भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१९

विकिस्रोतः तः
Jump to navigation Jump to search

शर्यात्याख्याने पुष्पद्वितीया वर्णनम्

सुमन्तुरुवाच
द्वितीयायां तु राजेन्द्र अश्विनौ सोमपीतिनौ ।
च्यवनेन कृतौ यज्ञे मिषतो मघवस्य१ च । । १
शतानीक उवाच
कथमिन्द्रस्य मिषतः कृतौ तौ सोमपीतिनौ ।
च्यवनेन हि देवानां पश्यतां तद्वदस्व मे । । २
अहो महत्तपस्तस्य च्यवनस्य महात्मनः ।
यदिन्द्रस्य बलादेव देवत्वं प्रापितावुभौ । । ३
सुमन्तुरुवाच
पुरातनयुगे सन्धौ पश्चिमेऽथ नराधिप ।
च्यवनो योगमास्थाय गंगाकूलेऽवसच्चिरम् । । ४
तत्र शर्यातिरायातः स्नातुमन्तः१ पुरैः सह ।
स्नात्वाभ्यर्च्य२ पितॄन्देवान्गमनायोपचक्रमे । । ५
तत्र मूढं जनपदमपश्यत्पथि चेष्टनम् ।
विण्मूत्रोत्सर्गसंरुद्धं ज्योतिराक्षिप्तनिष्क्रियम् । ।
भ्रमन्तं तत्रतत्रैव समीक्ष्य स बलं नृपः । । ६
उवाच३ दुर्मना राजा अमात्यान्स्वान्पुरोगमान् ।
च्यवनस्याश्रमोऽयं हि नापराद्धं तु केनचित् । । ७
न चोवाच यदा कश्चित्तस्य राज्ञस्तु पृच्छतः ।
तदा सुता सुकन्यास्य प्रोवाच पितरं वचः । । ८
मया दृष्टं तु यत्तात सखिभिः सह कौतुकम् ।
तत्ते वच्मि निबोध त्वं शृणु तात महाद्भुतम् । । ९
शिञ्जितारावबहुलाः काञ्चीनूपुरमेखलाः ।
गायन्त्यो विलपन्त्यश्च कीडन्त्यश्चात्र कानने । । 1.19.१०
कोकिलध्वनिमश्रौषं व्यक्ताव्यक्ताक्षरं कृशम् ।
सुकन्ये ह्येहिह्येहीति वल्मीकाद्वचमुद्गिरन् । । ११
तत्र गत्वाद्भुतं तात पश्यामः किल पावकौ ।
दीपाविवाचलशिखौ भूयः कन्या उवाच ह । । १२
मया च कौतुकात्तात किमेतदित्यबुद्धितः ।
सूदितौ दर्भसूच्यग्रैस्तत्तेजः समुपारमत् । । १३
तच्छ्रुत्वा नृपतिस्त्रस्तस्तूर्णं तद्वनमागमत् ।
यत्रास्ते भार्गवः कष्टं वल्मीकान्तर्गतो मुनिः । । १४
गत्वा स तत्र प्रोवाच प्रणिपत्य द्विजोत्तमम् ।
अपराद्धं मया १ देव तत्क्षमस्व नमोऽस्तु ते । । १५
स तं प्रोवाच नृपतिं मया ज्ञातं नराधिप ।
सुकन्यां मे प्रयच्छस्व निवेशार्थी२ ह्यहं नृप । ।
अनुक्रमन्सुकन्यां तु दत्त्वा राजन्सुखी भव । । १६
इत्युक्तः प्रददौ राजा सुकन्यामविचारयन् ।
ततः स्वपुरमागम्य अवसत्सुचिरं सुखी । । १७
सुकन्यापि पतिं लब्ध्वा सुप्रीताराधयत्तदा ।
राज्यश्रियं परित्यज्य वल्कलाजिनधारिणी । । १८
गते बहुतिथे काले वसन्ते समुपस्थिते ।
तपोद्योतितसर्वाङ्गीं रूपोदार्यगुणान्विताम् । ।
स्नातां स्वभार्यां च्यवन उवाच मधुराक्षरम् । । १९
एह्येहि भद्रे भद्रं ते शयनीयं समाश्रय ।
अपत्यं जनयस्याद्य कुलद्वयविवर्धनम् । । 1.19.२०
एवमुक्ता तु सा कन्या प्राञ्जलिः पतिमब्रवीत् ।
३नार्हस्यद्य सुकल्याण सङ्गमं स्थण्डिलेऽसमे । । २१
मम प्रियं कुरुष्वाद्य ततो मामाह्वयस्व च ।
पितृगेहे यथातिष्ठं शयनीये सुसंस्कृते । । २२
बहुगैरिकवर्णाद्यैः श्वेतपीतारुणाकुले ।
वस्त्रालङ्कारगन्धाद्यैस्तथा त्वमपि तत्कुरु । । २३
आत्मानं वयसोपेतं रूपवन्तं सुवर्चसम् ।
वस्त्रालङ्कारगन्धाढ्यं पश्येयं येन सादरम् । । २४
सुकन्याया वचः श्रुत्वा च्यवनः प्राह दुर्मनाः ।
न मेऽस्ति वित्तं कल्याणि पितुस्तेऽस्ति यथा वने । । २५
स कथं भूषयाम्यद्य सुरूपश्च कथं वद ।
प्रोवाच सा पतिं भूयः प्रहसन्ती कृताञ्जलिः । ।
वित्तं ददावैलविलो रूपं वैरोचनोऽददत् । । २६
च्यवनः प्राह भार्यां तां न करिष्ये तपोव्ययम् ।
एवमुक्त्वा तपश्चोग्रं तताप सुचिरं तदा । । २७
अथ तत्रागतौ वीरावश्विनौ कालपर्ययात् ।
दृष्टवन्तौ सुकन्यां तौ दीप्त्या वै देवतामिव । । २८
उपगम्योचतुस्तां तौ का त्वं सुन्दरि रूपिणी ।
किमर्थमिह एका त्वं तिष्ठसे कस्तवाश्रयः । । २९
सा तावुवाच तन्वङ्गी शर्यातिदुहिता ह्यहम् ।
भर्ता च च्यवनो मह्यं कौ च वां मे तथोच्यताम् । । 1.19.३०
ऊचतुश्चाश्विनौ देवावावां विद्धि नृपात्मजे ।
किं करिष्यसि तेन त्वं जीर्णेन च कृशेन च । ।
आवयोर्वृणु भर्तारमेकमेव यमिच्छसि । । ३१
सा त्वब्रवीच्च मा मैवं वक्तुमर्हौ दिवौकसौ ।
भर्तारमनुरक्ताङ्गी यथा स्वाहा विभावसोः । । ३२
अश्विनावूचतुः
आयातु च विशत्वद्य च्यवनो वैष्णवीजलम् ।
ततो नौ मध्यगं ह्येकं वृणीष्वान्यं यमिच्छति । । ३३
तावब्रूतां सुकन्यां तु गत्वा पृच्छ स्वकं पतिम् ।
तं च पृष्ट्वा पुनश्चात्रागच्छ नौ सन्निधौ पुनः । । ३४.
आवामत्रैव तिष्ठावो यावदागमनं तव ।
सा गत्वा प्राह भर्तारमश्विनावेवसूचतुः १ । । ३५
रूपवन्तं च भर्तारं करिष्यावो यमिच्छसि ।
अथ मध्यगतं ह्येकं भर्तृत्वेन वरिष्यसि । । ३६
एवमस्त्विति तां प्राह भार्यां च्यवनस्त्वरन् ।
सा तं गृह्य जगामाशु यत्र तौ भिषजावुभौ । । ३७
सा तावुवाच च्यवनो यथोक्तं भवतोर्वचः ।
कुरुतं ह्यश्विनौ क्षिप्रं सुकन्या चेप्सितं२ वृणोत् । । ३८
तौ तं सङ्गृह्य गङ्गायां प्रविष्टौ मुनिना सह ।
मुहूर्तात्तु समुत्तिष्ठन्रूपतश्च श्रिया वृताः । । ३९
शोभन्ते स्म महाबाहौ कमुद्भिद्य तपोयुताः ।
कल्पादौ कलशे यद्वत्कञ्जाक्ष व्योम वेधसः । ।
उदकादुत्थितास्तस्मात्सर्वे ते समरूपकाः ।।1.19.४०
सुकन्या तु ततो दृष्ट्वा भर्त्तारं देवरूपिणम् ।
हर्षेण महताविष्टा न च तं वेद भारत ।।४१
समकायाः समवयः समरूपाः समश्रियः ।
वस्त्रालङ्कारसदृशान्दृष्ट्वा चिन्तां गता चिरम् ।।४२
सा चिन्तयित्वा सुचिरं वैद्यदेवावुवाच ह ।
बीभत्सोऽपि मया भर्ता परित्यक्तो न कर्हिचित् ।।४३
भवद्भिरात्मसंदृशं कथं१ त्यक्त्वा वृणे परम् ।
तस्मात्तमेव भर्तारं प्रयच्छध्वं दिवौकसः ।।४४
तया सबहुमानं तौ प्राञ्जल्या प्रार्थितौ तदा ।
देवचिह्नानि स्वान्येव धारयन्तौ सुपूजितौ ।।४५
सुकन्या निपुणं तौ तु सुनिरीक्ष्य च विह्वला ।
न रजो न निमेषो वै न स्पृशेते धरां पदे ।।४६
अयं च सरजा म्लानो भूमिमाश्रित्य तिष्ठति ।
निमेषं चैव तस्यैवं ज्ञात्वा वै च्यवनो वृतः ।।४७
च्यवने वृते सुकन्यया पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयश्चैव प्रावाद्यन्त अनेकशः ।।४८
ततस्तु च्यवनस्तुष्टो दिव्यरूपधरस्तदा ।
उवाच तौ तु सुप्रीत अश्विनौ किं करोमि वाम् ।।४९
भार्या दत्ता कृतं रूपं देवानामपि दुर्लभम् ।
उपकारं वरिष्ठं यो न करोत्युपकारिणः ।।1.19.५०
एकविंशत्स गच्छेच्च नरकाणि क्रमेण वै ।
तस्मादहं वरिष्ठं वै करिष्येऽहममानुषम् । । ५१
उपकारं भवद्भ्यां तु प्रीतः कुर्यां सुनिश्चितम् ।
यज्ञभागफलं दद्यां यद्देवेष्वपि दुर्लभम् । । ५२
एवमुक्त्वा तु देवेशौ विससर्ज महामुनिः ।
आजगामाश्रमं पुण्यं सहभार्यो मुदान्वितः । । ५३
अथ शुश्राव शर्यातिश्च्यवनं देवरूपिणम् ।
जगाम च महातेजा द्रष्टुं मुनिवरं वशी । । ५४
तं दृष्ट्वा प्रणिपत्यादौ प्रतिपूज्य यथार्हतः ।
सुकन्यां तु ततो दृष्ट्वा प्रणिपत्याभिनन्द्य च । । ५५
सस्वजे मूर्ध्नि आघ्राय ततोत्सङ्गं १ समानयत् ।
सा तस्याः सस्वजे प्रेम्णा आनन्दाश्रुपरिप्लुता । ।
संस्थाप्य तां मुदा युक्तो नृपतिः सह भार्यया । । ५६
भूयोऽब्रवीत्सुसंतुष्टं च्यवनस्तं नराधिपम् ।
संभारं कुरु यज्ञार्थं याजयिष्ये नराधिप । । ५७
एवमुक्तः स नृपतिः प्रणिपत्य महामुनिम् ।
जगाम स्वपुरं हृष्टो यज्ञार्थं यत्नमाचरत् । । ५८
सप्रेष्यान्प्रेषयन्क्षिप्रं यज्ञार्थे द्रव्यमाहरत् ।
मंत्रिपुरोहिताचार्यानानयामास सत्वरम् । । ५९
समानीतेषु सर्वेषु तेषु द्रव्येषु भारत ।
आजगाम विशुद्धात्मा च्यवनः सह भार्यया । । 1.19.६०
सम्पूजितश्च शुश्राव महान्तं त्यागमौजसम् ।
अन्यैश्च बहुभिः सार्द्धमत्र्यङ्गिरसभार्गवैः । । ६१
प्रवर्तिते महायज्ञे यजमाने नृपोत्तमे ।
ऋत्विक्त्वकर्मनिरते हूयमाने हुताशने । ।
आहूताः स्वागताः सर्वे भागार्थं त्रिदिवालयाः । । ६२
यज्ञभागे प्रवृत्ते तु शास्त्रोक्तेन विधानतः ।
आगतावश्विनौ तत्र आहूतो च्यवनेन तु । । ६३
आह्वाने क्रियमाणे तु अश्विभ्यां तु तदा नृप ।
प्रोवाचेन्द्रोऽथ च्यवनं नैतौ भागान्वितौ कुरु । ।
देवानां भिषजावेतौ न भागार्हौ न दैवतौ । । ६४
च्यवनस्त्विंद्रमाहेदं देवौ ह्येतावुभावपि ।
ममोपकारिणावेतौ दद्मि भागं न संशयः । । ६५
ततो ह्युवाच सक्रोधः स शक्रश्च्यवनं रुषा ।
विप्रर्षे प्रहरिष्यामि यदि भागं प्रयच्छसि । । ६६
एवमुक्तस्तु विप्रर्षिर्न चोवाचापि किञ्चन ।
भागौ ददौ च सोऽश्विभ्यां स्रुवमुद्यम्य मन्त्रतः । । ६७
अथ उद्यम्य भिदुरं मोक्तुकामो दिवस्पतिः ।
स्तम्भितश्च्यवनेनाथ सवज्रः स नराधिप । । ६८
स स्तम्भयित्वात्विन्द्रं तु भागं दत्त्वाश्विनोर्वशी ।
समापयामास तदा यज्ञकर्म यथार्थवत् । । ६९
कञ्जजोऽथाजगामाशु आह च च्यवनं तदा ।
उत्तंभ्यतामयं लेखो भागश्चास्त्वश्विनोरिह ।।1.19.७०
तथेन्द्रस्तमुवाचेदं च्यवनं प्रीतमानसः ।
जानामि शक्तिं तपसश्च्यवनेह तवोत्तमाम् ।।७ १
ख्यापनार्थं हि तपसस्तव एतत्कृतं मया ।
अद्यप्रभृति भागोऽस्तु देवत्वं चाश्विनोस्तथा ।।७२
यस्त्विमां तपसः ख्यातिं त्वदीयां वै पठिष्यति ।
शृणुयाद्वापि शुद्धात्मा तस्य पुण्यफलं शृणु ।।७३
विरोचनसदो गत्वा गत्वा पुष्पसदस्तथा ।
कालेऽथ वामदेवस्य मुञ्जकेशसदस्तथा ।।
यौवनयुक्तः स क्रीडास्तिष्ठतीति न संशयः ।।७४
एवमुक्त्वा जगामाशु देवः स्वभवनं वशी ।
च्यवनोऽपि सभार्यो वै शयार्तिश्चाश्रमं गतः ।।७५
अथापश्यद्विमानाभं भवनं देवनिर्मितम् ।
शय्यासनवरैर्जुष्टं सर्वकामसमृद्धिमत् ।।७६
१उद्यानवापिभिर्जुष्टं देवेन्द्रेण समाहृतम् ।
२गोखण्डसन्निभं रेजे गृहं तद्भुवि दुर्लभम् ।।७७
सुभूषणानि दिव्यानि रत्नवन्ति महान्ति च ।
अरजान्सि च वस्त्राणि दिव्यप्रावरणानि च । ।७८
तत्सर्वमखिलं सह पत्न्या महामुनिः ।
मुदं परमिकां लेभे शक्रं च प्रशशंस ह ।।७९
एवमिष्टा तिथिरियं द्वितीया अश्विनोर्नृप ।
देवत्वं यज्ञभागं च सम्प्राप्ताविह भारत ।।1.19.८०
उपोष्या विधिना येन तं शृणुष्व नराधिप ।
रूपं सुरूपं यो वाञ्छेद्द्वितीयायां नराधिप । । ८१
कार्तिके शुक्लपक्षस्य द्वितीयायां नराधिप ।
पुष्पाहारो वर्षमेकं भवेत्स नियतात्मवान् । । ८२
कालप्राप्तानि यानि स्युर्हविष्यं कुसुमानि तु ।
भुञ्जीयात्तानि दत्त्वा तु ब्राह्मणेभ्यो नराधिप । । ८३
सौवर्णरौप्यपुष्पाणि अथ वा जलजानि १ च ।
व्रतान्ते तस्य सन्तुष्टौ देवौ त्रिभुवनेऽश्विनौ । । ८४
ददतुः कामगं दिव्यं विमानमतितेजसम् ।
सुचिरं दिवि नारीभिर्लोकेऽसौ रमतेऽश्विनोः । । ८५
इह चागत्य कल्पान्ते जातो विप्रः पुरस्कृतः ।
वेदवेदांगविदुषः सप्तजन्मान्तराण्यसौ । । ८६
जातो जातो भवेद्विद्वान्ब्राह्मणोऽसौ कृते युगे ।
दाता यज्ञपतिर्वाग्मी आधिव्याधिविवर्जितः । । ८७
पुत्रपौत्रैः परिवृतः सह पन्त्याऽवसच्चिरम् ।
मध्यदेशे सुनगरे २ धर्मिष्ठो राज्यभाग्भवेत् । । ८८
इत्येषा कथिता तुभ्यं द्वितीया पुष्पसंज्ञिता ।
फलसंज्ञा तथान्या स्यात्सुते वै मुञ्जकेशिनि । । ८९
सुष्ठु पुण्या पापहरा विष्टरश्रवसः प्रिया ।
अशून्यशयना लोके प्रख्याता कुरुनन्दन । । 1.19.९०
तामुपोष्य नरो राजञ्छ्रद्धाभक्तिपुरस्कृतः ।
ऋद्धिं वृद्धिं श्रियं वाथ भार्यया सह मोदते । । ९१

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयाकल्पे शर्यात्याख्याने पुष्पद्वितीयावर्णनं नामैकोनविंशोऽध्यायः । १९ ।