विषास्ते प्रकीर्तिताः ।
पञ्चसप्ततिवर्षाणि आयुस्तेषां प्रकीर्तितम् । । २२
रक्तपीतशुक्लदन्ता अनीला मन्दवेगिनः ।
एते अल्पायुषो ज्ञेयो अन्ये च भीरवः स्मृता । । २३
एकं चास्य भवेद्वक्त्रं द्वे जिह्वे च प्रकीर्तिते ।
द्वात्रिंशद्दशनाः प्रोक्ताः पन्नागानां न संशयः । । २४
तेषां मध्ये चतस्रस्तु दंष्ट्रा याः सुविषावहाः ।
मकरी कराली कालरात्री यमदूती तथैव च । । २५
सर्वासां चैव दंष्ट्राणां देवताः परिकीर्तिताः ।
प्रथमा ब्रह्मदेवत्या द्वितीया विष्णुदेवता । ।
तृतीया रुद्रदेवत्या चतुर्थी यमदेवता । । २६
हीना प्रमाणतः सा तु वामनेत्रं समाश्रिता ।
नास्यां मन्त्राः प्रयोक्तव्या नौषधं नैव भेषजम् । । २७
वैद्यः पराङ्मुखो याति मृत्युस्तस्या विलेखनात् ।
चिकित्सा न बुधैः कार्या तदन्तं तस्य जीवितम् । । २८
मकरीं मासिकां विद्यात्कराली च द्विमासिका ।
कालरात्री भवेत्त्रीणि चतुरो यमदूतिका । । २९
मकरीं गुडौदनं१ दद्यात्कषायान्नं करालिकाम् ।
कालरात्रीं कटुयुतं दूतीं वै सान्निपातिकम् । । 1.33.३०
मकरी शस्त्रकं विद्यात्कराली काकपादिका ।
कराकृतिः कालरात्रिर्याम्या कूर्माकृतिः स्मृता । । ३१
मकरी वातुला ज्ञेया कराली पैत्तिकी स्मृता ।
कफात्मिका कालरात्री यमदूती सान्निपातकी । । ३२
शुक्ला तु मकरी ज्ञेया कराली रक्तसन्निभा ।
कालरात्री भवेत्पीता कृष्णा च यमदूतिका । । ३३
वामा शुक्ला च कृष्णा च रक्ता पीता च दक्षिणा ।
समासेन तु वक्ष्यामि यथैता वर्णतः स्मृताः । । ३४
शुक्ला तु ब्राह्मणी ज्ञेया रक्ता तु क्षत्रिया स्मृता ।
वैश्या तु पीतिका ज्ञेया कृष्णा शूद्रा तु कथ्यते । ।
अतः परं प्रवक्ष्यामि दंष्ट्राणां विषलक्षणम् । । ३५
दंष्ट्राणां तु विषं नास्ति नित्यमेव भुजङ्गमे ।
दक्षिणं नेत्रमासाद्य विषं सर्पस्य तिष्ठति । । ३६
सङ्कुद्धस्येह सर्पस्य विषं गच्छति मस्तके ।
मस्तकाद्धमनीं याति ततो नाडीषु गच्छति । । ३७
नाडीभ्यः पद्यते दंष्ट्रां विषं तत्र प्रवर्तते ।
तत्सर्वं कथयिष्यामि यथावदनुपूर्वशः । । ३८
अष्टभिः कारणैः सर्पो दशते नात्र संशयः ।
आक्रान्तो दशते पूर्वं द्वितीयं पूर्ववैरिणम् । । ३९
तृतीयं दशते भीतश्चतुर्थं मददर्पितः ।
पञ्चमं तु क्षुधाविष्टः षष्ठं चेह विषोल्बणः । ।
सप्तमं पुररक्षार्थमष्टमं कालचोदितः । । 1.33.४०
यस्तु सर्पो दशित्वा३ तु उदरं परिवर्तयेत् ।
बलभुग्नाकृतिं दंष्ट्रामाक्रान्तं तं विनिर्दिशेत् । ।४ १
यस्य सर्पेण दष्टस्य गभीरं दृश्यते व्रणम् ।
वैरदष्टं विजानीयात्कश्यपस्य वचो यथा । ।४ २
एकं दंष्ट्रापदं यस्य अव्यक्तं न च कल्पितम् ।
भीतदष्टं विजानीयाद्यथोवाच प्रजापतिः । । ४३
यस्य सर्पेण दष्टस्य रेखा दन्तस्य जायते ।
मददष्टं विजानीयात्कश्यपस्य वचो यथा । । ४४
द्वे च दंष्ट्रापदे यस्य दृश्यन्ते च महाक्षतम् ।
क्षुधाविष्टं विजानीयाद्यथोवाच प्रजापतिः । । ४५
द्वे दंष्ट्रे यस्य दृश्येते क्वचिद्रुधिरसङ्कुले ।
विषोल्बणं विजानीयाद्दंशं तं नात्र संशयः । । ४६
अपत्यरक्षणार्थाय जानीयात्तं न संशयः ।
यत्तु काकपदाकारं त्रिभिर्दन्तैस्तु लक्षितम् । । ४७
महानाग इति प्रोक्तं कालदण्डं विनिर्दिशेत् ।
त्रिविधं दष्टजातैस्तु लक्षणं समुदाहृतम् । ।४८
दष्टानुपीतं विज्ञेयं कश्यपस्य वचो यथा ।
विषभागात्तु सर्पस्य त्रिभागस्तत्र संक्रमेत् । । ४९
उदरं दर्शयेद्यस्तु उद्धतं तं विनिर्दिशेत् ।
छर्दितं विषवेगेन निर्विषः पन्नगो भवेत् । । 1.33.५०
असाध्यश्चापि विज्ञेयश्चतुर्दंष्ट्राभिपीडितः ।
ग्रीवाभङ्गो भवेत्किञ्चित्सन्दष्टो विषयोगतः । ।
इतो दंशस्ततः शुद्धो व्यन्तरः परिकीर्तितः । । ५१

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे सर्पदंष्ट्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः । ३३ ।